संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तविंशः पटलः| मंत्रयोगार्थनिर्णयकथनम् सप्तविंशः पटलः प्राणायाम लक्षणम् प्रत्याहारः भावमाहात्म्यम् समाधिः मंत्रयोगार्थनिर्णयकथनम् हृदयाब्जकथनम् दार्शनिकमतकथनम् ध्यानलक्ष्यनिरूपणम् सप्तविंशः पटलः - मंत्रयोगार्थनिर्णयकथनम् षट्चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मंत्रयोगार्थनिर्णयकथनम् Translation - भाषांतर कामादिदोषनाशाय कथितं ज्ञानमुत्तमम् ।इदानीं श्रॄणु वक्ष्यामि मन्त्रयोगार्थनिर्णयम् ॥४७॥विश्वं शरीरमाक्लेशं पञ्चभूताश्रयं प्रभो ।चन्द्रसूर्याग्नितेजोभिः जीवब्रह्मैकरुपकम् ॥४८॥तिस्त्रः कोट्यस्तदर्धेन शरीरे नाड्यो मताः ।तेषु मुख्या दश प्रोक्तास्तासु तिस्त्रो व्यवस्थिताः ॥४९॥प्रधाना मेरुदण्डेऽत्र सोमसूर्याग्निरुपिणी ।नाईत्रयस्वरुपेण योगमाता प्रतिष्ठिता ॥५०॥इडा वामे स्थिता नाडी शुक्ला तु चन्द्रपिणी ।शक्तिरुपा च सा नाडी साक्षादमृतविग्रहा ॥५१॥दक्षिणे पिङालाख्या तु पुंरुपा सूर्यविग्रहा ।दाडिमीकुसुमप्रख्या विषाख्या परिकीर्तिता ॥५२॥मेरुमध्ये स्थिता या तु सुषुम्ना बहुरुपिणी ।विसर्गाद्बिन्दुपर्यन्तं व्याप्य तिष्ठति तत्त्वतः ॥५३॥मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके ।मध्ये स्वयंभूलिङं तं कोटिसूर्यसमप्रभम् ॥५४॥तदूर्ध्व कामबीजं तु कलाशान्तीन्दुनायकम् ।तदूर्ध्वे तु शिखाकारा कुण्डली ब्रह्मविग्रहा ॥५५॥तद्बाह्ये हेमवर्णाभं वसुवर्णचतुर्दलम् ।द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥५६॥तदूर्ध्वऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् ।वादिलान्तं तु षड्वर्णसहितं रसपत्रकम् ॥५७॥स्वाधिष्ठानाख्यममलं योगिनां ह्रदयङुमम् ।मूलमाधारषट्कानां मूलाधारं प्रकीर्तितम् ॥५८॥स्वशब्देन परं लिङं स्वाधिष्ठानं स्वलिङकम् ।तदूर्ध्वे नाभिदेशे तु मणिपुरं महाप्रभम् ॥५९॥मेघाभं विद्युताभं च बहुतेजोमय्म ततः ।मणिमदिभन्नतत्पंद्मं मणिपूरं शशिप्रभम् ॥६०॥कथितं सकलं नाथ ह्रदयाब्जं श्रृणु प्रिय ।दशभिश्च दलैर्युक्तं डादिफान्तक्षरान्वितम् ॥६१॥शिवेनाधिष्ठितं पद्मं विश्वालोकनकारकम् ।तदूर्ध्वेऽनाहतं पद्मं ह्रदिस्थं किरणाकुलम् ॥६२॥उद्यदादित्यसङ्काशं कादिठान्ताक्षरान्वितम् ।दलद्वादशसंयुक्तमीश्वराद्यसमन्वितम् ॥६३॥तन्मध्ये बाणलिङं तु सूर्यायुतसमप्रभम् ।शब्दब्रह्ममयं वक्ष्येऽनाहतस्तत्र दृश्यते ॥६४॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP