संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अष्टविंशः पटलः| भैरवीपूजा अष्टविंशः पटलः मंत्रसिद्धीलक्षणम् भैरवीलक्षणम् भैरवीचक्रम् भैरवीपूजा कुण्डलिनीस्तवः अष्टविंशः पटलः - भैरवीपूजा कन्दवासिनीस्त्रोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल भैरवीपूजा Translation - भाषांतर तस्या अङे स्थिरा नित्य्म देवतायां अहं प्रभो ।यश्च योगी सर्वसमः स सर्वात्मा नयेत् किल ॥६०॥अन्यथा सिद्धिहानिः स्याद् भावाभावविचारणात् ।बिना भावं न सिद्ध्येत्तु भावांना भावराशिग ॥६१॥कुलपुरश्चरणं कुर्यात् कुलाकुलीविमुक्तये ।योगीस्यादव्ययो धीरो विद्वान्मुक्तो हि जीवने ॥६२॥ब्राह्मणीं सुन्दरीं चैव संस्थाप्य क्रमतो यजेत् ।वामहस्ते महार्घ्यं तु दक्षिणे आसनदिकम् ॥६३॥दद्यात् पाद्यमासनानि तत्तन्नाम्ना च स्वागतम् ।तत्तदा अर्घपात्रस्थजलेन प्रोक्षयेच्च ताः ॥६४॥धेनुमुद्राम समाकृत्यं वं मन्त्रेणामृतीक्रियाम् ।अमृतीकरनान्ते च रुपभेदं समानयेत् ॥६५॥संज्ञाभिर्नामकरणं कृत्वा चासनमर्पयेत् ।श्रीभैरवी उवाचअथ कान्त प्रवक्ष्यामि षट्चक्रभेदनक्रियाम् ॥६६॥यत्कृत्वा अमरा लोके विचरन्ति चराचरे ।अकालमृत्युहरणं सर्वव्याधिविनाशनम् ॥६७॥योगेन जीववर्गाश्च भवन्त्यमररुपिणः ।षट्चक्रे च महापद्मे सर्वसत्तगुनान्विते ॥६८॥धर्माधर्मे मनोराज्ये सर्वविद्यानिधौ क्रतौ ।कलिकल्मषमुख्यानां सर्वपापापहारकम् ॥६९॥मनो दत्वा महाकाले जीवाः सर्वत्र गामिनः ।एतच्छुत्त्वा महावीरो विवेकी परमार्थवित् ॥७०॥पुनर्जिज्ञासयामास ज्ञानज्ञेयेन शङ्करः।आनन्दभैरव उवाचषट्चक्रभेदनकथां कथयस्व वरानने ॥७१॥हिताय सर्वजन्तूनां हिरण्यवर्णमण्डितम् ।प्रकाशयस्व वरदे योगानामुदयं वद ॥७२॥येन योगेन धीराणां हितार्थं वाञ्छितं मया ।कालक्रमेण सिद्धिः स्यात् कालजालविनाशयात् ॥७३॥आनन्दभैरवी उवाचआदौ कुर्यात् परानन्दं रससागरसम्भवम् ॥७४॥मान्द्यं मन्दगुणोपेतं श्रृणु तत्क्रममुत्तमम् ।स्तोत्रं कुर्यात् मूलपद्मे कुण्डलिन्याः पुरष्क्रियाम् ॥७५॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP