संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तविंशः पटलः| भावमाहात्म्यम् सप्तविंशः पटलः प्राणायाम लक्षणम् प्रत्याहारः भावमाहात्म्यम् समाधिः मंत्रयोगार्थनिर्णयकथनम् हृदयाब्जकथनम् दार्शनिकमतकथनम् ध्यानलक्ष्यनिरूपणम् सप्तविंशः पटलः - भावमाहात्म्यम् षट्चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल भावमाहात्म्यम् Translation - भाषांतर अथ धारनवाक्ष्ये यत्कृत्वा धैर्यरुपभाक् ।त्रैलोक्यमुदरे कृत्वा पूर्णः तिष्ठति योगिराट ॥३१॥अङ्गुष्ठागुल्फजानूरुसीमनि लिङनाभिषु ।ह्रद्ग्रीवाकण्ठदेशेषु लम्बिकायां तथा नसि ॥३२॥भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ।धारणं प्राणमरुती धारणोति निगद्यते ॥३३॥सर्वनाडीग्रन्थिदेशे षट्चक्रे देवतालये ।ब्रह्ममार्गे धारणं धारणोति निगद्यते ॥३४॥धारणं मूलदेशे तु कुण्डलीं नासिकातटे ।प्राणवायोः प्रशमनं धारणोति निगद्यते ॥३५॥तत्र श्रीचरणाम्भोजमङुले चारुतेजसि ।भावेन स्थापयेच्चित्तं धारणशक्तिमाप्नुयात् ॥३६॥अथ ध्यानं प्रवक्ष्यामि यत् कृत्वा सर्वगो भवेत् ।ध्यानयोगाद् भवेन्मोक्षो मत्कुलागमनिर्गमः ॥३७॥समाहितेन मनसा चैतन्यान्तर्वर्तिना ।आत्मन्यभीष्टदेवाना योगध्यानमिहोच्यते ॥३८॥श्रीपदाम्भोरुहद्वन्द्वे नखकिञ्जकचित्रिते ।स्थापयित्वा मनः पद्मं ध्यायेदिष्टगणं महत् ॥३९॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP