संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तविंशः पटलः| प्राणायाम लक्षणम् सप्तविंशः पटलः प्राणायाम लक्षणम् प्रत्याहारः भावमाहात्म्यम् समाधिः मंत्रयोगार्थनिर्णयकथनम् हृदयाब्जकथनम् दार्शनिकमतकथनम् ध्यानलक्ष्यनिरूपणम् सप्तविंशः पटलः - प्राणायाम लक्षणम् षट्चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल प्राणायाम लक्षणम् Translation - भाषांतर आनन्दभैरव उवाचविविधानि त्वयोक्तानि योगशास्त्राणि भैरवि ।सर्वरुपत्वमेवास्या मम कान्ते प्रियंवदे ॥१॥योगाष्टाङुफलान्येव सर्वतत्त्वजलानि च ।इदानीं श्रोतुमिच्छामि शक्तितत्त्वक्रमेण तु ॥२॥पूर्वोक्तप्राणवायूनां हरणं वायुधारणम् ।प्रत्याहारं धारणख्यं ध्यानं समाधिमावद ॥३॥आनन्दभैरव उवाचश्रृणु लोकेश वक्ष्यामि प्राणायामफलाफलम् ।न गृहणीयाद्विस्तरं तु स्वल्पं नैव तु कुम्भयेत् ॥४॥शनैः शनैः प्रकर्तव्यं सङ्कातञ्च विवर्जयेत् ।पूरकाहलादसिद्धेश्च प्राणायामशतं शतम् ॥५॥वृद्धयै प्राणलक्षणं तु यस्मिन् दिने गतिः ।कृष्णपक्षे शुक्लपक्षे तिथित्रिंशत्फलोदयः ॥६॥शुक्लापक्षे इडायां तु कृष्णपक्षेऽन्यदेव हि ।कुर्यात् सर्वत्र गमनं सुषुम्ना बहुरुपिणी ॥७॥तिथित्रयं सितस्यापि प्रतिदादिसम्भवम् ।तद्द्वयं दक्षनासायां वायोर्ज्ञेयं महाप्रभो ॥८॥चतुर्थीं पञ्चमीं षष्ष्ठीं व्याप्योदयति देवता ।वामनासुटे ध्येया वायुधारणकर्मणि ॥९॥सप्तमीमष्टमीञ्चैव नवमीं व्याप्य तिष्ठति ।वामनासापुटे ध्येया साधकैः कुलपण्डितैः ॥१०॥दशम्येकादशीं चैव द्वादशीं व्याप्य तिष्ठति ।वायुर्दक्षिणनासाग्रे ध्येयो योगिभिरिश्वरः ॥११॥त्रयोदशीं व्याप्य वायुः पौर्णमासीं चतुर्दशीम् ।वामनापुटे ध्येयः संहारहरणाय च ॥१२॥कृष्णपक्षफलं वक्ष्ये यज्ज्ञात्वा अमरो भवेत् ।कालज्ञानीं भवेत् शीघ्रं नात्र कार्या विचारणा ॥१३॥प्रतिपद्द्वितीयामस्य तृतीयामपि तस्य च ।पिङुलायां समावाप्य वायर्निःसरते सदा ॥१४॥चतुर्थी पञ्चमीं षष्ठीं वामे व्याप्य प्रतिष्ठति ।सप्तमीमष्टमीं वायुर्नवमीं दक्षिणे ततः ॥१५॥दशम्येकादशीं वायुर्व्याप्य भ्रमति सर्वदा ।वामे च दक्षिणेऽन्यानि तिथ्यादीनि सदानिशम् ॥१६॥यदा एतद्व्यस्तभावं समाप्नोति नरोत्तमः ।तदैव मरणं रोगं बन्धुनाशं त्रिपक्षके ॥१७॥भिन्नजन्मतिथिं ज्ञात्वा काले विरोधयेत् ।आरभ्य जन्मनाशाय प्राणायाम समाचरेत् ॥१८॥यदा प्रत्यय भावेन देहं त्यक्त्वा प्रयच्छति ।तदा निरुध्य श्वसनं कालग्नौ धारयेदधः ॥१९॥यावत् स्वस्थानमायाति तावत्काल समभ्यसेत् ।यावन्न चलते देहं यावन्न चलते मनः ॥२०॥क्रमादभ्यसतः पुंसा देहे स्वेदोद्गमोऽधमः ।मध्यमं कम्पसंयुक्तो भूमित्यागः परस्य तु ॥२१॥षण्मासाद्भूतदर्शी स्यात् दूरश्रवणमेव च ।संवत्सराभ्यासयोगात् योगविद्याप्रकाशकृत ॥२२॥योगी जानाति सर्वाणि तन्त्राणि स्वक्रमाणि च ।यदि दर्शनदृष्टिः स्यात्तदा योगी न संशयः ॥२३॥प्रत्याहारफलं वक्ष्ये यत्कृत्वा खेचरो भवेत् ।ईश्वरे भक्तिमाप्नोति धर्मज्ञानी भवेन्नरः ॥२४॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP