संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ५| भाग १ अध्याय ५ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ अर्थशास्त्रम् अध्याय ०५ - भाग १ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १ Translation - भाषांतर १.०१दुर्ग.राष्ट्रयोः कण्टक.शोधनम् उक्तम् ॥१.०२राज.राज्ययोर् वक्ष्यामः ॥१.०३राजानम् अवगृह्य_उपजीविनः शत्रु.साधारणा वा ये मुख्यास् तेषु गूढ.पुरुष.प्रणिधिः कृत्य.पक्ष.उपग्रहो वा सिद्धिः यथा.उक्तं पुरस्ताद्, उपजापो_अपसर्पो वा यथा पारग्रामिके वक्ष्यामः ॥१.०४राज्य.उपघातिनस् तु वल्लभाः संहता वा ये मुख्याः प्रकाशम् अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्म.रुचिर् उपांशु.दण्डं प्रयुञ्जीत ॥१.०५दूष्य.महा.मात्र.भ्रातरम् असत्.कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ॥१.०६तं राजा दूष्य.द्रव्य.उपभोग.अतिसर्गेण दूष्ये विक्रमयेत् ॥१.०७शस्त्रेण रसेन वा विक्रान्तं तत्र_एव घातयेद् "भ्रातृ.घातको_अयम्" इति ॥१.०८तेन पारशवः परिचारिका.पुत्रश् च व्याख्यातौ ॥१.०९दूष्यं.महामात्रं वा सत्त्रि.प्रोत्साहितो भ्राता दायं याचेत ॥१.१०तं दूष्य.गृह.प्रतिद्वारि रात्राव् उपशयानम् अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद् "हतो_अयं दाय.कामुकः" इति ॥१.११ततो हत.पक्षम् उपगृह्य_इतरं निगृह्णीयात् ॥१.१२दूष्य.समीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ॥१.१३तं रात्रौ इति समानम् ॥१.१४दूष्य.महा.मात्रयोर् वा यः पुत्रः पितुः पिता वा पुत्रस्य दारान् अधिचरति, भ्राता वा भ्रातुः, तयोः कापटिक.मुखः कलहः पूर्वेण व्याख्यातः ॥१.१५दूष्य.महा.मात्र.पुत्रम् आत्म.संभावितं वा सत्त्री "राज.पुत्रस् त्वम्, शत्रु.भयाद् इह न्यस्तो_असि" इत्य् उपजपेत् ॥१.१६प्रतिपन्नं राजा रहसि पूजयेत् "प्राप्त.यौवराज्य.कालं त्वां महा.मात्र.भयान् न_अभिषिञ्चामि" इति ॥१.१७तं सत्त्री महा.मात्र.वधे योजयेत् ॥१.१८विक्रान्तं तत्र_एव घातयेत् "पितृ.घातको_अयम्" इति ॥१.१९भिक्षुकी वा दूष्य.भार्यां सांवदनिकीभिर् औषधीभिः संवास्य रसेन_अतिसंदध्यात् ॥१.२०इत्य् आप्य.प्रयोगः ॥१.२१दूष्य.महा.मात्रम् अटवीं पर.ग्रामं वा हन्तुं कान्तार.व्यवहिते वा देशे राष्ट्र.पालम् अन्त.पालं वा स्थापयितुं नागर.स्थानं वा कुपितम् अवग्राहितुं सार्थ.अतिवाह्यं प्रत्यन्ते वा स-प्रत्यादेयम् आदातुं फल्गु.बलं तीक्ष्ण.युक्तं प्रेषयेत् ॥१.२२रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक.व्यञ्जना वा हन्युः "अभियोगे हतः" इति ॥१.२३यात्रा.विहार.गतो वा दूष्य.महा.मात्रान् दर्शनाय_आह्वयेत् ॥१.२४ते गूढ.शस्त्रैस् तीक्ष्णैः सह प्रविष्टा मध्यम.कक्ष्यायाम् आत्म.विचयम् अन्तः.प्रवेशन.अर्थं दद्युः ॥१.२५ततो दौवारिक.अभिगृहीतास् तीक्ष्णाः "दूष्य.प्रयुक्ताः स्म" इति ब्रूयुः ॥१.२६ते तद्.अभिविख्याप्य दूष्यान् हन्युः ॥१.२७तीक्ष्ण.स्थाने च_अन्ये वध्याः ॥१.२८बहिर्.विहार.गतो वा दूष्यान् आसन्न.आवासान् पूजयेत् ॥१.२९तेषां देवी.व्यञ्जना वा दुःस्त्री रात्राव् आवासेषु गृह्येत_इति समानं पूर्वेण ॥१.३०दूष्य.महा.मात्रं वा "सूदो भक्ष.कारो वा ते शोभनः" इति स्तवेन भक्ष्य.भोज्यं याचेत, बहिर् वा क्वचिद् अध्व.गतः पानीयम् ॥१.३१तद्.उभयं रसेन योजयित्वा प्रतिस्वादने ताव् एव_उपयोजयेत् ॥१.३२तद्.अभिविख्याप्य "रसदौ" इति घातयेत् ॥१.३३अभिचार.शीलं वा सिद्ध.व्यञ्जनो "गोधा.कूर्म.कर्कटक.कूटानां लक्षण्यानाम् अन्यतम.प्राशनेन मनोरथान् अवाप्स्यसि" इति ग्राहयेत् ॥१.३४प्रतिपन्नं कर्मणि रसेन लोह.मुसलैर् वा घातयेत् "कर्म.व्यापदा हतः" इति ॥१.३५चिकित्सक.व्यञ्जनो वा दौरात्मिकम् असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्य.आहार.योगेषु रसेन_अतिसंदध्यात् ॥१.३६सूद.आरालिक.व्यञ्जना वा प्रणिहिता दूष्यं रसेन_अतिसंदध्युः ॥१.३७इत्य् उपनिषत्.प्रतिषेधः ॥१.३८उभय.दूष्य.प्रतिषेधस् तु ॥१.३९यत्र दूष्यः प्रतिषेद्धव्यस् तत्र दूष्यम् एव फल्गु.बल.तीक्ष्ण.युक्तं प्रेषयेत्, गच्छ, अमुष्मिन् दुर्गे राष्ट्रे वा सैन्यम् उत्थापय हिरण्यं वा, वल्लभाद् वा हिरण्यम् आहारय, वल्लभ.कन्यां वा प्रसह्य_आनय, दुर्ग.सेतु.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्मणाम् अन्यतमद् वा कारय राष्ट्र.पाल्यम् अन्त.पाल्यं वा_ यश् च त्वा प्रतिषेधयेन् न वा ते साहाय्यं दद्यात् स बन्धव्यः स्यात्" इति ॥१.४०तथैव_इतरेषां प्रेषयेद् "अमुष्य_अविनयः प्रतिषेद्धव्यः" इति ॥१.४१तम् एतेषु कलह.स्थानेषु कर्म.प्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ॥१.४२तेन दोषेण_इतरे नियन्तव्याः ॥१.४३पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमा.क्षेत्र.खल.वेश्म.मर्यादासु द्रव्य.उपकरण.सस्य.वाहन.हिंसासु प्रेक्षा.कृत्य_उत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैर् उत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते ये_अमुना कलहायन्ते॒ इति ॥१.४४तेन दोषेण_इतरे नियन्तव्याः ॥१.४५येषां वा दूष्याणां जात.मूलाः कलहास् तेषां क्षेत्र.खल.वेश्मान्य् आदीपयित्वा बन्धु.संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ॥४.४६तेन दोषेण_इतरे नियन्तव्याः ॥१.४७दुर्ग.राष्ट्र.दूष्यान् वा सत्त्रिणः परस्परस्य_आवेशनिकान् कारयेयुः ॥१.४८तत्र रसदा रसं दद्युः ॥१.४९तेन दोषेण_इतरे नियन्तव्याः ॥१.५०भिक्षुकी वा दूष्य.राष्ट्र.मुख्यं "दूष्य.राष्ट्र.मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्य् उपजपेत् ॥१.५१प्रतिपन्नस्य_आभरणम् आदाय स्वामिने दर्शयेत् "असौ ते मुख्यो यौवन.उत्सिक्तो भार्यां स्नुषां दुहितरं वा_अभिमन्यते" इति ॥१.५२तयोः कलहो रात्रौ इति समानम् ॥१.५३दूष्य.दण्ड.उपनतेषु तु - युव.राजः सेना.पतिर् वा किंचिद् अपकृत्य_अपक्रान्तो विक्रमेत ॥१.५४ततो राजा दूष्य.दण्ड.उपनतान् एव प्रेषयेत् फल्गु.बल.तीक्ष्ण.युक्तान् इति समानाः सर्व एव योगाः ॥१.५५तेषां च पुत्रेष्व् अनुक्षियत्सु यो निर्विकारः स पितृ.दायं लभेत ॥१.५६एवम् अस्य पुत्र.पौत्रान् अनुवर्तते राज्यम् अपास्त.पुरुष.दोषम् ॥१.५७स्व.पक्षे पर.पक्षे वा तूष्णीं दण्डं प्रयोजयेत् ।१.५७आयत्यां च तदात्वे च क्षमावान् अविशङ्कितः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP