संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्विंशः पटलः| शवसाधकस्य विधिनिषेध-कथनम् चतुर्विंशः पटलः योगसाधननिरुपणम् शवसाधनानिरुपणम् शवसाधनाफलश्रुतिकथनम् शवसाधकस्य विधिनिषेध-कथनम् अष्टांगयोगनिरूपणम् चतुर्विंशः पटलः - शवसाधकस्य विधिनिषेध-कथनम् योगविद्यासाधनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल शवसाधकस्य विधिनिषेध-कथनम् Translation - भाषांतर भूतले शवमास्थाय ब्रह्माचारी दिवा शुचिः ॥१२४॥निशायां पञ्चतत्त्वेन दिवसेऽष्टाङसाधनम् ।जितेन्द्रियो निर्विकारो वित्तवानपरो नरः ॥१२५॥शवं संसाधयेद्धीश्चिन्तालस्यविवर्जितः ।चिन्ताभिर्जायते लोभो लोभात् कामः प्रपद्यते ॥१२६॥कामाद्भवति सम्मोहो मोहादालस्य सञ्चयः ।आलस्यदोषजालेन निद्रा भवति तत्क्षणात् ॥१२७॥महानिद्राविपाकेन मृत्युर्भवति निश्चितम् ।अपक्षनिद्राभङेन क्रोधी भवति निश्चितम् ॥१२८॥तत्क्रोधाच्चित्तविकलो विकलात् श्वासवर्द्धनः ।वृथायुः क्षयमाप्नोति विस्तरे श्वाससंक्षये ॥१२९॥बलबुद्धिक्षयं याति बुद्धिहीनो जडात्मकः ।जडभावेन मन्त्राणां जपहीनो भवेन्नरः ॥१३०॥जपहीने श्वासनाशः श्वासानाशे तनुक्षयम् ।अतस्तनुं समाश्रित्य जपनिष्ठो भवेत् शुचिः ॥१३१॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP