संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|हितोपदेशम्|संधिः| कथा ६ संधिः आरंभः कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ कथा १० कथा ११ संधिः - कथा ६ हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं। Tags : hitopadeshakathastoryकथासंस्कृतहितोपदेश कथा ६ Translation - भाषांतर अस्ति मालव-विषये पद्मगर्भाभिधानं सरः । तत्रैको वृढो बकः सामर्थ्य-हीन उद्विग्नम् इवात्मानं दर्शयित्वा स्थितः । स च केनचित् कुलीरणे दूराद् एव दृष्टः । पृष्टश् च-किम् इति भवान् अत्राहार-त्यागेन तिष्ठति ?बकेनोक्तम्-मत्स्या मम जीवन-हेतवः । ते कैवर्तैर् आगत्य व्यापादयितव्या इति वार्ता नगरोपांते मया श्रुता । अतो वर्तनाभावाद् एवास्मन् मरणम् उपस्थितम् इति ज्ञात्वाहारेप्य् अनादरः कृतः । ततो मत्स्यैर् आलोचितम्-इह समये तावद् उपकारक एवायं लक्ष्यते । तद् अयम् एव यथा-कर्तव्यं पृच्छ्यताम् । तथा चोक्तम्-उपकर्त्रारिणा संधिर् न मित्रेणापकारिणा । उपकारापकारो हि लक्ष्यं लक्षणम् एतयोः ॥१७॥मत्स्या ऊचुः-भो बक ! को त्र अस्माकं रक्षनोपायः ?बको ब्रूते-अस्ति रक्षणोपायो जलाशयांतराश्रयणम् । तत्राहम् एकैकशो युष्मान् नयामि ।मत्स्या आहुः-एवम् अस्तु । ततो सौ दुष्ट-बकस् तान् मत्स्यान् एकैकशो नीत्वा खादति । अनंतरं कुलीरस् तम् उवाच-भो बक ! माम् अपि तत्र नय । ततो बको प्य् अपूर्व-कुलीर-मांसार्थी सादरं तं नीत्वा स्थले धृतवान् । कुलीरो पि मस्त्य-कंटकाकीर्णं तं स्थलम् आलोक्याचिंतयत्-हा हतो स्मि मंद-भाग्यः । भवतु इदानीं समयोचितं व्यवहरिष्यामि । यतः-तावद् भयेन भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं दृष्ट्वा प्रहरत्वयम् अभीतिवत् ॥१८॥किं च- अभियुक्तो यदा पश्येन् न किञ्चिद् गतिम् आत्मनः । युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह ॥१९॥इत्य् आलोच्य स कुलीरकस् तस्य बकस्य ग्रीवां चिच्छेद । अथ स बकः पञ्चत्वं गतः । अतो हं ब्रवीमि-भक्षयित्वा बहून् मत्स्यान् इत्य् आदि ।ततश् चित्रवर्णो वदत्-शृणु तावन् मंत्रिन् ! मयैतद् आलोचितम् । अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावंति वस्तूनि कर्पूर-द्वीपस्योत्तमानि तावंत्य् अस्माकम् उपनेतव्यानि । तेनास्माभिर् महा-सुखेन विंध्याचले स्थातव्यम् । दूरदर्शी विहस्याह-देव !अनागतवतीं चिंतां कृत्वा यस् तु प्रहृष्यति । स तिरस्कारम् आप्नोति भग्न-भांडो द्विजो यथा ॥२०॥राजाह--कथम् एतत् ?मंत्री कथयति- N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP