TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

संधिः - कथा ५

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा ५
अस्ति गौतमस्य महर्षेस् तपोवने महातपा नाम मुनिः । तत्र तेन आश्रम-संनिधाने मूषिक-शावकः काक-मुखाद् भ्रष्टो दृष्टः । ततो दया-युक्तेन तेन मुनिआ नीवार-कणैः संवर्धितः । ततो बिडालस् तं मूषिकं खादितुम् उपधावति । तम् अवलोक्य मूषिकस् तस्य मुनेः क्रोडे प्रविवेश । ततो मुनिनोक्तम्-मूषिक ! त्वं मार्जारो भव । ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते । ततो मुनिनोक्तं-कुक्कुराद् बिभेषि, त्वम् एव कुक्कुरो भव । स च कुक्कुरो व्याघ्राद् बिभेति ततस् तेन मुनिना कुक्कुरो व्याघ्रः कृतः ।
अथ तं व्याघ्रं मुनिर् मूषिको यम् इति पश्यति । अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदंति-अनेन मुनिना मूषिको व्याघ्रतां नीतः । एतच् छ्रुत्वा स-व्यथो व्याघ्रो चिंतयत्-यावद् अनेन मुनिना स्थीयते, तावद् इदं मे स्वरूपाख्यानम् अकीर्तिकरं न पलायिष्यते इत्य् आलोच्य मूषिकस् तं मुनिं हंतुं गतः । ततो मुनिना तज् ज्ञात्वा-पुनर् मूषिको भव इत्य् उक्त्वा मूषिक एव कृतः । अतो हं ब्रवीमि-नीचः श्लाघ्य-पदं प्राप्येत्य् आदि ॥
अपरं च, देव ! सुकरम् इदम् इति न मंतव्यम् । शृणु-
भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् । अतिलोभाद् बकः पश्चान् मृतः कर्कटक-ग्रहात् ॥१६॥
चित्रवर्णः पृच्छति--कथम् एतत् ?
मंत्री कथयति-

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:42.3030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हल् ‍

  • पु. १ व्यंजन . २ अर्धाक्षर , व्यंजन दर्शविणारी अक्षराचे खालील पाय तोडावयाची ( ) खूण . ( क्रि० देणें ; करणें ). ३ असल्या खुणेचें अक्षर . [ पाणिनीच्या पहिल्या माहेश्वर सूत्रांवरून ] हलन्त - वि . ज्या शब्दाच्या शेवटी स्वर नसून व्यंजन असतें असा ( शब्द ). 
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.