संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ५| भाग ६ अध्याय ५ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ अर्थशास्त्रम् अध्याय ०५ - भाग ६ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ६ Translation - भाषांतर ६.०१राज.व्यसनम् एवम् अमात्यः प्रतिकुर्वीत ॥६.०२प्राग् एव मरण.आबाध.भयाद् राज्ञः प्रिय.हित.उपग्रहेण मास.द्वि.मास.अन्तरं दर्शनं स्थापयेद् "देश.पीडा.अपहम् अमित्र.अपहम् आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्य् अपदेशेन ॥६.०३राज.व्यञ्जनम् अरूप.वेलायां प्रकृतीनां दर्शयेत्, मित्र.अमित्र.दूतानां च ॥६.०४तैश् च यथा.उचितां संभाषाम् अमात्य.मुखो गच्छेत् ॥६.०५दौवारिक.अन्तर्.वंशिक.मुखश् च यथा.उक्तं राज.प्रणिधिम् अनुवर्तयेत् ॥६.०६अपकारिषु च हेडं प्रसादं वा प्रकृति.कान्तं दर्शयेत्, प्रसादम् एव_उपकारिषु ॥६.०७आप्त.पुरुष.अधिष्ठितौ दुर्ग.प्रत्यन्तस्थौ वा कोश.दण्डाव् एकस्थौ कारयेत्, कुल्य.कुमार.मुख्यांश् च_अन्य.अपदेशेन ॥६.०८यश् च मुख्यः पक्षवान् दुर्ग.अटवीस्थो वा वैगुण्यं भजेत तम् उपग्राहयेत् ॥६.०९बह्व्.आबाधं वा यात्रां प्रेषयेत्, मित्र.कुलं वा ॥६.१०यस्माच् च सामन्ताद् आबाधं पश्येत् तम् उत्सव.विवाह.हस्ति.बन्धन.अश्व.पण्य.भूमि.प्रदान.अपदेशेन_अवग्राहयेत्, स्व.मित्रेण वा ॥६.११ततः संधिम् अदूष्यं कारयेत् ॥६.१२आटविक.अमित्रैर् वा वैरं ग्राहयेत् ॥६.१३तत्.कुलीनम् अपरुद्धं वा भूंय्.एक.देशेन_उपग्राहयेत् ॥६.१४कुल्य.कुमार.मुख्य.उपग्रहं कृत्वा वा कुमारम् अभिषिक्तम् एव दर्शयेत् ॥६.१५दाण्ड.कर्मिकवद् वा राज्य.कण्टकान् उद्धृत्य राज्यं कारयेत् ॥६.१६यदि वा कश्चिन् मुख्यः सामन्त.आदीनाम् अन्यतमः कोपं भजेत तं "एहि, राजानं त्वा करिष्यामि" इत्य् आवाहयित्वा घातयेत् ॥६.१७आपत्.प्रतीकारेण वा साधयेत् ॥६.१८युव.राजे वा क्रमेण राज्य.भारम् आरोप्य राज.व्यसनं ख्यापयेत् ॥६.१९पर.भूमौ राज.व्यसने मित्रेण_अमित्र.व्यञ्जनेन शत्रोः संधिम् अवस्थाप्य_अपगच्छेत् ॥६.२०सामन्त.आदीनाम् अन्यतमं वा_अस्य दुर्गे स्थापयित्वा_अपगच्छेत् ॥६.२१कुमारम् अभिषिच्य वा प्रतिव्यूहेत ॥६.२२परेण_अभियुक्तो वा यथा.उक्तम् आपत्.प्रतीकारं कुर्यात् ॥६.२३एवम् एक.ऐश्वर्यम् अमात्यः कारयेद् इति कौटिल्यः ॥६.२४"न_एवम्" इति भारद्वाजः ॥६.२५"प्रम्रियमाणे वा राजन्य् अमात्यः कुल्य.कुमार.मुख्यान् परस्परं मुख्येषु वा विक्रमयेत् ॥६.२६विक्रान्तं प्रकृति.कोपेन घातयेत् ॥६.२७कुल्य.कुमार.मुख्यान् उपांशु.दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ॥६.२८राज्य.कारणाद्द् हि पिता पुत्रान् पुत्राश् च पितरम् अभिद्रुह्यन्ति, किम् अङ्ग पुनर् अमात्य.प्रकृतिर् ह्य् एक.प्रग्रहो राज्यस्य ॥६.२९तत् स्वयम् उपस्थितं न_अवमन्येत ॥६.३०"स्वयम् आरूढा हि स्त्री त्यज्यमाना_अभिशपति" इति लोक.प्रवादः ॥६.३१कालश् च सकृद् अभ्येति यं नरं काल.काङ्क्षिणम् ।६.३१दुर्लभः स पुनस् तस्य कालः कर्म चिकीर्षतः ॥६.३२प्रकृति.कोपकम् अधर्मिष्ठम् अनैकान्तिकं च_एतद् इति कौटिल्यः ॥६.३३राज.पुत्रम् आत्म.संपन्नं राज्ये स्थापयेत् ॥६.३४संपन्न.अभावे_अव्यसनिनं कुमारं राज.कन्यां गर्भिणीं देवीं वा पुरस्.कृत्य महा.मात्रान् संनिपात्य ब्रूयात् "अयं वो निक्षेपः, पितरम् अस्य_अवेक्षध्वं सत्त्व.अभिजनम् आत्मनश् च, ध्वज.मात्रो_अयं भवन्त एव स्वामिनः, कथं वा क्रियताम्" इति ॥६.३५तथा ब्रुवाणं योग.पुरुषा ब्रूयुः "को_अन्यो भवत्.पुरोगाद् अस्माद् राज्ञश् चातुर्वर्ण्यम् अर्हति पालयितुम्" इति ॥६.३६"तथा" इत्य् अमात्यः कुमारं राज.कन्यां गर्भिणीं देवीं वा_अधिकुर्वीत, बन्धु.संबन्धिनां मित्र.अमित्र.दूतानां च दर्शयेत् ॥६.३७भक्त.वेतन.विशेषम् अमात्यानाम् आयुधीयानां च कारयेत्, "भूयश् च_अयं वृद्धः करिष्यति" इति ब्रूयात् ॥६.३८एवं दुर्ग.राष्ट्र.मुख्यान् आभाषेत, यथा.अर्हं च मित्र.अमित्र.पक्षम् ॥६.३९विनय.कर्मणि च कुमारस्य प्रयतेत ॥६.४०कन्यायां समान.जातीयाद् अपत्यम् उत्पाद्य वा_अभिषिञ्चेत् ॥६.४१मातुश् चित्त.क्षोभ.भयात् कुल्यम् अल्प.सत्त्वं छात्रं च लक्षण्यम् उपनिदध्यात् ॥६.४२ऋतौ च_एनां रक्षेत् ॥६.४३न च_आत्म.अर्थं कंचिद् उत्कृष्टम् उपभोगं कारयेत् ॥६.४४राज.अर्थं तु यान.वाहन.आभरण.वस्त्र.स्त्री.वेश्म.परिवापान् कारयेत् ॥६.४५यौवनस्थं च याचेत विश्रमं चित्त.कारणात् ।६.४५परित्यजेद् अतुष्यन्तं तुष्यन्तं च_अनुपालयेत् ॥६.४६निवेद्य पुत्र.रक्षा.अर्थं गूढ.सार.परिग्रहान् ।६.४६अरण्यं दीर्घ.सत्त्रं वा सेवेत_आरुच्यतां गतः ॥६.४७मुख्यैर् अवगृहीतं वा राजानं तत्.प्रिय.आश्रितः ।६.४७इतिहास.पुराणाभ्यां बोधयेद् अर्थ.शास्त्रवित् ॥६.४८सिद्ध.व्यञ्जन.रूपो वा योगम् आस्थाय पार्थिवम् ।६.४८लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकम् आचरेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP