संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अष्टविंशः पटलः| मंत्रसिद्धीलक्षणम् अष्टविंशः पटलः मंत्रसिद्धीलक्षणम् भैरवीलक्षणम् भैरवीचक्रम् भैरवीपूजा कुण्डलिनीस्तवः अष्टविंशः पटलः - मंत्रसिद्धीलक्षणम् कन्दवासिनीस्त्रोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मंत्रसिद्धीलक्षणम् Translation - भाषांतर आनन्दभैरव उवाचत्रैलोक्यपूजिते कान्ते इदानीं सिद्धिहेतवे ।मन्त्रसिद्धेर्लक्षणं तु योगिनामतिदुर्लभम् ॥१॥त्वन्मुखाम्भोरुहोल्लासनिःसृतं परमामृतम् ।पीत्वा चकार तन्त्राणि यत्तत्र नास्ति तद् वद ॥२॥आनन्दभैरवी उवाचनिश्चयं ते प्रवक्ष्यामि आनन्दभैरवेश्वर ।मन्त्रसिद्धेर्लक्षणं तु योगमार्गानुकूलतः ॥३॥नित्यं चेतसि सुस्थिरे स्थितपथक्लेशादिदोषक्षयंसर्वञ्चोत्तम मन्त्रसिद्धिकलितं संलक्षण शोभनम् ।मृत्युनां हरणं जगत्पतिमतिं सन्दर्शनञ्चोत्तमंयोगोऽक्लेशविवर्द्धनं समुदयाच्छेशप्रयोगेष्टभाक् ॥४॥नरेन्द्राणा काये प्रविशति हठात् क्षोभयति तं ।पुरे तेषामूद्र्ध्वात्क्रमणचरस्यावरपुरे ।अधःछिद्र पश्येत खचरवनितामेलनमलं श्रृणोति प्रध्माने जगाति जगतां कीर्तिरतुला ॥५॥इतीह सिद्ध्यादिसुलक्षणेन प्रयाति वैकुण्ठपुरीं मनोरमाम् ।हितं यदा पश्यति सत्त्वभूभृतांजगाद्विपक्षो निजपक्षामाश्रयेत् ॥६॥कीर्तिर्भूषणमादि भक्तिसफला भुक्तिक्रियासंयुतादेवनामातिभक्तियुक्तह्रदयं सर्वक्रियादक्षता ।त्रैलोक्य निजदास्यकर्मनिपुणं जित्वा चिरं जीवतिअष्टाङाभ्यसनं जगद्वशकरं चैतन्यतामुत्तमम् ॥७॥भोगेच्छरहितं जगज्जनचमत्कारानुकल्पान्वितंरोगानां दरणं विरक्तह्रदयं वैराग्यभक्तिप्रियम् ।त्यागं संसरणं तथा शमदयामायाब्धिजालस्य वा ऐश्वर्यं कवितारसं धनजनं लक्ष्मीगणं जापनम् ॥८॥उल्लासं ह्रदयान्बुजे सुतधनं सम्माननं सत्पथंवाच्छा सागररत्नपूर्णघटितं कान्तागणान्मोदितम् ।सङ्केतादिमनुप्रियं हरिहरब्रह्यैकभावान्वितंलोकानां गुरुतानिरन्तशिवानन्दैक मुद्राधरम् ॥९॥एतदुक्तं महादेवोत्तरतन्त्रनिरुपणम् ।मन्त्रसिद्धिलक्षणं तदुत्तमाधममध्यमम् ॥१०॥मुनयो देवमुख्याश्च नित्य्म जन्मनि जन्मनि ।दिवरुपं नरकुले धृत्वा त्रुप्यन्ति चानिशम् ॥११॥तवैवापि ममैवापि तर्पणं होमभोजनम् ।सर्वदा कुरुते साधु तन्मनो भवति ध्रुवम् ॥१२॥एतत्प्रणावायुपाने सूक्ष्मचन्द्रनियोजने ।कर्तव्यं प्रत्यहं कार्यं दिवारात्रौ मुहुर्मुहुः ॥१३॥अद्यैतत् कर्म संस्कुर्यात् योगसाधनमुत्तमम् ।यः श्रीमान् साधु सद्वक्या दुष्टमन्त्रोऽपि सिध्यति ॥१४॥एतद्दोषसमूहं तु वदामि तत्त्वतः श्रृणु ।छिन्नदिदोषदुष्टानां योगतत्त्वेन सिध्यति ॥१५॥देवेन्द्र पाशदुष्टा च भुवनेशी सुसिद्धिदा ।आराधिता महाविद्या वीर्यदर्पविवर्जिता ॥१६॥एकाक्षरी वीर्यहीना वाग्भवेन महोज्ज्वला ।तदवद्युत्तमा देवी तारसम्पुटहसिनी ॥१७॥आविद्धा कामराजेन विद्या कामेश्वरी परा ।शरेण पीडिता पूर्वें भुवनेश्याः प्रतिष्ठिता ॥१८॥या कुमारी महाविद्या यया सप्तारिबोधिका ।ताराचन्द्रस्वरुपाहं शिवशक्त्या च केवलम् ॥१९॥भैरवीणां हि विद्यानां दोषजालं श्रृणु प्रभो ।एतान्दोषान्प्रणश्यन्ति योगमार्गनुसारिणः ॥२०॥यतः कुण्डलिनी देवी योगेन चेतनामुखी ।अतो योगं सदा कुर्यात् सर्वमन्त्रप्रसिद्धये ॥२१॥भैरवी विधिशप्ता च दग्धा कीलिता तथा ।सैव संहाकारी मोहिता चानुमोदिता ॥२२॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP