संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्विंशः पटलः| अष्टांगयोगनिरूपणम् चतुर्विंशः पटलः योगसाधननिरुपणम् शवसाधनानिरुपणम् शवसाधनाफलश्रुतिकथनम् शवसाधकस्य विधिनिषेध-कथनम् अष्टांगयोगनिरूपणम् चतुर्विंशः पटलः - अष्टांगयोगनिरूपणम् योगविद्यासाधनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल अष्टांगयोगनिरूपणम् Translation - भाषांतर अष्टाङधारणेनैव सिद्धो भवति नान्यथा ।अष्टाङलक्षणं वक्ष्ये साक्षात् सिद्धिकरं परम् ॥१३२॥जन्मकोटिसहस्त्राणाम फलेन कुरुते नरः ।यमेन लभ्यते ज्ञानं ज्ञानांत कुलपतिर्भवेत् ॥१३३॥यो योगेशः स कुलेशः शिशुभावस्थनिर्मलः ।नियमेन भवेत पूजा पूजया लभते शिवम् ॥१३४॥यत्र कल्याण सम्पूर्णा सम्पूर्णः शुचिच्यते ।आसनेन दीर्घजीवी रोगशोकविवर्जितः ॥१३५॥ग्रन्थिभेदनमात्रेण साधकः शीतलो भवेत् ।प्राणायामेन शुद्धः स्यात् प्राणवायुवशेन च ॥१३६॥वशी भवति देवेश आत्मारामेऽपि लीयते ।प्रत्याहारेण चित्तं तु चञ्चलं कामनाप्रियम् ॥१३७॥तत्कामनाविनाशाय स्थापयेत् पदपङजे ।धारणेन वायुसिद्धिरष्ट सिद्धिस्ततः परम् ॥१३८॥अणिमासिद्धिमाप्नोति अणुरुपेण वायुना ।ध्यानेन लभते मोक्षं मोक्षेण लभते सुखम् ॥१३९॥सुखेनानन्दवृद्धिः स्यादानन्दो ब्रह्माविग्रहः ।समाधिना महाज्ञानी सूर्याचन्द्रमसोर्गतिः ॥१४०॥महाशून्ये लयस्थाने श्रीपदानन्दसागरः ।तत्तरङे मनो दत्त्वा परमार्थविनिर्मले ॥१४१॥श्रीपदमूर्तिमाकल्प्य ध्यायेत् कोटिरवीन्दुवत् ।श्रीमूर्तिं कोटिचपलां समुज्ज्वलां सुनिर्मलाम् ॥१४२॥ध्यायेद्योगी सहस्त्रारे कोटिसूर्येन्दुमन्दिराम् ॥१४३॥श्रीविद्यामतिसुन्दरीं त्रिजगतामानन्दपुञ्जेश्वरींकोट्यर्कायुत तेजसि प्रियकरीं योगादरीं शाङ्करीम् ।तां मालां स्थिरचञ्चला गुरुघनां व्यालाचलां केवलांध्यायेत् सूक्ष्मसमाधिना स्थिरमतिः सश्रीपतिर्गच्छति ॥१४४॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णय पाशवकल्पे षट्चक्रसारसङ्केते योगविद्याप्रकरणे मन्त्रसिद्धिशक्त्युपाये भैरवीभैरवसंवादे चतुर्विशं पटलः ॥२४॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP