संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तविंशः पटलः| दार्शनिकमतकथनम् सप्तविंशः पटलः प्राणायाम लक्षणम् प्रत्याहारः भावमाहात्म्यम् समाधिः मंत्रयोगार्थनिर्णयकथनम् हृदयाब्जकथनम् दार्शनिकमतकथनम् ध्यानलक्ष्यनिरूपणम् सप्तविंशः पटलः - दार्शनिकमतकथनम् षट्चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल दार्शनिकमतकथनम् Translation - भाषांतर बिन्दुस्थानं परं ज्ञेयं गणानां मतमाश्रृणु ।बौद्धा वदन्ति चात्मानमात्मज्ञानी न ईश्वरः ॥७१॥सर्वं नास्तीति चार्वाका नानकर्मिवर्जिताः ।वेदनिन्दापराः सर्वे बौद्धाः शून्याभ्वादिनः ॥७२॥मम ज्ञानाश्रिताः कान्ताश्चीनभूमिनिवासिनः ।आत्मानमपरिच्छिन्न विभाव्य भाव्यते मया ॥७३॥श्रीपदाब्जे बिन्दुयुग्मं नखेन्दुमण्डलं शुभम् ।शिवस्थानं प्रवदन्ति शैवाः शाक्ता महर्षयः ॥७४॥परमं पुरुषं नित्यं वैष्णवाः प्रीतिकारकाः ।हरिहरात्मकं रुपं संवदन्ति परे जनाः ॥७५॥देव्याः पदं नित्यरुपाश्चरनानन्दनिर्भराः ।वदन्ति मुनयो मुख्याः पुरुषं प्रकृतात्मकम् ॥७६॥पुंप्रकृत्याख्यभावेन मग्ना भान्ति महीतले ।इति ते कथितं नाथ मन्त्रयोगमनुत्तमम् ॥७७॥योगमार्गानुसारेण भावयेत् सुसमाहितः ।आदौ महापूरकेण मूले संयोजयेन्मनः ॥७८॥गुदमेढ्रान्तरे शक्तिं तामाकुञ्च्य प्रबुद्धयेत् ।लिङभेदक्रमेणैव प्रापयेद्बिन्दुचक्रकम् ॥७९॥शम्भुलाभां परां शक्तिमेकीभावैर्विचिन्तयेत् ।तत्रोत्थितामृतरसं द्रुतलाक्षारासोपमम् ॥८०॥पाययित्वा परां शक्तिं कृष्णाख्यां योगसिद्धिदाम् ।षट्चक्रभेदकस्तत्र सन्तर्प्यामृतधारया ॥८१॥आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः ।एवमभ्यस्यमानस्य अहन्यहनि मारुतम् ॥८२॥जरामरण्दुःखाद्यैर्मुच्यते भवबन्धनात् ।तन्त्रोक्तकथिता मन्त्राः सर्वे सिद्धयन्ति नान्यथा ॥८३॥स्वयं सिद्धो भवेत् क्षिप्रं योगे हि योगवल्लभा ।ये गुणाः सन्ति देवस्य पञ्चकृत्यविधायिनः ॥८४॥ते गुणाः साधकवरे भवन्त्येव न चान्यथा ।इति ते कथितं नाथ मन्त्रयोगमनुत्तमम् ॥८५॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP