संस्कृत सूची|संस्कृत साहित्य|कालविलास| सर्ग ४ कालविलास सर्ग १ सर्ग २ सर्ग ३ सर्ग ४ सर्ग ५ सर्ग ६ सर्ग ७ सर्ग ८ सर्ग ९ सर्ग १० कालविलास - सर्ग ४ कालविलास हास्य प्रहसन का एक अत्युत्तम ग्रंथ है । Tags : kalavilaspoemकालविलासकाव्यसंस्कृत सर्ग ४ Translation - भाषांतर तत्रापि वेशयोषाः कुटिलतराः कूटरागहृतलोकाः ।कपटचरितेन यासां वैश्रवणः श्रमणतामेति ॥१॥हारिण्यश्चटुलतरा बहुलतरङ्गाश्च निम्नगामिन्यः ।नद्य इव जलधिमध्ये वेश्याहृदये कलाश्चतुःषष्टिः ॥२॥वेशकला नृत्यकला गीतकला वक्रवीक्षणकला च ।कामपरिज्ञानकला ग्रहणकला मित्रवञ्चनकला च ॥३॥पानकला केलिकला सुरतकलालिङ्गनान्तरकला च ।चुम्बनकला परकला निर्लज्जावेगसंभ्रमकला च ॥४॥ईर्ष्याकलिकेलिकला रुदितकला मानसंक्षयकला च ।स्वेदभ्रमकम्पकला पुनरेकान्तप्रसाधनकला ॥५॥नेत्रनिमीलननिःसहनिस्पन्दकला मृतोपमकला च ।विरहासहरागकला कोपप्रतिषेधनिश्चयकला च ॥६॥निजजननीकलहकला सद्गृहगमनोत्सवेक्षणकला च ।हरणकला जातिकला केलिकला चौरपार्थिवकला च ॥७॥गौरवशैथिल्यकला निष्कारणदोषभाषणकला च ।शूलकलाभ्यङ्गकला निद्राक्षिरजस्वलाम्बरकला च ॥८॥रूक्षकला तीक्ष्णकला गलहस्तगृहार्गलार्पणकला च ।संत्यक्तकामुकाहृतिदर्शनयात्रास्तुतिकला च ॥९॥तीर्थोपवनसुरालयविहरणहेलाकला गृहकला च ।वश्यौषधमन्त्रकला वृक्षकला केशरञ्जनकला च ॥१०॥भिक्षुकतापसबहुविधपुण्यकला द्वीपदर्शनकला च ।खिन्ना कलात्रिषष्ट्या पर्यन्ते कुट्टनीकला वेश्या ॥११॥अज्ञातनामवर्णेषु आत्मापि ययार्प्यते धनांशेन ।तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥१२॥निखिलजनवञ्चनार्जित मलिनधनं रागदग्धह्र्दयानाम् ।खादति गुणगणभग्नो नग्नो हीनो ऽथवा कश्चित् ॥१३॥नीचस्तुरगारोहो हस्तिपकः खलतरो ऽथवा शिल्पी ।वञ्चितसकलजनानां तासामपि वल्लभो भवति ॥१४॥राजा विक्रमसिंहो बलवद्भिर्भूमिपैः पुरा विजितः ।मानी ययौ विदर्भान्गुणयशसा मन्त्रिणा सहितः ॥१५॥तत्र स वेश्याभवनं प्रविश्य भुवि विश्रुतां विलासवतीम् ।भेजे गणिकां बहुधनभोग्याम् अप्य् अल्पविभवो ऽपि ॥१६॥तं राजलक्षणोचितभाजनानुभुजं विलोक्यपृथुसत्त्वम् ।विविधमणिकनककोषं चक्रे सा तद्व्ययाधीनम् ॥१७॥सहजमनुरागमद्रुतम् औचित्यं वीक्ष्य भूपतिस् तस्याः ।विस्मयविवशः प्रेम्णा जगाद विजने महामात्म्यम् ॥१८॥चित्रमियं बहु वित्तं क्षपयति वेश्यापि मत्कृते तृणवत् ।प्रीतिपदवीविसृष्टो वेश्यानां धननिबन्धनो रागः ॥१९॥मिथ्या धनलवलोभाद् अनुरागं दर्शयन्ति बन्धक्यः ।तदपि धनं विसृजति या कस्तस्याः प्रेम्णि संदेहः ॥२०॥इति वचनं भूमिपतेः श्रुत्वा विहस्य सासूयः ।तमुवाच कस्य राजन् वेश्याचरिते ऽस्ति विश्वासः ॥२१॥एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः ।वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥२२॥प्रथमसमागमसुखदा मध्ये व्यसनप्रवासकारिण्यः ।पर्यन्ते दुःखफलाः पुंसामाशाश्च वेश्याश्च ॥२३॥अद्यापि हरिहरादिभिः अमरैरपि तत्त्वतो न विज्ञाताः ।भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥२४॥इति सचिववचो नृपतिः श्रुत्वा कृत्वा च संविदं तेन ।मिथ्यामृतमात्मानं चक्रे वेश्यापरीक्षायै ॥२५॥तस्मिन्कुणपशरीरे विन्यस्ते मन्त्रिणा चित्तावह्नौ ।सहसैव विलासवती वह्निभुवं भूषिता प्रययौ ॥२६॥तां प्रबलज्वलितोज्ज्वलवह्निज्वालानिपातसावेगाम् ।दोर्भ्यामालिङ्ग्य नृपो जीवामीत्यभिधान्मुदितः ॥२७॥तत्तस्याः प्रेम दृढं सत्यं च विचार्य संभृतस्नेहः ।राजा निनिन्द मन्त्रिणम् असकृद्वेश्यगुणाभिमुखः ॥२८॥अथ वेश्याधनसंचयमात्माधीनं महीपतिर् विपुलम् ।आदाय गजतुरंगमभटविकटामाददे सेनाम् ॥२९॥सम्भृतविपुलबलौघैः जित्वा वसुधाधिपान्स भूपालः ।निजमाससाद मण्डलम् इन्दुरिवानन्दकृत्पूर्णः ॥३०॥सा चान्तःपुरकान्तामूर्ध्नि कृत्वा भूभुजा विलासवती ।शुशुभे श्रीरिव चामरपवनाकुलितालका तन्वी ॥३१॥साथ कदाचिन्नरपतिमेकान्ते विरचिताञ्जलिः प्रणता ।ऊचे नाथ मया त्वं कल्पतरुः सेवितश्चिरं दास्या ॥३२॥यदि नाम कुत्रचिदहं याता ते हेतुतां विभो लक्ष्म्याः ।तन्मम सफलामाशामर्हसि कर्तुं प्रसादेन ॥३३॥पुण्यफलप्राप्यानां हृतपररजसां स्वभावविमलानाम् ।तीर्थानामिव महतां न हि नाम समागमो विफलः ॥३४॥अभवन्मम कोऽपि युवा दयितो धनजीविताधिकः प्रणयी ।बद्धः स विदर्भपुरे दैववशाच्चोररूपेण ॥३५॥तन्मुक्तये मया त्वं शक्ततरः सेवितो महीनाथः ।अधुना क्रियतामुचितं सत्त्वस्य कुलस्य शौर्यस्य ॥३६॥इति वञ्चनामवाप्तो विस्मित इव तद्वचो नृपः श्रुत्वा ।सुचिरं विलोक्य वसुधां सस्मारामात्यवचनं सः ॥३७॥अथ तां तथैव राजाश्वास्य विदर्भेषु भूभुजं जित्वा ।बन्धनमुक्तेनास्याश्चोरेण समागमं चक्रे ॥३८॥इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः ।तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥३९॥वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोऽन्यः ।रक्षादयितश्चान्यो वेश्यानां नर्मदयितोऽन्यः ॥४०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP