संस्कृत सूची|संस्कृत साहित्य|कालविलास| सर्ग ५ कालविलास सर्ग १ सर्ग २ सर्ग ३ सर्ग ४ सर्ग ५ सर्ग ६ सर्ग ७ सर्ग ८ सर्ग ९ सर्ग १० कालविलास - सर्ग ५ कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है । Tags : kalavilaspoemकालविलासकाव्यसंस्कृत सर्ग ५ Translation - भाषांतर मोहो नाम जनानां सर्वहरो हरति बुद्धिमेवादौ ।गूढतरः स च निवसति कायस्थानां मुखे च लेखे च ॥१॥रौद्रकला इव पूर्णा निष्पन्ना सस्यसंपत्तिः ।ग्रस्ता क्षणेन दृष्टा निःशेषा दिविरराहुकलयेव ॥२॥ज्ञाताः संसारकला योगिभिरपयातरागसंमोहैः ।न ज्ञाता दिविरकला केनापि बहुप्रयत्नेन ॥३॥कूटकलाशतशिबिरैः जनधनविवरैः क्षयक्षपातिमिरैः ।दिविरैरेव समस्ता ग्रस्ता जनता न कालेन ॥४॥एते हि कालपुरुषाः पृथुतरदण्डप्रपातहतलोकाः ।गणनागणनपिशाचाः चरन्ति भूर्जध्वजा लोके ॥५॥कस्तेषां विश्वासं यममहिषविषाणकोटिकुटिलानाम् ।व्रजति न यस्य विषक्तः कण्ठे पाशः कृतान्तेन ॥६॥कलमाग्रनिर्गतमषी बिन्दुव्याजेन साञ्जनाश्रुकणैः ।कायस्थखन्यमाना रोदिति खिन्नेव राज्यश्रीः ॥७॥अङ्कन्यासैर्विषमैः मायावनितालकावलीकुटिलैः ।को नाम जगति रचितैः कायस्थैर्मोहितो न जनः ॥८॥मायाप्रपञ्चसंचयवञ्चितविश्वैर्विनाशितः सततम् ।विषयग्रामग्रासैः कायस्थैरिन्द्रियैर्लोकः ॥९॥कुटिला लिपिविन्यासा दृश्यन्ते कालपाशसंकाशाः ।कायस्थभूर्जशिखरे मण्डललीना इव व्यालाः ॥१०॥एते हि चित्रगुप्ताः चित्रधियो गुप्तहारिणो दिविराः ।रेखामात्रविनाशात् सहितं कुर्वन्ति ये रहितम् ॥११॥लोके कलाः प्रसिद्धाः स्वल्पतराः संचरन्ति दिविराणाम् ।गूढकलाः किल तेषां जानाति कलिः कृतान्तो वा ॥१२॥वक्रलिपिन्यासकला सकलाङ्कनिमीलनकला ।सततप्रवेशसंग्रहलोपकला व्ययविवर्धनकला च ॥१३॥ग्राह्यपरिच्छेदकला देयधनादानकारणकला च ।उत्कोचैर्हरणकला पर्यन्तभुवं पलायनकला च ॥१४॥शेषस्थविवेककला चलराशिसमग्रभक्षणकला च ।उत्पन्नगोपनकला नष्टविशीर्णप्रदर्शनकला च ॥१५॥क्रयमाणैर्भरणकला योजनचर्यादिभिः क्षयकला च ।एकत्र पञ्चदश्यां लुण्ठिचिकित्सासमासनकला च ॥१६॥निःशेषभूर्जदाहाद् आगमनाशश्च पर्यन्ते ।येन विना व्यवहारी भूर्याग्रहणे निरालोकः ॥१७॥सकलङ्कस्य क्षयिणो नवनवरूपस्य वृद्धिभाजश्च ।दिविरस्य कलाः कुटिलाः षोडश दोषाकरस्यैताः ॥१८॥कूटस्थाः कायस्थाःसर्वनकारेण सिद्धमन्त्रेण ।गुरव इव विदितमायावृत्तिच्छेदं क्षणेन कुर्वन्ति ॥१९॥हारितधनपशुवसनः चौर्यभयाद्बन्धुभिः परित्यक्तः ।बभ्राम महीमखिलां तीव्रव्यसनः पुरा कितवः ॥२०॥स कदाचिदेत्य पुण्यैः उज्जयिनीं तत्र मज्जनं कृत्वा ।विचरन्विजने पुरहरमन्दिरमवलोकयामास ॥२१॥शून्यायतने गत्वा वरदं देवं सदा महाकालम् ।उपलेपनकुसुमफलैः निर्व्यापारः सिषेवे सः ॥२२॥स्तोत्रजपगीतदीपैः विपुलध्यानैर् निशासु निर्निद्रः ।तस्थौ तत्र स सुचिरं दुःसहदौर्गत्यनाशाय ॥२३॥तस्य कदाचिद्भक्त्या शुभशतकृतया प्रसादितः सहसा ।भवभयहारी भगवान् भूतपतिः संबभाषे तम् ॥२४॥पुत्र गृहाणेत्युक्ते देवेन कपालमालिकाशिखरे ।एकं कपालमसकृत् चक्रे संज्ञां पुरारातेः ॥२५॥अर्धोक्ते स्थगितवरः संपीडनसंज्ञया कपालस्य ।तूष्णीं चकार रुद्रो दारिद्र्यात्कितवपुण्यानाम् ॥२६॥स्नातुं याते तस्मिन् विजने देवः कपालमवदत्तत् ।दन्तांशुपटलपालीं गङ्गामिव दर्शयन्नग्रे ॥२७॥अस्य कितवस्य साधोः भक्तस्य चिरस्थितस्य वरदाने ।कस्मात्त्वया ममैषा विहिता संपीडनैः संज्ञा ॥२८॥इति भगवता कपालं पृष्टं प्रोवाच सस्मितं शनकैः ।विषमनयनोष्मविगलन् मौलीन्दुसुधारसैर्जीवत् ॥२९॥शृणु भगवन्येन मया विज्ञप्तोऽसि स्वभावसरलात्मन् ।सुलभोऽपि बोध्यते वा निष्कारणमीश्वरः केन ॥३०॥एष कितवोऽतिदुःखी दारिद्र्याद्विरतसकलनिजकृत्यः ।प्रासादेऽस्मिन्रचयति लेपनबलिकुसुमधूपार्घम् ॥३१॥दुःखी भवति तपस्वी धनरहितः सादरो भवति धर्मे ।भ्रष्टाधिकारविभवः सर्वप्रणतः प्रियंवदो भवति ॥३२॥अर्चयति देवविप्रान् जपति चिरं वेत्ति निर्धनो मित्रम् ।कठिनोऽपि लोहपिण्डः तप्तः कर्मण्यतां एति ॥३३॥व्यसनपरितप्तहृदयः तिष्ठति सर्वः सदाचारे ।विभवमदमोहितानां कर्मस्मरणे कथा कैव ॥३४॥ऐश्वर्यार्थी भगवन्न्र्थी आशापाशेन लम्बमानो ऽसौ ।कुरुते परां सपर्यां प्राप्तार्थो दृश्यते न पुनः ॥३५॥स्वार्थार्थिनः प्रयत्ता प्राप्तार्थाः सेवकाः सदा विफलाः ।न हि नाम जगति कश्चित् कृतकार्यः सेवको भवति ॥३६॥देव प्रासादेऽस्मिन् फलजलकुसुमादिभोगसामग्रीम् ।पूर्णे याते कितवे विजने नान्ये करिष्यन्ति ॥३७॥तस्मात्पुण्योपनतं कितवं संरक्ष सेवकं सततम् ।वरदानमस्य भगवन् निर्वासनमात्मपूजायाः ॥३८॥श्रुत्वैतद्वक्रतरं वचनं पृथुविस्मयस्मेरः ।तं पप्रच्छ पिनाकी कस्त्वं तत्त्वेन किं कर्म ॥३९॥इति पृष्टं पुनरूचे सपदि कपालं विचिन्त्य सद्भावम् ।मगधानामहमभवं कायस्थकुले स्वकर्मणो विमुखः ॥४०॥स्नानजपव्रतनिरतः तीर्थरतो विदितसर्वशास्त्रार्थः ।त्यक्त्वा भागीरथ्यां शरीरकं त्वत्पदं प्राप्तः ॥४१॥आकर्ण्यवं भगवान् ऊचे कायस्थ एव सत्यं त्वम् ।चित्रं कौटिल्यकलां न त्यजसि कपालशेषोऽपि ॥४२॥इत्युक्त्वा स्मितकिरणैः कुर्वन्नाशालताः कुसुमशुभ्राः ।स्नात्वागताय तस्मै कितवाय वरं ददौ वरदः ॥४३॥कृत्वा तत्कितवहितं पश्यत एवाशु तस्य शशिमौलिः ।निष्कासितवांस्तच्छिर उत्तमतममुण्डमालिकापङ्क्तेः ॥४४॥इत्येवं कुटिलकलां सहजां मलिनां जनक्षये निरताम् ।यमदंष्ट्रामिव मुञ्चति कायस्थो नास्थिशेषोऽपि ॥४५॥सुस्थः को नाम जनः सतताशुचिभावदूषितकलानाम् ।दोषकृतां शकृतामिव कायस्थानामवष्टम्भैः ॥४६॥असुररचितप्रयत्नाद् विज्ञाता दिविरवञ्चना येन ।संरक्षैता मतिमता रत्नवती वसुमती तेन ॥४७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP