संधिः - कथा ४

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अस्त्य् उत्तरा-पथे गृध्रकूट-नाम्नि पर्वते महान् पिप्पल-वृक्षः । तत्रानेके बका निवसंति । तस्य वृक्षस्याधस्ताद् विवरे सर्पस् तिष्ठति । स च बकानां बालापत्यानि खादति । अथ शोकार्तानां विलापं श्रुत्वा केनचिद् वृढ-बकेनाभिहितं-भो एवं कुरुत, यूयं मत्स्यान् उपादाय नकुल-विवराद् आरभ्य सर्प-विवरं यावत्-पंक्ति-क्रमेण एकैकशो विकिरत । ततस् तद्-आहार-लुब्धैर् नकुलैर् आगत्य सर्पो द्रष्टव्यः । स्वभाव-द्वेषाद् व्यापदयितव्यश् च । तथानुष्ठिते सति तद् वृत्तम् ।
अथ नकुलैर् वृक्षोपरि बक-शावकानां रावः श्रुतः । पश्चात् तद्-वृक्षम् आरुह्य बक-शावकाः खादिताः । अत आवां ब्रूवः-उपायं चिंतयन् इत्य् आदि ।
आवाभ्यां नीयमानं त्वाम् अवलोक्य लोकैः किंचिद् वक्तव्यम् एव । यदि त्वम् उत्तरं दास्यसि, तदा त्वन्-मरणम् । तत् सर्वथैव स्थीयताम् ।
कूर्मो वदति-किम् अहम् अप्राज्ञः ? नाहम् उत्तरं दास्यामि । न किम् अपि मया वक्तव्यम् । तथानुष्ठिते तथा-विधं कूर्मम् आलोक्य सर्वे गो-रक्षकाः पश्चाद् धावंति, वदंति च-अहो ! महद् आश्चर्यम् ! पक्षिभ्यां कूर्मो नीयते ।
कश्चिद् वदति-यद्य् अयं कूर्मः पतति, तदात्रैव पक्त्वा खादितव्यः ।
कश्चिद् वदति-सरसस् तीरे दग्ध्वा खादितव्यो यम् ।
कश्चिद् वदति-गृहं नीत्वा भक्षणीयः । इति ।
तद्-वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृत-पूर्व-संस्कारः प्राह-युष्माभिर् भस्म भक्षितव्यम् इति वदंन् एव पतितस् तैर् व्यापादितश् च । अतो हं ब्रवीमि-सुहृदां हित-कामानाम् इत्य् आदि ।
अथ प्रणिधिर् बकस् तत्रागत्योवाच-देव ! प्राग् एव मया निगदितं दुर्ग-शोध हि प्रतिक्षणं कर्तव्यम् इति । तच् च युष्माभिर् न कृतं, तद्-अनवधानस्य फलम् इदम् अनुभूतम् । दुर्ग-दाहो मेघवर्णेन वायसेन गृध्र-प्रत्युक्तेन कृतः । राजा निःश्वस्याह-
प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु । स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ॥१२॥
अथ प्रणिधिर् उवाच-इतो दुर्गदाहं विधाय, यदा यतो मेघवर्णस् तदा चित्रवर्णेन प्रसादितेनोक्तम्-अयं मेघवर्णो त्र कर्पूर-द्वीप-राज्येभिषिच्यताम् । तथा चोक्तम्-
कृत-कृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् । फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥१३॥
चक्रवाको ब्रूते-देव ! श्रुतं यत् प्रणिधिः कथयति ?
राजा प्राह--ततस् ततः ?
प्रणिधिर् उवाच-ततः प्रधान-मंत्रिणा गृध्रेणाभिहितम्-देव ! नेदम् उचितम् । प्रसादांतरं किम् अपि क्रियताम् । यतः-
अविचारयतो युक्ति-कथनं तुष-खंडनम् । नीचेषूपकृतं राजन् बालुकास्व् इव मूत्रितम् ॥१४॥
महताम् आस्पदे नीचः कदापि न कर्तव्यः । तथा चोक्तम्-
नीचः श्लाघ्य-पदं प्राप्य स्वामिनं हंतुम् इच्छति । मूषिको व्याघ्रतां प्राप्य मुनिं हंतुं गतो यथा ॥१५॥
चित्रवर्णः पृच्छति--कथम् एतत् ?
मंत्री कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP