अष्टादशः पटलः - वर्गे वर्गे फलकथनम्

कामचक्रसारसंकेते चतुर्वेदोल्लासः


कवर्गे कामसम्पत्तिं श्रिया व्याप्तं सुमन्दिरम् ।
प्राप्नोति कामचक्रार्थं राशिनक्षत्रसम्मतम् ॥७७॥

चवर्गे दीर्घजीवी स्यात् दृढसम्पदमेव च ।
वृत्तिं प्राप्नोति गमनादनुदि‌दश्य शरीरिणः ॥७८॥

समाचारं समाप्नोति गमने सर्वमुत्तमम् ।
टवर्गं सम्भवे नाथ महदुच्चाटनादिकम् ॥७९॥

पुत्राणामपि वृद्धिः स्यात् तवर्गे धनलाभकम् ।
पवर्गे मरणं नाथ यादि-क्षान्ते महागुणी ॥८०॥

कामचक्रफलं नाथ राशिदण्डेन योजयेत् ।
निजगेहस्थितं राशिं ज्ञात्वा हि दिनदण्डतः ॥८१॥

गणयित्वाशुभं ज्ञानी अनुलोमविलोमतः ।
घतस्थं सकलं सन्धिकोणस्थं पार्श्वके शुभम् ॥८२॥

शुभमन्त्रं गृहीत्वा तु सिद्धिमाप्नोति साधकः ॥८३॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने भावप्रश्नार्थनिर्णये पाशवकल्पे कामचक्रसारसङेते सिद्धिमन्त्रप्रकरण चतुर्वेदोल्लासे भैरवभैरवी संवादे अष्टादशः पटलः ॥१८॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP