चतुर्विंशः पटलः - योगसाधननिरुपणम्

योगविद्यासाधनम्


आनन्दभैरवी उवाच
अथ वक्ष्ये महादेव योगशास्त्रार्थनिर्णयम् ।
येन विज्ञानमात्रेण षट्चक्रग्रन्थिभेदकः ॥१॥

योगसाधननिरुपणम्
पर्व्वातिरिक्तदिवसे कुर्यात श्रीयोगसाधनम् ।
कालिकाकुलसर्वस्व कला कालसमन्वितम् ॥२॥

आसनं विधिना ज्ञानं कोटिकोटिक्रियान्वितम् ।
शतलक्षसहस्त्राणि आसनानि महीतले ॥३॥

स्वर्गे पातालमध्ये तु सम्मुक्तानि महर्षिभिः ।
भेदाभेदक्रमेणैव कुर्यान्नित्यं सदासनम् ॥४॥

तत्प्रकारं च विविधं तत्कृत्वा सोऽमरो भवेत् ।
अमरः सिद्ध इत्याहुरष्टैश्वर्यसमन्वितम् ॥५॥

प्रतिभाति स एवार्थो मूलमन्त्रार्थवेदिनः ।
अमरास्ते प्रशंसन्ति सर्वलोकनिरन्तरम् ॥६॥

देवाः श्रीकामिनीकान्ताः प्रभवन्ति जगत्त्रये ।
कालं हि वशमाकर्त्तुं नियुक्तो यश्च भावकः ॥७॥

ते सर्वे विचरन्तीह कोटिवह्सशतेषु च ।
तत्तदासननामानि श्रुणु तत्साधनानि च ॥८॥

येन विज्ञानमात्रेण साक्षादीशस्य भक्तिमान् ।
अथ कूर्मासनं नाथ कृत्वा वायुं प्रपूरयेत् ॥९॥

कामरुपो भवेत् क्षिप्रं कलिकल्मषनाशनम् ।
समानासनमाकृत्य लिङाग्रे स्वीयमस्तकम् ॥१०॥

नितम्बे हस्तयुगलं भूमौ सङ्केचित पतेत् ।
कुम्भीरासनमावक्ष्ये वायूनां धारणाय च ॥११॥

तिष्ठेत् कुण्डाकृतिर्भूमौ करौ शीर्षोपरि स्थितौ ।
पदोपरि पदं दत्त्वा शीर्षोपरि करद्वयम् ॥१२॥

तिष्ठेत कुण्डाकृतिर्भूमौ कुम्भीरासनमेव तत् ।
अथ मत्स्यासनं पृष्ठे हस्तोपरि कराङगुलिः ॥१३॥

पादयुग्मप्रमाणेन वृद्धाङ्‌गुष्ठस्य योजनम् ।
मकरासनमावक्ष्ये वायुपानाय कुम्भयेत् ॥१४॥

पृष्ठे पादद्वयं दत्त्वा हस्ताभ्यां पृष्ठबन्धनम् ।
अथ सिंहासन नाथ कूर्परोपरि जानुनी ॥१५॥

स्थापयित्वा ऊद्र्ध्वमुखो वायुपानं समाचरेत् ।
अथ वक्ष्ये महादेव कुञ्चरासनमुत्तमम् ॥१६॥

करेणैकेन पादाभ्यां भूमौ तिष्ठेत् शिरः करः ।
व्याघ्रसनमथो वक्ष्ये क्रोधकालविनाशनम् ॥१७॥

एकपादं शेर्षमध्ये मेरुदण्डोपरि स्थितम् ।
भल्लूकासनमावक्ष्ये यत्कृत्वा योगिराड्‌  भवेत् ॥१८॥

नितम्बे च पादगोष्ठी हस्ताभ्यामड्‌गुलीयकम् ।
अथ कामासनं वक्ष्ये कामसङेन हेतुना ॥१९॥

गरुडासनमाकृत्य कनिष्ठाग्रं स्पृशोद‌भवम् ।
वर्त्तुलासनमावक्ष्ये यत्कृत्त्वा भैरवो भवेत् ॥२०॥

आकाशस्थितपादाभ्यां पृष्ठदेशं निबन्धयेत् ।
अथ मोक्षासनं वक्ष्ये यत्कृत्त्वा मोक्षमन्दिरम् ॥२१॥

दक्षहस्तं दक्षपादं केवलं स्थापयेत्सुधीः ।
अथ मालासनं नाथ यत्कृत्वा वायवीप्रियः ॥२२॥

शुभयोगं समाप्नोति एकहस्तस्थितो नरः ।
अथ दिव्यासनं वक्ष्ये पृष्ठं हस्तेन बन्धयेत् ॥२३॥

एकहस्तमध्यदेशं भूमिहस्तञ्च नासया ।
अर्द्धोदयासनं नाथ सर्वाङ खे नियोजयेत् ॥२४॥

केवलं हस्तयुगलं भूमिमालोक्य नासया ।
अथ चन्द्रासनं वक्ष्ये पादाभ्यां स्वशरीरकम् ॥२५॥

पुनः पुनः धारयेद् यो वायुधारणपूर्वकम् ।
अथ हंसासनं वक्ष्ये शरीरेण पुनः पुनः ॥२६॥

भूमौ सन्ताड्येत् श्वासैः प्राणवायुदृढः सुधीः ।
अथ सूर्यासनं वक्ष्ये पृष्ठात् पादेन बन्धनम् ॥२७॥

पृष्ठे भेदान्वितं पादं तस्य हस्तेन बन्धयेत् ।
अथ योगासनं वक्ष्ये यत्कृत्वा योगिराड्‌ भवेत् ॥२८॥

सर्वाः पादतलद्वन्द्वं स्वाङे बद्ध्वा करद्वयम् ।
गदासनमतो वक्ष्ये गदाकृतिर्वसेद् भुवि ॥२९॥

ऊद्र्ध्वबाहुर्भवेद्येन कायशोधनहेतुना ।
अथ लक्ष्म्यासनं वक्ष्ये लिङाग्रेऽघ्रितलद्वयम् ॥३०॥

गुह्यदेशे हस्तयुग्मं तलाभ्यां बन्धयेद् भुवि ।
अथ कुल्यासनं वक्ष्ये यत्कृत्वा कौलिको भवेत् ॥३१॥

एकाहस्तं मस्तकस्थोऽधः शीर्षेऽभिन्नगे करम् ।
ब्राह्मणासनमावक्ष्ये यत्कृत्त्वा ब्राह्मणो भवेत् ॥३२॥

एकपादमूरौ दत्त्वा तिष्ठेद् दण्डकृतिर्भुवि ।
क्षत्रियासनमावक्ष्ये यत्कृत्त्वा धनवान भवेत् ॥३३॥

केशेन पाययुगलं बद्ध्वा तिष्ठेदधोमुखः ।
अथ वैश्यासनं वक्ष्ये यत्कृत्वा सत्यवान्भवेत् ॥३४॥

वृद्धाङगुष्ठेन यस्तिष्ठेत् हस्तयुग्मं स्वकोरसि ।
अथ शूद्रासनं वक्ष्ये यत्कृत्वा सेवको भवेत् ॥३५॥

धृत्वाङ्‌गुष्ठद्वयं योज्यं नासाग्रपादमध्यके ।
अथ जात्यासनं वक्ष्ये येन जातिस्मरो भवेत् ॥३६॥

हस्ताङ्‌घ्रियुग्मं भूमौ च गमनागमनं ततः ।
पाशवासनमावक्ष्ये कृत्त्वा पशुपतिर्भवेत् ॥३७॥

पृष्ठे हस्तद्वयं दत्त्वा कूर्पराग्रे स्वमस्तकम् ।
एतेषां साधनादेव चिरजीवी भवेन्नरः ॥३८॥

संवत्सरं साधनाद्वै जीवन्मुक्तो भवेद् ध्रुवम् ।
श्रीविद्यासाधनं पश्चात् कथितव्य्म तब प्रभो ॥३९॥

आसनं योगसिद्धर्थं कायशोधनहेतुना ।
इदानीं श्रृणु देवेश रहस्यं कोमलासनम् ॥४०॥

योगसिद्धिविचाराय रहस्तं चर्मासनं शुभम् ।
अथ नरासनं वक्ष्ये षोडशादिप्रकारकम् ॥४१॥

येन साधनमात्रेण योगी भवति साधकः ।
प्रकारं षोडशप्रोक्तं मत्कुलागमसम्भवम् ॥४२॥

येन साधनमात्रेण साक्षाद्योगी महीतले ।
एकमासाद् भवेत्कल्पो द्विमासे द्रुतकल्पनम् ॥४३॥

त्रिमासे योगकल्पः स्याच्चतुर्मासे स्थिराशयः ।
पञ्चमासे सूक्ष्मकल्पे षष्ठमासे विवेकगः ॥४४॥

सप्तमासे ज्ञानयुक्तो भावको भवति ध्रुवम् ।
अष्टमासेऽन्नसंयुक्तो जितेन्द्रियकलेवरः ॥४५॥

नवमे सिद्धिमिलनो दशमे चक्रभेदवान् ।
एकादशे महावीरो द्वादशे खेचरो भवेत् ॥४६॥

इति योगासनस्थश्च योगी भवति साधकः ।
नरासनं यः करोति स सिद्धो नात्र संशयः ॥४७॥

तत्प्रकारं प्रवक्ष्यामि येन सिद्धो भवेत्प्रभो ।
अधोमुखं महादेव नरासनस्य साधने ॥४८॥

करणीयं साधकेन्द्रैर्योगशास्त्रार्थसम्मतैः ।
अक्षीणं यौवनोद्दामं सुन्दरं चारुकुन्तलम् ॥४९॥

लोकानां श्रेष्ठमेवं हि पतितं रणसम्मुखे ।
तत्सर्वं हि समानीय मङले वासरे निशि ॥५०॥

चन्द्रसूर्यासनं कृत्वा साधयेत्तत्र कौलिकः ।
अथान्यत् सम्प्रवक्ष्यामि सर्वसिद्धिप्रकारकम् ॥५१॥

भेकासनं यः करोति स एव योगिनीपतिः ।
अथान्यत् सम्र्पवक्ष्यामि यत्कृत्वा योगिराड्‌ भवेत् ॥५२॥

तत्सर्वोत्तरशिरसि स्थित्वा चन्द्रासने जपेत् ।
अथान्यत् तत्प्रकारञ्च महाविद्यादिदर्शनात् ॥५३॥

मत्सरे गौरवर्णे च तत्र शैलासने जपेत् ।
अथान्यत्तत्प्रकारं च योगिकौलो न संशयः ॥५४॥

यद्येवं म्रियते सोऽपि तदा भद्रास्सने जपेत् ।
तत्तत्साधनकाले च एवं कुर्यादि‌दने दिने ॥५५॥

न्रुत्यवाद्यगीतरागभोगोनविंशतौ दिने ।
चतुर्दशं न वीक्ष्येत भैरवाणां भयाद्र्दनात् ॥५६॥

मनोनिवेशमात्रेण योगी भवति भैरव ।
स्वेच्छासनं समाकृत्य मन्त्रं जपति यो नरः ॥५७॥

महासारो वीतरागः सिद्धो भवति निश्चितम् ।

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP