संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ५| भाग ३ अध्याय ५ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ अर्थशास्त्रम् अध्याय ०५ - भाग ३ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ३ Translation - भाषांतर ३.०१दुर्ग.जन.पद.शक्त्या भृत्य.कर्म समुदय.पादेन स्थापयेत्, कार्य.साधन.सहेन वा भृत्य.लाभेन ॥३.०२शरीरम् अवेक्षेत, न धर्म.अर्थौ पीडयेत् ॥३.०३ऋत्विग्.आचार्य.मन्त्रि.पुरोहित.सेना.पति.युव.राज.राज.मातृ.राज.महिष्यो_अष्ट.चत्वारिंशत्.साहस्राः ॥३.०४एतावता भरणेन_अनास्पद्यत्वम् अकोपकं च_एषां भवति ॥३.०५दौवारिक.अन्तर्.वंशिक.प्रशास्तृ.समाहर्तृ.संनिधातारश् चतुर्.विंशति.साहस्राः ॥३.०६एतावता कर्मण्या भवन्ति ॥३.०७कुमार.कुमार.मातृ.नायक.पौर.व्यावहारिक.कार्मान्तिक.मन्त्रि.परिषद्.राष्ट्र.अन्त.पालाश् च द्वादश.साहस्राः ॥३.०८स्वामि.परिबन्ध.बल.सहाया ह्य् एतावता भवन्ति ॥३.०९श्रेणी.मुख्या हस्त्य्.अश्व.रथ.मुख्याः प्रदेष्टारश् च_अष्ट.साहस्राः ॥३.१०स्व.वर्ग.अनुकर्षिणो ह्य् एतावता भवन्ति ॥३.११पत्त्य्.अश्व.रथ.हस्त्य्.अध्यक्षा द्रव्य.हस्ति.वन.पालाश् च चतुः.साहस्राः ॥३.१२रथिक.अनीकस्थ.चिकित्सक.अश्व.दमक.वर्धकयो योनि.पोषकाश् च द्वि.साहस्राः ॥३.१३कार्तान्तिक.नैमित्तिक.मौहूर्तिक.पौराणिक.सूत.मागधाः पुरोहित.पुरुषाः सर्व.अध्यक्षाश् च साहस्राः ॥३.१४शिल्पवन्तः पादाताः संख्यायक.लेखक.आदि.वर्गश् च पञ्च.शताः ॥३.१५कुशीलवास् त्व् अर्ध.तृतीय.शताः, द्वि.गुण.वेतनाश् च_एषां तूर्य.कराः ॥३.१६कारु.शिल्पिनो विंशति.शतिकाः ॥३.१७चतुष्पद.द्विपद.परिचारक.पारिकर्मिक.औपस्थायिक.पालक.विष्टि.बन्धकाः षष्टि.वेतनाः, आर्य.युक्त.आरोहक.माणवक.शैल.खनकाः सर्व.उपस्थायिनश् च ॥३.१८आचार्या विद्यावन्तश् च पूजा.वेतनानि यथा.अर्हं लभेरन् पञ्च.शत.अवरं सहस्र.परम् ॥३.१९दश.पणिको योजने दूतो मध्यमः, दश.उत्तरे द्वि.गुण.वेतन आ.योजन.शताद् इति ॥३.२०समान.विद्येभ्यस् त्रि.गुण.वेतनो राजा राज.सूय.आदिषु क्रतुषु ॥३.२१राज्ञः सारथिः साहस्रः ॥३.२२कापटिक.उदास्थित.गृह.पतिक.वैदेहक.तापस.व्यञ्जनाः साहस्राः ॥३.२३ग्राम.भृतक.सत्त्रि.तीक्ष्ण.रसद.भिक्षुक्यः पञ्च.शताः ॥३.२४चार.संचारिणो_अर्ध.तृतीय.शताः, प्रयास.वृद्ध.वेतना वा ॥३.२५शत.वर्ग.सहस्र.वर्गाणाम् अध्यक्षा भक्त.वेतन.लाभम् आदेशं विक्षेपं च कुर्युः ॥३.२६अविक्षेपो राज.परिग्रह.दुर्ग.राष्ट्र.रक्ष.अवेक्षणेषु च ॥३.२७नित्य.मुख्याः स्युर् अनेक.मुख्याश् च ॥३.२८कर्मसु मृतानां पुत्र.दारा भक्त.वेतनं लभेरन् ॥३.२९बाल.वृद्ध.व्याधिताश् च_एषाम् अनुग्राह्याः ॥३.३०प्रेत.व्याधित.सूतिका.कृत्येषु च_एषाम् अर्थ.मान.कर्म कुर्यात् ॥३.३१अल्प.कोशः कुप्य.पशु.क्षेत्राणि दद्यात्, अल्पं च हिरण्यम् ॥३.३२शून्यं वा निवेशयितुम् अभ्युत्थितो हिरण्यम् एव दद्यात्, न ग्रामं ग्राम.संजात.व्यवहार.स्थापन.अर्थम् ॥३.३३एतेन भृतानाम् अभृतानां च विद्या.कर्मभ्यां भक्त.वेतन.विशेषं च कुर्यात् ॥३.३४षष्टि.वेतनस्य_आढकं कृत्वा हिरण्य.अनुरूपं भक्तं कुर्यात् ॥३.३५पत्त्य्.अश्व.रथ.द्विपाः सूर्य.उदये बहिः संधि.दिवस.वर्जं शिल्प.योग्याः कुर्युः ॥३.३६तेषु राजा नित्य.युक्तः स्यात्, अभीक्ष्णं च_एषां शिल्प.दर्शनं कुर्यात् ॥३.३७कृत.नर.इन्द्र.अङ्कं शस्त्र.आवरणम् आयुध.अगारं प्रवेशयेत् ॥३.३८अशस्त्राश् चरेयुः, अन्यत्र मुद्रा.अनुज्ञातात् ॥३.३९नष्टं.विनष्टं वा द्वि.गुणं दद्यात् ॥३.४०विध्वस्त.गणनां च कुर्यात् ॥३.४१सार्थिकानां शस्त्र.आवरणम् अन्त.पाला गृह्णीयुः, समुद्रम् अवचारयेयुर् वा ॥३.४२यात्राम् अभ्युत्थितो वा सेनाम् उद्योजयेत् ॥३.४३ततो वैदेहक.व्यञ्जनाः सर्व.पण्यान्य् आयुधीयेभ्यो यात्रा.काले द्वि.गुण.प्रत्यादेयानि दद्युः ॥३.४४एवं राज.पण्य.योग.विक्रयो वेतन.प्रत्यादानं च भवति ॥३.४५एवम् अवेक्षित.आय.व्ययः कोश.दण्ड.व्यसनं न_अवाप्नोति ॥३.४६इति भक्त.वेतन.विकल्पः ॥३.४७सत्त्रिणश् च_आयुधीयानां वेश्याः कारु.कुशीलवाः ।३.४७दण्ड.वृद्धाश् च जानीयुः शौच.अशौचम् अतन्द्रिताः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP