संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अष्टविंशः पटलः| भैरवीचक्रम् अष्टविंशः पटलः मंत्रसिद्धीलक्षणम् भैरवीलक्षणम् भैरवीचक्रम् भैरवीपूजा कुण्डलिनीस्तवः अष्टविंशः पटलः - भैरवीचक्रम् कन्दवासिनीस्त्रोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल भैरवीचक्रम् Translation - भाषांतर आनन्दभैरवी उवाचतत्र वीरो यजेत् कान्तां परकीयामथापि वा ।स्वीयामलङ्कार युक्तां सुन्दरीं चारुहासिनीम् ॥३२॥मदनानलतप्ताङीमासवानन्दं विग्रहाम् ।योगिनीं कौलिनीं योग्यां धर्मशीलां कुलप्रियाम् ॥३॥दीक्षितां लोलवदनां वदनाम्भोजमोहिनीम् ।नानादेशस्थितां कन्यां युवतीं परिपूजयेत् ॥३४॥जापिकां मन्दहास्यां च मन्दमन्द गतिप्रियाम् ।कृशाङीमतिसौन्दर्यामलङ्ककलेवराम् ॥३५॥कोटिकन्याप्रदानेन यत्फलं लभते नरः ।तत्फलं लभते सद्यः कामिनीपरिपूजनात् ॥३६॥ततः षोडशकन्याश्च योगिन्यो योगसिद्धये ।पूजयेत् परया भक्त्या वस्त्रालङ्कारभूषणैः ॥३७॥नानाविधैः पिष्टकान्नैः पक्वान्नैः प्राणसम्भवैः ।दधिअदुग्धघृतैश्चापि नवनीतैः सशर्करैः ॥३८॥उपलाखण्डमिश्रान्नैः नानारसफलान्वितैः ।चूडादिभिर्नारिकेलैः कपिलैर्नागङाकैः ॥३९॥नानागन्धफलैश्चैव नानागन्धसमन्वितैः ।मृगनभिचन्दनैश्च श्रीखण्डैर्नवपल्लवैः ॥४०॥पूजयेत्ताः प्रयत्नेन जलजैः स्थलजैस्तथा ।नानासुगन्धिपुष्पैश्च रक्तचन्दनकुङ्कुमैः ॥४१॥पूजयेत् शून्यगृहे च निर्जने विपिने तथा ।कुलदेवीं समानीय स्वागतं प्रवदेदनु ॥४२॥अर्घादकेन संशोध्यामृतीकरणमाचरेत् ।शक्तिञ्चाभिमुखीं नीत्वा वीरयोगी भवेद्ध्रुवम् ॥४३॥शक्तिं च षोडशी देवीं कुलचक्रप्रियां शुभाम् ।महाशक्ति श्रृणु प्राणवल्लभे श्रीकलावतीम् ॥४४॥ब्राह्मणी क्षत्रिया वैश्या शूद्रा वेश्या च सुन्दरी ।कुलभूषासमाक्रान्ता मानिनी नातिपिङला ॥४५॥रजकी नटकी कौला श्यामाङी स्थूलविग्रहा ।सङ्केगमना भार्या विदग्धा रञ्जकी तथा ॥४६॥खटकी कोलकन्या च कुलमार्गप्रवर्तिका ।सर्वाङसुन्दरी भव्या चारुनेत्रा हसन्मुखी ॥४७॥यद्यद्दीक्षारतास्तास्तु देया दीक्षा तदा प्रभो ।सूक्ष्मतन्त्रानुसारेण कथितं पूर्वसूचितम् ॥४८॥सर्वाङसुन्दरी शुद्धा शुद्धलोककुलोद्भवा ।युवती योगनिरता सा देवी डाकिनी मता ॥४९॥तामानीय महामन्त्रं दापयेष्टिसिद्धये ।ततस्ताः पूजनीयास्तु दीक्षाहीनास्तु नाचरेत् ॥५०॥श्रीकृष्णराममन्त्रं तु दापयेत्सत्त्वसिद्धये ।ताभ्य आदौ ततो मृत्युञ्जयमन्त्रं ततश्चरेत् ॥५१॥आनन्दभैरवीबीजं देवीं शक्तिं स्वबीजकम् ।अथवा सिद्धमन्त्रं तु श्रीविद्यायाः प्रदापयेत् ॥५२॥किं वा केवलामायां तु क्रोधारुणकराकृतिम् ।ज्वलन्तीं मूलपद्मे तु स्वयम्भूकुसुमाकराम् ॥५३॥एतद्भूतां महामायां तस्मै दत्त्वा जयी भवेत् ।आदौ वामकर्णपुटे अग्निवारं परे त्रयम् ॥५४॥अतः शिक्षां सदानन्ददीक्षान्ते कारयेद् बुधः ।दीक्षामूलं जपं सर्वं दीक्षामूलं गुरोः कृपा ॥५५॥दीक्षामाश्रित्य मायां या जपेत् सा खेचरी परा ।तस्याः पूजनमात्रेण प्रसन्नाहं न संशयः ॥५६॥जगतां जगदीशानां नारीरुपेण संस्थितिः ।अहं नारी न सन्देहः सुन्दरी कुत्सिता परा ॥५७॥सुन्दरीपालनार्थाय विनाशायाशु कुत्सिता ।साधकस्य भ्रान्तिरुपा संहिताः परिभावयेत् ॥५८॥या परा मोक्षदा विद्या सुन्दरी कामचारिणी ।भाविनी सा भवानी च तां विद्या परिपूजयेत् ॥५९॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP