संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्विंशः पटलः| योगसाधननिरुपणम् चतुर्विंशः पटलः योगसाधननिरुपणम् शवसाधनानिरुपणम् शवसाधनाफलश्रुतिकथनम् शवसाधकस्य विधिनिषेध-कथनम् अष्टांगयोगनिरूपणम् चतुर्विंशः पटलः - योगसाधननिरुपणम् योगविद्यासाधनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल योगसाधननिरुपणम् Translation - भाषांतर आनन्दभैरवी उवाचअथ वक्ष्ये महादेव योगशास्त्रार्थनिर्णयम् ।येन विज्ञानमात्रेण षट्चक्रग्रन्थिभेदकः ॥१॥योगसाधननिरुपणम् पर्व्वातिरिक्तदिवसे कुर्यात श्रीयोगसाधनम् ।कालिकाकुलसर्वस्व कला कालसमन्वितम् ॥२॥आसनं विधिना ज्ञानं कोटिकोटिक्रियान्वितम् ।शतलक्षसहस्त्राणि आसनानि महीतले ॥३॥स्वर्गे पातालमध्ये तु सम्मुक्तानि महर्षिभिः ।भेदाभेदक्रमेणैव कुर्यान्नित्यं सदासनम् ॥४॥तत्प्रकारं च विविधं तत्कृत्वा सोऽमरो भवेत् ।अमरः सिद्ध इत्याहुरष्टैश्वर्यसमन्वितम् ॥५॥प्रतिभाति स एवार्थो मूलमन्त्रार्थवेदिनः ।अमरास्ते प्रशंसन्ति सर्वलोकनिरन्तरम् ॥६॥देवाः श्रीकामिनीकान्ताः प्रभवन्ति जगत्त्रये ।कालं हि वशमाकर्त्तुं नियुक्तो यश्च भावकः ॥७॥ते सर्वे विचरन्तीह कोटिवह्सशतेषु च ।तत्तदासननामानि श्रुणु तत्साधनानि च ॥८॥येन विज्ञानमात्रेण साक्षादीशस्य भक्तिमान् ।अथ कूर्मासनं नाथ कृत्वा वायुं प्रपूरयेत् ॥९॥कामरुपो भवेत् क्षिप्रं कलिकल्मषनाशनम् ।समानासनमाकृत्य लिङाग्रे स्वीयमस्तकम् ॥१०॥नितम्बे हस्तयुगलं भूमौ सङ्केचित पतेत् ।कुम्भीरासनमावक्ष्ये वायूनां धारणाय च ॥११॥तिष्ठेत् कुण्डाकृतिर्भूमौ करौ शीर्षोपरि स्थितौ ।पदोपरि पदं दत्त्वा शीर्षोपरि करद्वयम् ॥१२॥तिष्ठेत कुण्डाकृतिर्भूमौ कुम्भीरासनमेव तत् ।अथ मत्स्यासनं पृष्ठे हस्तोपरि कराङगुलिः ॥१३॥पादयुग्मप्रमाणेन वृद्धाङ्गुष्ठस्य योजनम् ।मकरासनमावक्ष्ये वायुपानाय कुम्भयेत् ॥१४॥पृष्ठे पादद्वयं दत्त्वा हस्ताभ्यां पृष्ठबन्धनम् ।अथ सिंहासन नाथ कूर्परोपरि जानुनी ॥१५॥स्थापयित्वा ऊद्र्ध्वमुखो वायुपानं समाचरेत् ।अथ वक्ष्ये महादेव कुञ्चरासनमुत्तमम् ॥१६॥करेणैकेन पादाभ्यां भूमौ तिष्ठेत् शिरः करः ।व्याघ्रसनमथो वक्ष्ये क्रोधकालविनाशनम् ॥१७॥एकपादं शेर्षमध्ये मेरुदण्डोपरि स्थितम् ।भल्लूकासनमावक्ष्ये यत्कृत्वा योगिराड् भवेत् ॥१८॥नितम्बे च पादगोष्ठी हस्ताभ्यामड्गुलीयकम् ।अथ कामासनं वक्ष्ये कामसङेन हेतुना ॥१९॥गरुडासनमाकृत्य कनिष्ठाग्रं स्पृशोदभवम् ।वर्त्तुलासनमावक्ष्ये यत्कृत्त्वा भैरवो भवेत् ॥२०॥आकाशस्थितपादाभ्यां पृष्ठदेशं निबन्धयेत् ।अथ मोक्षासनं वक्ष्ये यत्कृत्त्वा मोक्षमन्दिरम् ॥२१॥दक्षहस्तं दक्षपादं केवलं स्थापयेत्सुधीः ।अथ मालासनं नाथ यत्कृत्वा वायवीप्रियः ॥२२॥शुभयोगं समाप्नोति एकहस्तस्थितो नरः ।अथ दिव्यासनं वक्ष्ये पृष्ठं हस्तेन बन्धयेत् ॥२३॥एकहस्तमध्यदेशं भूमिहस्तञ्च नासया ।अर्द्धोदयासनं नाथ सर्वाङ खे नियोजयेत् ॥२४॥केवलं हस्तयुगलं भूमिमालोक्य नासया ।अथ चन्द्रासनं वक्ष्ये पादाभ्यां स्वशरीरकम् ॥२५॥पुनः पुनः धारयेद् यो वायुधारणपूर्वकम् ।अथ हंसासनं वक्ष्ये शरीरेण पुनः पुनः ॥२६॥भूमौ सन्ताड्येत् श्वासैः प्राणवायुदृढः सुधीः ।अथ सूर्यासनं वक्ष्ये पृष्ठात् पादेन बन्धनम् ॥२७॥पृष्ठे भेदान्वितं पादं तस्य हस्तेन बन्धयेत् ।अथ योगासनं वक्ष्ये यत्कृत्वा योगिराड् भवेत् ॥२८॥सर्वाः पादतलद्वन्द्वं स्वाङे बद्ध्वा करद्वयम् ।गदासनमतो वक्ष्ये गदाकृतिर्वसेद् भुवि ॥२९॥ऊद्र्ध्वबाहुर्भवेद्येन कायशोधनहेतुना ।अथ लक्ष्म्यासनं वक्ष्ये लिङाग्रेऽघ्रितलद्वयम् ॥३०॥गुह्यदेशे हस्तयुग्मं तलाभ्यां बन्धयेद् भुवि ।अथ कुल्यासनं वक्ष्ये यत्कृत्वा कौलिको भवेत् ॥३१॥एकाहस्तं मस्तकस्थोऽधः शीर्षेऽभिन्नगे करम् ।ब्राह्मणासनमावक्ष्ये यत्कृत्त्वा ब्राह्मणो भवेत् ॥३२॥एकपादमूरौ दत्त्वा तिष्ठेद् दण्डकृतिर्भुवि ।क्षत्रियासनमावक्ष्ये यत्कृत्त्वा धनवान भवेत् ॥३३॥केशेन पाययुगलं बद्ध्वा तिष्ठेदधोमुखः ।अथ वैश्यासनं वक्ष्ये यत्कृत्वा सत्यवान्भवेत् ॥३४॥वृद्धाङगुष्ठेन यस्तिष्ठेत् हस्तयुग्मं स्वकोरसि ।अथ शूद्रासनं वक्ष्ये यत्कृत्वा सेवको भवेत् ॥३५॥धृत्वाङ्गुष्ठद्वयं योज्यं नासाग्रपादमध्यके ।अथ जात्यासनं वक्ष्ये येन जातिस्मरो भवेत् ॥३६॥हस्ताङ्घ्रियुग्मं भूमौ च गमनागमनं ततः ।पाशवासनमावक्ष्ये कृत्त्वा पशुपतिर्भवेत् ॥३७॥पृष्ठे हस्तद्वयं दत्त्वा कूर्पराग्रे स्वमस्तकम् ।एतेषां साधनादेव चिरजीवी भवेन्नरः ॥३८॥संवत्सरं साधनाद्वै जीवन्मुक्तो भवेद् ध्रुवम् ।श्रीविद्यासाधनं पश्चात् कथितव्य्म तब प्रभो ॥३९॥आसनं योगसिद्धर्थं कायशोधनहेतुना ।इदानीं श्रृणु देवेश रहस्यं कोमलासनम् ॥४०॥योगसिद्धिविचाराय रहस्तं चर्मासनं शुभम् ।अथ नरासनं वक्ष्ये षोडशादिप्रकारकम् ॥४१॥येन साधनमात्रेण योगी भवति साधकः ।प्रकारं षोडशप्रोक्तं मत्कुलागमसम्भवम् ॥४२॥येन साधनमात्रेण साक्षाद्योगी महीतले ।एकमासाद् भवेत्कल्पो द्विमासे द्रुतकल्पनम् ॥४३॥त्रिमासे योगकल्पः स्याच्चतुर्मासे स्थिराशयः ।पञ्चमासे सूक्ष्मकल्पे षष्ठमासे विवेकगः ॥४४॥सप्तमासे ज्ञानयुक्तो भावको भवति ध्रुवम् ।अष्टमासेऽन्नसंयुक्तो जितेन्द्रियकलेवरः ॥४५॥नवमे सिद्धिमिलनो दशमे चक्रभेदवान् ।एकादशे महावीरो द्वादशे खेचरो भवेत् ॥४६॥इति योगासनस्थश्च योगी भवति साधकः ।नरासनं यः करोति स सिद्धो नात्र संशयः ॥४७॥तत्प्रकारं प्रवक्ष्यामि येन सिद्धो भवेत्प्रभो ।अधोमुखं महादेव नरासनस्य साधने ॥४८॥करणीयं साधकेन्द्रैर्योगशास्त्रार्थसम्मतैः ।अक्षीणं यौवनोद्दामं सुन्दरं चारुकुन्तलम् ॥४९॥लोकानां श्रेष्ठमेवं हि पतितं रणसम्मुखे ।तत्सर्वं हि समानीय मङले वासरे निशि ॥५०॥चन्द्रसूर्यासनं कृत्वा साधयेत्तत्र कौलिकः ।अथान्यत् सम्प्रवक्ष्यामि सर्वसिद्धिप्रकारकम् ॥५१॥भेकासनं यः करोति स एव योगिनीपतिः ।अथान्यत् सम्र्पवक्ष्यामि यत्कृत्वा योगिराड् भवेत् ॥५२॥तत्सर्वोत्तरशिरसि स्थित्वा चन्द्रासने जपेत् ।अथान्यत् तत्प्रकारञ्च महाविद्यादिदर्शनात् ॥५३॥मत्सरे गौरवर्णे च तत्र शैलासने जपेत् ।अथान्यत्तत्प्रकारं च योगिकौलो न संशयः ॥५४॥यद्येवं म्रियते सोऽपि तदा भद्रास्सने जपेत् ।तत्तत्साधनकाले च एवं कुर्यादिदने दिने ॥५५॥न्रुत्यवाद्यगीतरागभोगोनविंशतौ दिने ।चतुर्दशं न वीक्ष्येत भैरवाणां भयाद्र्दनात् ॥५६॥मनोनिवेशमात्रेण योगी भवति भैरव ।स्वेच्छासनं समाकृत्य मन्त्रं जपति यो नरः ॥५७॥महासारो वीतरागः सिद्धो भवति निश्चितम् । N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP