संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|हितोपदेशम्|संधिः| कथा १ संधिः आरंभः कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ कथा १० कथा ११ संधिः - कथा १ हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं। Tags : hitopadeshakathastoryकथासंस्कृतहितोपदेश कथा १ Translation - भाषांतर अस्ति मगध-देशे फुल्लोत्पलाभिधानं सरः । तत्र चिरं संकट-विकट-नामानौ हंसौ निवसतः । तयोर् मित्रं कंबुग्रीव-नामा कूर्मश् च प्रतिवसति । अथैकदा धीवरैर् आगत्य तथोक्तं यत्-अत्रास्माभिर् अद्योषित्वा प्रातर् मत्स्य-कूर्मादयो व्यापादयितव्याः ।तद् आकर्ण्य कूर्मो हंसाव् आह-सुहृदौ ! श्रुतो यं धीवरालापः । अधुना किं मया कर्तव्यम्?हंसाव् आहतुः-ज्ञायतां तावत् । पुनस् तावत् प्रातर् यद् उचितं तत् कर्तव्यम् ।कूर्मो ब्रूते-मैवम् । यतो दृष्ट-व्यतिकरो हम् अत्र । यथा चोक्तम्-अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा । द्वाव् एव सुखम् एधेते यद्-भविष्यो विनश्यति ॥६॥ताव् ऊचतुः-कथम् एतत् ?कूर्मः कथयति- N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP