संस्कृत सूची|संस्कृत साहित्य|कालविलास| सर्ग २ कालविलास सर्ग १ सर्ग २ सर्ग ३ सर्ग ४ सर्ग ५ सर्ग ६ सर्ग ७ सर्ग ८ सर्ग ९ सर्ग १० कालविलास - सर्ग २ कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है । Tags : kalavilaspoemकालविलासकाव्यसंस्कृत सर्ग २ Translation - भाषांतर लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् ।कार्याकार्यविचारो लोभाकृष्टस्य नास्त्येव ॥१॥मायाविनिमयविभ्रमनिह्नववैचित्यकूटकपटानाम् ।सञ्चयदुर्गपिशाचः सर्वहरो मूलकारणां लोभः ॥२॥सत्त्वप्रशमतपोभिः सत्त्वधनैः शास्त्रवेदिभिर्विजितः ।लोभोऽवटं प्रविष्टः कुटिलं हृदयं किराटानाम् ॥३॥क्रयविक्रयकूटतुलालाघवनिःक्षेपरक्षणव्याजैः ।एते हि दिवसचौरा मुष्णन्ति मुदा जनं वणिजः ॥४॥हृत्वा धनं जनानां दिनमखिलं विविधकूटमायाभिः ।वितरति गृहे किराटः कष्टेन वराटकत्रितयम् ॥५॥आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् ।दष्ट इव कृष्णसर्पैः फलायते दानधर्मेभ्यः ॥६॥द्वादश्यां पितृदिवसे संक्रमणे सोमसूर्ययोर्ग्रहणे ।सुचिरं स्नानं कुरुते न ददाति कपर्दिकामेकाम् ॥७॥दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं कृत्वा ।चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥८॥न ददाति प्रतिवचनं विक्रयकाले शठो वणिङ्मौनी ।निःक्षेपपाणिपुरुषं दृष्ट्वा संभाषणां कुरुते ॥९॥उत्तिष्ठति नमति वणिक् पृच्छति कुशलं ददाति च स्थानं ।निःक्षेपपाणिपुरुषं दृष्ट्वा धर्म्यां कथां कुरुतेक ॥१०॥कश्चिद्वदति तमेत्य द्रविणं निःक्षिप्य हन्त गन्तास्मि ।भ्रातः परं प्रभाते विष्टिदिनं किं करोम्यद्य ॥११॥तच्छ्रुत्वा विकसितदृग्वदति स मिथ्यैव नाटयन्खेदम् ।कार्ये प्रसारिताक्षः पुनः पुनः पार्श्वमवलोक्य ॥१२॥त्वदधीनं स्थानमिदं किं तु चिरं न्यासपालनं कठिनम् ।विषमौ च देशकालौ साधोस्तव तदपि दासोऽहम् ॥१३॥भद्राऌ न दूषितैषा निःक्षेपक्षेमकारिणी शस्ता ।इत्यनुभूतं बहुशः कार्यज्ञैस्त्वं तु जानासि ॥१४॥विष्टिदिने किमपि पुराऌन्यस्तं केनापि मित्रेण ।तूर्णं पुनश्च शनकैर्नीतं क्षेमेण कुशलेन ॥१५॥इत्यादि मुग्धबुद्धेरसमन्न्जसवर्णनं रहः कृत्वा ।गृह्णाति कनकनिकरं नृत्यंस्तत्तन्मनोरथैः पापः ॥१६॥तत्संचूर्णनजातैः क्रयविक्रयलाभराशिभिरनन्तैः ।भाण्डप्रतिभाण्डचयैरुपहसति धनाधिनाथं सः ॥१७॥पूर्णाः कदर्यवणिजां निःसंभोगा निधानधनकुम्भाः ।सीदन्ति कुचतटा इव दुःखफला बालविधवानाम् ॥१८॥दानोपभोगविरहितहिरण्यरक्षाकृतक्षणाः सततम् ।संसारजीर्णमन्दिरविषयविषममहामूषका वणिजः ॥१९॥अटति समुत्कटवेष्टितविकटपटस्फुटफटाटोपः ।कुटिलः कण्टकनिचितः पुरपतिनामा विधिव्यालः ॥२०॥अथ पुरुषः स दिगन्तं भ्रान्त्वा केनापि दैवयोगेन ।नष्टधनो जनरहितः प्राप्तः सुचिरान्निजं देशम् ॥२१॥पृच्छति कमपि सशङ्कः स किराटः क्व नु गतो महासत्त्वः ।तमुपेत्य वदति कश्चित्तस्याद्य सखे विभूतिरन्यैव ॥२२॥विविधनवांशुकमृगमदचन्दनकर्पूरमरिचपूगफलैः ।खटिकाहस्तः स सदा गणयति कोटीर्मुहूर्तेन ॥२३॥अस्मिन्मेरुविशाले वरभवने रुचिरभित्तिकृतचित्रे ।पुरपतिनाप्यनुयातो वसति सुखं स हि महाजनो यत्र ॥२४॥श्रुत्वैतदतुलविस्मयलोलितमौलिः स तद्गृहं गत्वा ।द्वारे स्थगितस्तिष्ठति निष्प्रतिभो जीर्णकर्पटः सुचिरम् ॥२५॥तं तुङ्गभवनवलभीजालान्तरतो वणिक्परिज्ञाय ।नोच्छ्वसिति नष्टचेतस्ताडित इव मूर्ध्नि वज्रेण ॥२६॥उपसृत्य मन्दमन्दं कथमपि संप्राप्तनिर्जनावसरः ।तं याचते स पुरुषो द्रविणं स्वं प्रकटिताभिक्यः ॥२७॥तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्ताग्रः ।वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमायातः ॥२८॥कस्त्वं कस्य कुतो वा दर्शनमपि न स्मरामि किं कथनैः ।अहह कदा कुत्र त्वं वद कस्य किमर्पितं केन ॥२९॥पश्यत कष्ठमनिष्टः कलिकालः कीदृशोऽयमायातः ।मत्तोऽर्थमेष वाञ्छति लोको जानाति वा सर्वम् ॥३०॥हरगुप्तकुलेऽस्माकं निःक्षेपग्रहणमप्यसंभाव्यम् ।किं पुनरपह्नवोद्गतघोरमहापातकस्पर्शः ॥३१॥तदपि सतताभिशंसी प्रत्याख्येयो जनः कथं महताम् ।कथय दिनं तद्दिवसे लिखितं सर्वं स्वयं पश्य ॥३२॥वृद्धोऽहं न्यस्तभरः पुत्रे सर्वं ममास्ति लिखितं हि ।इति तेन विनष्टधृतिः स विसृष्टस्तत्सुतान्तिकं प्राप्तः ॥३३॥तातो जानाति सुतो जानाति पितैव लिखति सकलं यत् ।इति तस्य भवति सुचिरं गतागतं कन्दुकस्येव ॥३४॥राजकुलद्वारगते तस्मिन्प्राप्तप्रवासदत्तार्थे ।सहते नरप्तिकोपं त्यजति किराटो न रूपकस्यांशम् ॥३५॥परिपीडितः स राज्ञा विविधैरपि यातनौशस्त्रः ।मम हस्ते निःक्षिप्तं किंचिन्नास्तीति वक्त्येव ॥३६॥एवं स्वभावलुब्धास्व भवन्ति धनलवणवारिबहुतृष्णाः ।तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥३७॥देवं धनाधिनाथं वैश्रवणं सकलसंपदां निलयम् ।शुक्रः प्रोवाच पुरा वित्तार्थी बालमित्त्रमभ्येत्य ॥३८॥पूर्णः सखे तवायं विभवो विजितामरासुरैश्वर्यः ।हर्षं विदधाति परं सुहृदां शोकं च शत्रूणाम् ॥३९॥त्वयि सुहृदि वित्तनाथे निःस्वोऽहं बहुकुटुम्बसंभारः ।समदुःखसुखं मित्त्रं स्वाधीनतयोदितं प्रशंसन्ति ॥४०॥यशसि विहितादराणामर्थिभिरुपजीव्यमानविभवानाम् ।अभिजातवंशजानां सुहृदुपभोग्याः श्रियो महताम् ॥४१॥उपनतमतिपुण्यचयैः संपूर्णं रक्षितं च यत्नेन ।संपदि विपदि त्राणं भवति निधानं च मित्त्रं च ॥४२॥इत्युक्तः सप्रँयं दैत्याचार्येण निर्जने धनदः ।तमुवाच विचिन्त्य चिरं संरुद्धः स्नेहलोभाभ्याम् ॥४३॥जानानमि बालमित्त्रं त्वामहमत्यन्तसंभृतस्नेहम् ।किं तु न जीवितजीवं द्रविणलवं त्यक्तुमीशोऽस्मि ॥४४॥स्नेहार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्त्राणि ।दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥४५॥अतिसाहसमतिदुष्करम् अत्याश्चर्यं च दानमर्थानाम् ।योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥४६॥इत्याशापरिहारैः प्रत्याख्यातो धनाधिनाथेन ।भग्नमुखो लुलितमतिर्लज्जावक्त्रो ययौ शुक्रः ॥४७॥स विचिन्त्य गृहे सुचिरं सचिवैः सह मायया महायोगी ।हर्तुं द्रविणमशेषं विवेश हृदयं धनेशस्य ॥४८॥शुक्राविष्टशरीरो वैश्रवणः सकलमद्बुतत्यागः ।तत्कृतसंकेतेभ्यः प्रददौ वित्तं द्विजातिभ्यः ॥४९॥कौबेरं धनमखिलं हृत्वा यातेऽथ दानवाचार्ये ।सुचिरं धनाधिनाथः शुशोच विज्ञाय तां मायाम् ॥५०॥हस्तन्यस्तललाटः सह शङ्खमुकुन्दपद्माद्यैः ।संचिन्त्य शुक्रविकृतिं स जगादोष्णं विनिःश्वस्य ॥५१॥सुहृदा मर्मज्ञेन व्याजान्मायाविनातिलुब्धेन ।धूर्तेन वञ्चितोऽहं दैत्याश्रयदुर्जयेन शुक्रेण ॥५२॥अधुना द्रव्यविहीनः क्षणेन तृणलाघवं प्राप्तः ।कथयामि कस्य दुःखं करोमि किं वा क्व गच्छामि ॥५३॥धनरहितं त्यजति जनो जनरहितं परिभवाः समायान्ति ।परिभूतस्य शरीरे व्यसनविकारो महाभारह् ॥५४॥दयितेषु शरीरवतां बत धर्मलतालवालेषु ।द्रविणेषु जीवितेषु च सर्वं याति प्रयातेषु ॥५५॥विद्वान्सुभगो मानी विश्रुतकर्मा कुलोन्नतः शूरः ।वित्तेन भवति सर्वो वित्तहीनस्तु सद्गुणोऽप्यगुणः ॥५६॥इति दुःसहधनविरहक्लेशानलशोषिताशयो धनपः ।सुचिरं विमृष्य सचिवैर्देवं शर्वं ययौ शरणम् ॥५७॥प्राक्प्रतिपन्नसखोऽसौ विश्वशरण्यो महेश्वरस्तेन ।विज्ञप्तो निजव्र्त्तं दूतं विससर्ज शुक्राय ॥५८॥दूताहूतं सहसा प्राप्तं शुक्रं धनप्रभाशुक्रम् ।अञ्जलिविरचितमुकुटं प्रोवाच पुरःस्थितं पुरजित् ॥५९॥मित्त्रमयं द्रविणपतिर्भवता बत वञ्चितः कृतज्ञेन ।मित्त्रद्रोहे प्रसरति न हि नाम जनः कृतघ्नोऽपि ॥६०॥अगणितयशसा त्यक्तस्थितिना क्रियतेऽथ याकृतज्ञेन ।स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥६१॥एतत्किं श्रुतसदृशं त्वद्व्रतयोग्यं कुलानुरूपं वा ।कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म ॥६२॥किमयं सुनयाभ्यासः प्रशमो वा गुरुजनोपदेशो वाऌ ।मतिविभवः सहजो वा वञ्चकतां येन यातोऽसि ॥६३॥कस्य न दयितं वित्तं चित्तं ह्रियते न कस्य वित्तेन ।किं तु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ॥६४॥मा मा मलिनय विमलं भृगुकुलममलं मलेन लोभेन ।लोभजलदो हि शत्रुर्विशदयशोराजहंसानाम् ॥६५॥त्यक्त्वा कीर्तिमनन्तामनिलाकुलतृणलवोपमानर्थान् ।गृह्णाति यः स मध्ये धूर्तानां कीदृशो धूर्तः ॥६६॥उत्सृज्य साधुवृत्तं कुतिलाधिया वञ्चितः परो येन ।आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ॥६७॥नियता दूषितयशसां बत किसलयकोमला प्रकृत्यैव ।अपवादविषतरूत्थैरामोदैर्मूर्छिता लक्ष्मीः ॥६८॥न हि नाम सज्जनानां शुद्धयशःस्फटिककदर्पणो विमलः ।परिभवदुःखितजनतानिःश्वासैर्मलिनतामेति ॥६९॥असमञ्जसमतिमलिनं मोहद्व्यक्तिं समागतं कर्म ।तस्य विशुद्धिः क्रियतां परवित्तसमर्पणेनैव ॥७०॥अपवादधूलिधूसरममलयशो मृज्यतां स्वहस्तेन ।अस्मद्वचनं क्रियतां परधनमुत्सृज्यतामेतत् ॥७१॥इत्युक्तः सानुनयं त्रिभुवनगुरूणापि देवदेवेन ।परधननिबद्धतृष्णः प्रोवाच कृताञ्जलिः शुक्रः ॥७२॥भगवन्भवतः शासनममरेन्द्रकिरीटकोटिविश्रान्तम् ।लङ्घयति को नु मोहाद्दौर्गत्यं सत्त्वहारि यदि न स्यात् ॥७३॥यस्य क्षीणस्य गृहे भृत्या दाराः सुताश्च सीदन्ति ।कार्याकार्यविचाऋओ द्रविणादानेषु कस्तस्य ॥७४॥मित्रमयं धननाथो विपदि त्राणं विचिन्तितः सततम् ।वृद्धिं यातः सुमहानाशाबन्धश्च मे हृदये ॥७५॥अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मयाऌविहतलज्जः ।चिच्छेदैष ममाशां सहसा प्रतिषेधशस्त्रेण ॥७६॥तेन प्रहतमशस्त्रं दाहोऽनग्निश्च निर्विषं मरणम् ।विहितं शठेन मोहादाशाभङ्घः कृतो येन ॥७७॥तस्मान्ममैष शत्रुः सुकृतसम शात्रुवञ्चनापापम् ।रिक्तस्य निरपवादो व्याजेनोपार्जितोऽप्यर्थः ॥७८॥अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् ।वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥७९॥इति संभाषिणमसकृद्दैत्यगुरुं प्रार्थितं पुनर्बहुशाः ।कवलीचकार सहसा प्रतिषेधरुषा विरूपाक्षः ॥८०॥जठरान्तरे पुरारेः प्रलयानलविपुलभीषणाबोगे ।प्रक्वाथ्यमानकायः शुक्रश्चुक्रोश साक्रोशः ॥८१॥त्यज धनमिति विषमदृशा पुनः पुनः प्रेरितोऽवदच्छुक्रः ।निधनं ममास्तु भगवन्धनदधनं न त्यजामि किंचिदपि ॥८२॥अथ धारणाप्रवृद्धज्वलनज्वालासहस्रविकराले ।शुक्रश्चुक्रोश भृशं घोरगभीरे हरोदरे पतितः ॥८३॥तमुवाच देवेदेवस्त्यज्य दुर्ग्रहदग्ध परवित्तम् ।अस्मिन्नुदरमहोदधिवडवाग्नौ मा गमः प्रलयम् ॥८४॥सोऽवददतिशयतापस्फुटितास्थिवसाप्रवाहबहलाग्नौ ।परमिह मरणं श्रेयो द्रविणकणं न त्यजामि सोच्छ्वासः ॥८५॥पुनरपि घोरतरोद्गतकालानलधारणानलज्वलितः ।शुक्रश्चक्रे देव्याः स्तोत्रं क्षणलेशशेषायुः ॥८६॥स्तोत्रपदाराधितया गौर्या प्रणयप्रसादिते रुद्रे ।तद्वचसा लब्धधृतिः शुक्रद्वारेण निर्ययौ शुक्रः ॥८७॥एवं स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते ।न तु संत्यजन्ति वित्तं कौटिल्यमिवाधमः सहजम् ॥८८॥तस्माल्लोभसमुत्था कपटकला कुटिलवर्तिनी माया ।लुब्धहृदयेषु निवसति नालुब्धो वञ्चनं कुरुते ॥८९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP