संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ५| भाग २ अध्याय ५ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ अर्थशास्त्रम् अध्याय ०५ - भाग २ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग २ Translation - भाषांतर २.०१कोशम् अकोशः प्रत्युत्पन्न.अर्थ.कृच्छ्रः संगृह्णीयात् ॥२.०२जन.पदं महान्तम् अल्प.प्रमाणं वा_अदेव.मातृकं प्रभूत.धान्यं धान्यस्य_अंशं तृतीयं चतुर्थं वा याचेत, यथा.सारं मध्यम् अवरं वा ॥२.०३दुर्ग.सेतु.कर्म.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्म.उपकारिणं प्रत्यन्तम् अल्प.प्रमाणं वा न याचेत ॥२.०४धान्य.पशु.हिरण्य.आदि निविशमानाय दद्यात् ॥२.०५चतुर्थम् अंशं धान्यानां बीज.भक्त.शुद्धं च हिरण्येन क्रीणीयात् ॥२.०६अरण्य.जातं श्रोत्रिय.स्वं च परिहरेत् ॥२.०७तद् अप्य् अनुग्रहेण क्रीणीयात् ॥२.०८तस्य_अकरणे वा समाहर्तृ.पुरुषा ग्रीष्मे कर्षकाणाम् उद्वापं कारयेयुः ॥२.०९प्रमाद.अवस्कन्नस्य_अत्ययं द्वि.गुणम् उदाहरन्तो बीज.काले बीज.लेख्यं कुर्युः ॥२.१०निष्पन्ने हरित.पक्व.आदानं वारयेयुः, अन्यत्र शाक.कट.भङ्ग.मुष्टिभ्यां देव.पितृ.पूजा.दान.अर्थं गव.अर्थं वा ॥२.११भिक्षुक.ग्राम.भृतक.अर्थं च राशि.मूलं परिहरेयुः ॥२.१२स्व.सस्य.अपहारिणः प्रतिपातो_अष्ट.गुणः ॥२.१३पर.सस्य.अपहारिणः पञ्चाशद्.गुणः सीता.अत्ययः, स्व.वर्गस्य, बाह्यस्य तु वधः ॥२.१४चतुर्थम् अंशं धान्यानां षष्ठं वन्यानां तूल.लाक्षा.क्षौम.वल्क.कार्पास.रौम.कौशेय.कौषध.गन्ध.पुष्प.फल.शाक.पण्यानां काष्ठ.वेणु.मांस.वल्लूराणां च गृह्णीयुः, दन्त.अजिनस्य_अर्धम् ॥२.१५तद् अनिसृष्टं विक्रीणानस्य पूर्वः साहस.दण्डः ॥२.१६इति कर्षकेषु प्रणयः ॥२.१७सुवर्ण.रजत.वज्र.मणि.मुक्ता.प्रवाल.अश्व.हस्ति.पण्याः पञ्चाशत्.कराः ॥२.१८सूत्र.वस्त्र.ताम्र.वृत्त.कंस.गन्ध.भैषज्य.शीधु.पण्याश् चत्वारिंशत्.कराः ॥२.१९धान्य.रस.लोह.पण्याः शकट.व्यवहारिणश् च त्रिंशत्.कराः ॥२.२०काच.व्यवहारिणो महा.कारवश् च विंशति.कराः ॥२.२१क्षुद्र.कारवो बन्धकी.पोषकाश् च दश.कराः ॥२.२२काष्ठ.वेणु.पाषाण.मृद्.भाण्ड.पक्व.अन्न.हरित.पण्याः पञ्च.कराः ॥२.२३कुशीलवा रूप.आजीवाश् च वेतन.अर्धं दद्युः ॥२.२४हिरण्य.करं कर्मण्यान् आहारयेयुः, न च_एषां कंचिद् अपराधं परिहरेयुः ॥२.२५ते ह्य् अपरिगृहीतम् अभिनीय विक्रीणीरन् ॥२.२६इति व्यवहारिषु प्रणयः ॥०५.२.२७कुक्कुट.सूकरम् अर्धं दद्यात्, क्षुद्र.पशवः षड्.भागम्, गो.महिष.अश्वतर.खर.उष्ट्राश् च दश.भागम् ॥२.२८बन्धकी.पोषका राज.प्रेष्याभिः परम.रूप.यौवनाभिः कोशं संहरेयुः ॥२.२९इति योनि.पोषकेषु प्रणयः ॥२.३०सकृद् एव न द्विः प्रयोज्यः ॥२.३१तस्य_अकरणे वा समाहर्ता कार्यम् अपदिश्य पौर.जानपदान् भिक्षेत ॥२.३२योग.पुरुषाश् च_अत्र पूर्वम् अतिमात्रं दद्युः ॥२.३३एतेन प्रदेशेन राजा पौर.जानपदान् भिक्षेत ॥२.३४कापटिकाश् च_एनान् अल्पं प्रयच्छतः कुत्सयेयुः ॥२.३५सारतो वा हिरण्यम् आढ्यान् याचेत, यथा.उपकारं वा, स्व.वशा वा यद् उपहरेयुः ॥२.३६स्थानच्.छत्र.वेष्टन.विभूषाश् च_एषां हिरण्येन प्रयच्छेत् ॥२.३७पाषण्ड.संघ.द्रव्यम् अश्रोत्रिय.उपभोग्यं देव.द्रव्यं वा कृत्य.कराः प्रेतस्य दग्ध.गृहस्य वा हस्ते न्यस्तम् इत्य् उपहरेयुः ॥२.३८देवता.अध्यक्षो दुर्ग.राष्ट्र.देवतानां यथा.स्वम् एकस्थं कोशं कुर्यात्, तथैव च_उपहरेत् ॥२.३९दैवत.चैत्यं सिद्ध.पुण्य.स्थानम् औपपादिकं वा रात्राव् उत्थाप्य यात्रा.समाजाभ्याम् आजीवेत् ॥२.४०चैत्य.उपवन.वृक्षेण वा देवता.अभिगमनम् अनार्तव.पुष्प.फल.युक्तेन ख्यापयेत् ॥२.४१मनुष्य.करं वा वृक्षे रक्षो.भयं प्ररूपयित्वा सिद्ध.व्यञ्जनाः पौर.जानपदानां हिरण्येन प्रतिकुर्युः ॥२.४२सुरुङ्गा.युक्ते वा कूपे नागम् अनियत.शिरस्कं हिरण्य.उपहारेण दर्शयेत् ॥२.४३नाग.प्रतिमायाम् अन्तश्.छन्नायां चैत्यच्.छिद्रे वल्मीकच्.छिद्रे वा सर्प.दर्शनम् आहारेण प्रतिबद्ध.संज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ॥२.४४अश्रद्दधानानाम् आचमन.प्रोक्षणेषु रसम् उपचार्य देवता.अभिशापं ब्रूयात्, अभित्यक्तं वा दंशयित्वा ॥२.४५योग.दर्शन.प्रतीकारेण वा कोश.अभिसंहरणं कुर्यात् ॥२.४६वैदेहक.व्यञ्जनो वा प्रभूत.पण्य.अन्तेवासी व्यवहरेत ॥२.४७स यदा पण्य.मूल्ये निक्षेप.प्रयोगैर् उपचितः स्यात् तदा_एनं रात्रौ मोषयेत् ॥२.४८एतेन रूप.दर्शकः सुवर्ण.कारश् च व्याख्यातौ ॥२.४९वैदेहक.व्यञ्जनो वा प्रख्यात.व्यवहारः प्रहवण.निमित्तं याचितकम् अवक्रीतकं वा रूप्य.सुवर्ण.भाण्डम् अनेकं गृह्णीयात् ॥२.५०समाजे वा सर्व.पण्य.संदोहेन प्रभूतं हिरण्य.सुवर्णम् ऋणं गृह्णीयात्, प्रतिभाण्ड.मूल्यं च ॥२.५१तद् उभयं रात्रौ मोषयेत् ॥२.५२साध्वी.व्यञ्जनाभिः स्त्रीभिर् दूष्यान् उन्मादयित्वा तासाम् एव वेश्मस्व् अभिगृह्य सर्व.स्वान्य् आहरेयुः ॥२.५३दूष्य.कुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ॥२.५४तेन दोषेण_इतरे पर्यादातव्याः ॥२.५५दूष्यम् अभित्यक्तो वा श्रद्धेय.अपदेशं पण्यं हिरण्य.निक्षेपम् ऋण.प्रयोगं दायं वा याचेत ॥२.५६दास.शब्देन वा दूष्यम् आलम्बेत, भार्याम् अस्य स्नुषां दुहितरं वा दासी.शब्देन भार्या.शब्देन वा ॥२.५७तं दूष्य.गृह.प्रतिद्वारि रात्राव् उपशयानम् अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात् "हतो_अयम् अर्थ.कामुकः" इति ॥२.५८तेन दोषेण_इतरे पर्यादातव्याः ॥२.५९सिद्ध.व्यञ्जनो वा दूष्यं जम्भक.विद्याभिः प्रलोभयित्वा ब्रूयात् "अक्षय.हिरण्यं राज.द्वारिकं स्त्री.हृदयम् अरि.व्याधि.करम् आयुष्यं पुत्रीयं वा कर्म जानामि" इति ॥२.६०प्रतिपन्नं चैत्य.स्थाने रात्रौ प्रभूत.सुरा.मांस.गन्धम् उपहारं कारयेत् ॥२.६१एक.रूपं च_अत्र हिरण्यं पूर्व.निखातं प्रेत.अङ्गं प्रेत.शिशुर् वा यत्र निहितः स्यात्, ततो हिरण्यम् अस्य दर्शयेद् "अत्यल्पम्" इति च ब्रूयात् ॥२.६२"प्रभूत.हिरण्य.हेतोः पुनर् उपहारः कर्तव्य इति स्वयम् एव_एतेन हिरण्येन श्वो.भूते प्रभूतम् औपहारिकं क्रीणीहि" इति ॥२.६३स तेन हिरण्येन_औपहारिक.क्रये गृह्येत ॥२.६४मातृ.व्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्य् अवकुपिता स्यात् ॥२.६५संसिद्धम् एव_अस्य रात्रि.यागे वन.यागे वन.क्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्य_अभित्यक्तम् अतिनयेयुः ॥२.६६दूष्यस्य वा भृतक.व्यञ्जनो वेतन.हिरण्ये कूट.रूपं प्रक्षिप्य प्ररूपयेत् ॥२.६७कर्म.कर.व्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेन.कूट.रूप.कारक.उपकरणम् उपनिदध्यात्, चिकित्सक.व्यञ्जनो वा गरम् अगद.अपदेशेन ॥२.६८प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितम् अभिषेक.भाण्डम् अमित्र.शासनं च कापटिक.मुखेन_आचक्षीत, कारणं च ब्रूयात् ॥२.६९एवं दूष्येष्व् अधार्मिकेषु च वर्तेत, न_इतरेषु ॥२.७०पक्वं पक्वम् इव_आरामात् फलं राज्याद् अवाप्नुयात् ।२.७०आत्मच्.छेद.भयाद् आमं वर्जयेत् कोप.कारकम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP