संस्कृत सूची|संस्कृत साहित्य|कालविलास| सर्ग ६ कालविलास सर्ग १ सर्ग २ सर्ग ३ सर्ग ४ सर्ग ५ सर्ग ६ सर्ग ७ सर्ग ८ सर्ग ९ सर्ग १० कालविलास - सर्ग ६ कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है । Tags : kalavilaspoemकालविलासकाव्यसंस्कृत मदवर्णनम् Translation - भाषांतर एकः सकलजनानां हृदयेषु कृतास्पदो मदः शत्रुः ।येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ॥१॥विजितात्मनां जनानाम् अभवद्यः कृतयुगे दमो नाम ।सोऽयं विपरीततया मदः स्थितः कलियुगे पुंसाम् ॥२॥मौनं वदननिकूणनम् ऊर्ध्वेक्षणमन्यलक्ष्यता चाक्ष्णोः ।गात्रविलेपनवेष्टनम् अग्र्यं रूपं मदस्यैतत् ॥३॥शौर्यमदो रूपमदः शृङ्गारमदः कुलोन्नतिमदश्च ।विभवमदमूलजाता मदवृक्षा देहिनामन्ते ॥४॥शूलारूढसमानो वातस्तब्धोपमोऽथ भूतसमः ।बहुभोगे विभवमदः प्रशमज्वरसंनिपातसमः ॥५॥शौर्यमदो भुजदर्शी रूपमदो दर्पणादिदर्शी च ।काममदः स्त्रीदर्शी विभवमदस्त्वेष जात्यन्धः ॥६॥अन्तःसुखरसमूर्च्छामीलितनयनः समाहितध्यानः ।धनमद एष नराणाम् आत्मारामोपमः कोऽपि ॥७॥उन्मादयत्यविषये विविधविकारः समस्तगुणहीनः ।मूढमदस्त्वन्योऽयं जयति विचित्रो निरालम्बः ॥८॥स्तम्भान्न पश्यति भुवं खेचरदर्शी सदा तपस्विमदः ।भक्तिमदोऽद्भुतकारी विस्मृतदेहश्चलः प्रकृत्यैव ॥९॥आकोपरक्तनयनः परवाङ्मात्रासहः प्रलापी च ।विषमः श्रुतमदनामा धातुक्षोभो नृणां मूर्तः ॥१०॥सततभ्रुकुटिकरालः परुषाक्रोशी हठाभिघातपरः ।अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥११॥पूर्वपुरुषप्रतापप्रथितकथाविस्मृतान्यनिजकृत्यः ।कुलमद एकः पुंसां सुदीर्घदर्शी महाज्ञानः ॥१२॥वर्जितसकलस्पर्शः सर्वाशुचिभावनान्निरालम्बः ।आकाशेऽपि सलेपः शौचमदो नित्यसंकोचः ॥१३॥सावधयः सर्वमदा निजनिजमूलक्षये विनश्यन्ति ।वरमद एकः कुटिलो विजृम्भते निरवधिर्भोगी ॥१४॥पानमदस्तु जघन्यः सर्वजुगुप्सास्पदं महामोहः ।क्षणिकोऽपि हरति सहसा वर्षसहस्रार्जितं शीलम् ॥१५॥विद्यावति विप्रवरे गवि हस्तिनि भूपतौ श्वपाके च ।मद्यमदः समदर्शी स्वपरविभागं न जानाति ॥१६॥विगलितसदसद्भेदः समकाञ्चनलोष्टपाषाणः ।प्राप्तो योगिदशामपि नरके क्षीबः स्वयं पतति ॥१७॥रोदिति गायति विहसति गायति विलपत्य् उच्चैर् उपैति संमोहम् ।भजते विविधविकारान् संसारादर्शमण्डलः क्षीबः ॥१८॥परपतिचुम्बनसक्तां पश्यति दयितां न याति संतापम् ।क्षीबोऽतिगाढरागं पीत्वा मधु वीतरागः किम् ॥१९॥विसृजति वसनं दूरे व्यसनं गृह्णाति दुःसहं क्षीबः ।अञ्जलिपात्रे पिबति च निजमूत्रविजृम्भितं चन्द्रम् ॥२०॥च्यवनः पुरा महर्षिः यौवनमश्विप्रयोगतो लब्ध्वा ।यज्ञे स्वयं कृतज्ञः तौ चक्रे सोमपानार्हौ ॥२१॥क्रुद्धस्तमेत्य शक्रः प्रोवाच मुने न वेत्सि किमपि त्वम् ।भिषजावपङ्क्तियोग्यो सोमार्हावश्विनौ यस्य ॥२२॥इति बहुशः सुरपतिना प्रतिषिद्धोऽपि स्वतेजसा च्यवनः ।न चचाल निश्चितात्मा निजकृत्यादश्विनोः प्रीत्या ॥२३॥तत्कोपोद्यतवज्रं जम्भारेरायतं भुजस्तम्भम् ।अस्तम्भयन्मुनीन्द्रः प्रभावसंभावनापात्रम् ॥२४॥असृजच्च तद्वधाय प्रलम्बकायोपमं चतुर्दंष्ट्रम् ।योजनसहस्रविपुलं कृत्यारूपं महासुरं घोरम् ॥२५॥तेनाविष्टः सहसा भीतो वज्री तमाययौ शरणम् ।सोमोऽस्तु देवभिषजोः इति चोवाच प्रणष्टधृतिः ॥२६॥मुनिरपि करुणासिन्धुः भीतं प्रणतं महेन्द्रमाश्वास्य ।मदमुत्ससर्ज घोरं द्यूतस्त्रीपानमृगयासु ॥२७॥सोऽयमसुरः प्रमाथी मुनिना क्रुद्धेन निर्मितो हृदये ।निवसति शरीरभाजां स्तम्भाकारो गुणैर्बद्धः ॥२८॥मौने श्रीमत्तानां निःस्पन्ददृशि प्रवृद्धविभवानाम् ।भ्रूभङ्गमुखविकारे धनिकानां भ्रूयुगे विटादीनाम् ॥२९॥जिह्वासु दूतविदुषां रूपवतां दशनवसनकेशेषु ।वैद्यानामोष्ठपुटे ग्रीवायां गुणिनियोगिगणकानाम् ॥३०॥स्कन्धतटे सुभटानां हृदये वणिजां करेषु शिल्पवताम् ।गलपत्राङ्गुलिभङ्गे छात्राणां स्तनतटेषु तरुणीनाम् ॥३१॥उदरे श्राद्धार्हाणां जङ्घासु च लेखहारपुरुषाणाम् ।गण्डेषु कुञ्जराणां बर्हे शिखिनां गतेषु हंसानाम् ॥३२॥इत्येवं मदनामा मदाग्रहो बहुविकारदृढमोहः ।अङ्गे काष्ठीभूतो वसति सदा सर्वभूतानाम् ॥३३॥इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे मदवर्णननाम षष्ठः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP