संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अष्टादशः पटलः| वर्णदेवता तस्य स्वरुपकथनम् अष्टादशः पटलः कामचक्रफलोद्भवम् वर्णदेवता तस्य स्वरुपकथनम् षोडशस्वरफलकथनम् वर्गे वर्गे फलकथनम् अष्टादशः पटलः - वर्णदेवता तस्य स्वरुपकथनम् कामचक्रसारसंकेते चतुर्वेदोल्लासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल वर्णदेवता तस्य स्वरुपकथनम् Translation - भाषांतर कवर्गं कामाख्याभवनमणिपीठे त्रिजगतांधरित्री सा धात्री वसति सततं सिद्धिनवके ।हुताशेष्वाकोशे जलदतनुसाकाशजननीगभीरा खड्गाभा करहर (भयवर) करा घोरमुखरां ॥१५॥अभ्यासयोगात् कलिकालपावनीं कालीं कुलानन्दमयीं रमेशीम् ।महारसोल्लाससुवक्त्रलोचनां कामेश्वरीं कूर्मपदं(दां) भजेज्जयी ॥१६॥कालागुरोरुत्तमसिद्धसेविता मनोहरा खेचरसारशाखिनी ।उल्कासमग्रा भवदीपवृत्तिस्तेज(:)(प्र) कूटामलनीलदेहा ॥१७॥खड्गायुधा खर्परधारिणी सा चण्डोद्गमा वायुपथस्थ खेचरी ।विद्याभयाखञ्जनलोचना गतिः क्षितिक्षये खेचरवर्गधारिणी ॥१८॥खारी विहारी खलखेलनेन खराखरोन्मत्तगतिप्रिया खगा ।महाखगारुपखलस्थिता सदा प्रपाति विद्याबलविक्रमस्थिता ॥१९॥व्यापारनिद्रागहनार्थचिन्ताखरप्रभाभाति यदा यदा ॥२०॥गायत्री गणनायिका मतिगतिग्लनिरगूढाशयागीता गोकुलकामिनी गुरुतरा गार्ह्यग्निजेयोदया ।गोरुपा गयहा गया गुणवर्ता गाथापथस्थयिनीश्रीगुर्वी प्रतिपालनं त्रिजगतां गायन्ति यां तां भजेत् ॥२१॥वायोर्घर्मकरानन्दमोहिनी घर्घरा घना ।निद्रामाध्याति घटना नीला घोटकवाहिनी ॥२२॥बिन्दुस्था विषभोजनानलकथा बीजश्रमायोप्रिया ।पञ्चाढ्यामनुनासिका सुखमयी वेदक्रिया षण्मुखी ॥२३॥विचित्रवस्त्राचरणाब्जचालनम् ।विचारचेष्टां मयि देहि चञ्चले ॥२४॥इति वर्णं चवर्गस्य महापातकनाशनम् ।कामचक्रे स्थितं यद्यत् प्रश्ने मन्त्रगृहे यथा ॥२५॥चवर्गफलमत्यन्तनिष्कर्षं सूक्ष्मभावनम् ।धिया सर्वाक्षरश्रेणीं भावयन्ति पुनः पुनः ॥२६॥सर्वं जानाति शम्भो त्वं परं कि कथयामि ते ।तथापि वर्गमाहात्म्यं कामचक्रस्थनिर्मलम् ॥२७॥यो जानाति कामचक्रं यमो हन्ति न तं जनम् ।तत्प्रकारं भावयुक्तं भावनाध्याननिर्मलम् ॥२८॥ध्यात्वा कामरुपस्था मूलाधारनिवासिनः ।देवताः पार्थिवाः सर्वे आत्मानं परमेष्ठिनः ॥२९॥न जानन्ति बालका मे तेषां योगादिसिद्धये ।कामचक्रं कामरुपं कामनाफलसिद्धिदम् ॥३०॥तन्मन्त्रग्रहणादेव साक्षादीशो भवेन्नरः ।श्रुतिशास्त्राणि सर्वाणि करे तस्य न संशयः ॥३१॥योगशिक्षादिकं सर्वं जानाति कामचक्रतः ।कामचक्रप्रसादेन कामरुपी भवेद् ध्रुवम् ॥३२॥तद्वर्नस्थं तदन्तःस्थं दशकोणस्थमेव च ।अष्टदलस्थं तत्रापि विचार्य साधकोत्तमः ॥३३॥अनुलोमविलोमेन शास्त्रस्यानुक्रमेण च ।बाल्यं कैशोरमुल्लासं वृद्धिः सिद्धिश्च यौवने ॥३४॥वृद्धो वृद्धत्वमाप्नोति अस्ते च निधनं भवेत् ।नवग्रहास्तत्र मध्ये पञ्चप्राणाश्च सन्ति वै ॥३५॥अनुलोमविलोमेन गणयेद्दशकोणके ।दशकोणे सर्वसिद्धरष्टसिद्धिश्च तत्र वै ॥३६॥अष्टपत्रे प्रशंसन्ति अधोऽनन्तमध्ये गृहे ।ब्राह्ममूर्ध्वगेहे च मन्त्रवर्नांश्च तत्तु तान् ॥३७॥समाश्रित्य जपेद्वद्यां सूरयः क्रमरुपिणीम् ।ह्रस्वदेवीं ह्रस्वबुद्धिं ददाति साधकाय च ॥३८॥यदि क्रोधपरा विद्या भक्षयेत् साधकं लघु ।अतः समवयोरुपां देवतामष्टसिद्धिदाम् ॥३९॥देवो भूत्वा यजेद्देवं तदा मोक्षं समाप्नुयात् ।यदि वर्णं न जानति कौलपुत्रोऽप्यधो व्रजेत् ॥४०॥डाकिनी तं भक्षयति दीक्षामन्त्रार्णहीनकम् ।ततो वर्णविचारञ्च प्रवक्ष्यामि समासतः ॥४१॥चापान् धृत्वा नरेन्द्रस्तमपि मनुजकं पालयन्तीह लोकेसर्व चन्द्रो विघातं प्रचुरमयभयं भास्करो हन्ति शोकान् ।चातुर्थ्या चक्रपाणेः पदमपि चपला सन्ददातीह मायायोगोद्योगी चरुगतमनसा साधकायाऽऽशु योगम् ॥४२॥छत्राशा कमले स्थिता स्थितिलये वाञ्छाफलश्रीधराछायामण्डपमध्यगाच्छागाच्छलगता छत्रञ्छटा तेजसा ।त्रैलोक्यं प्रतिपाति पाशुपतिभिः क्षेत्राधिपैः श्रीधरैःप्राणप्रेमविहारिणी भगवतीच्छत्रेण तं साधकम् ॥४३॥जातिख्यातिरनुत्तमा प्रभवति प्रीतायमाभ्यासतांजीवानामतिदुःखराशिहननात् एकार्थसञ्चारिणी ।वज्रा जीवनमध्यगा गतिमती विद्या जया यामिनी जाता जातनिवारिणी जनमनःसंहारचिन्तावतु ॥४४॥गङा हन्ति हताशुभा धनमुखी कैवल्यमुक्तिप्रदा ।कृत्वा रक्षति साधकं झरझनत्कारेण सूक्ष्मनिलाकामक्रोधविनाशिनी शशिमुखी झङ्कारशब्दप्रिया ॥४५॥ञकारबीजामलभावसारैः बाणस्य पुञ्चं प्रतिहन्ति योगिनी ।खड्गायुधा सा रसपानमत्ता संहारनिद्राकुलसाधकुःखहा ॥४६॥चन्द्रातपस्निग्धसुकान्त विग्रहा टङ्कास्त्र वज्रास्त्रहतारिपुअङुवाः ।टिं टि महामन्त्रजपेन सिद्धिदा हन्ति श्रियं कापुरुषस्य पातकम् ॥४७॥विशालनेत्रा यदि चारुकाङिं ठं ठं स्वबीजं परिपाति कक्षरी ।मनोगतं दुःखसमूहमुर्वशी रत्नाकरा सैन्यकुलं निहन्ति ॥४८॥डामरा जगतामाद्या डं डां डिं डीं स्वरुपिणी ।कामचक्रे सुखं दत्वा सारयैवं तनोति सा ॥४९॥ढं ढां बीजात्मिका विद्या रत्नमन्दिरसंस्थिता ।ढक्कारी पाशहस्ता च साधक पाति सुन्दरी ॥५०॥णं णां णिं णीं जपति सुजनो जीवनीमध्यसंस्थाअष्टश्वैर्या प्रभवति ह्रदि क्षोभपुञ्जापहाय ।वाराणस्यां सकलभयहा सन्ददातीह लक्ष्मीं सूक्ष्मात्यन्तानलपथमुखीं कालजालं निहन्ति ॥५१॥तारारुपा तरुस्था त्रिनयन कुटिला तारकाख्या निहन्त्री तन्वश्रेणी तरुवरकलात्राणहेतोरतीता ।तालक्षेत्रा तडिदिव कलाकोटिसूर्यप्रकाशातोकादीनां बहलतरुणी तारकं पाति भक्तम् ॥५२॥कालक्रमेणैव विमुक्तिदायिनी मनोरमा नीरजनेत्र कोमलास्थिता क्ष (थ) कारक्षरमालिनीस्थला प्रपाति मुख्यं वरसाधकं शिवा ॥५३॥दाली दरिद्रातिनिकृष्टदुःखहा दान्तप्रिया दैत्यविदारिणी दहा ।दानस्थलस्था दयिता जतत्पतेर्दयाम ददाति द्रवदेवदारा ॥५४॥धात्री धराधारणतत्परा धनी धनप्रद धर्मगतिर्धरित्री ।दधार धीरं धनबीजमालिनी ध्यानस्थिता धर्मनिरुपणाय ॥५५॥नन्दस्य प्रतिपालनाय जगतामानन्दुपुञ्जोदया योगिन्यो नयनाम्बुजोज्ज्वलशिखाशोभा प्रमालाक्षरा ।नीता नावपथस्थिता मतिमती याः पालयन्तीह ताःपान्तु श्रीमुखतेजसा खलु यथा कालक्रमात् साधकम् ॥५६॥पीता प्रेमविलासिनी वरपथाज्ञानाश्रया पालनात् पूज्या पायसपा परापरपदा पीताम्बरा पोषणा ।प्रौढा प्रेमवती पुराणकथना पायात् पुरा पावनीया कामेश्वरपावनं परजनं श्री साधकं प्रस्थिता ॥५७॥फुत्फणिवरमाला फेरवी फेरुरुपाफणधरमुखकुल्याम्भोजवाक्यामृताब्धौ ।निरवधिहरिकण्ठे वाक्यरुपा फलस्थाफलगतफणिचूडा पातु फुल्लारविन्दे ॥५८॥वज्राख्यां वशकारिणीं यदि जपेत् श्रीपादसंसेवनात्बाल्यं वेदविनिर्गतां भगवतीं श्रीरामदेवोर्व्वराम् ।वश्या तस्य कराम्बुजे वसति सा वीरासनः स्था वशावक्त्राम्भोरुह कोमले भगवती भूतेश्वरी भूतगा ॥५९॥माता मन्दिरमालिनी मतिमतामानन्दमालामलामिथ्यामैथुनमोहिनी मनसि या(जा)मि(मे)महन्मेलनी ।मानी तं वदते महेश्वरमहित्व तस्य वक्षःस्थलेस्थित्वा सा मरणं निहन्ति सहसा मौनावलम्बी भवेत् ॥६०॥यातप्रिया या प्रतिभाति योगिनीयामास्थिता योगमुखास्पदा यथा ।योनिस्थले सा यतिसाधकंयशोयात्रा सदा पाति यमादिकं दहेत् ॥६१॥रत्नस्था रतिराजिता रणमुखे राज्ञः प्रियभीतिहारुक्ष्मा(क्या) लङ्कृतरडिणी रसवती रागापहा रोगहा ।राजेन्द्रं रजनीस्थे प्रकुपिता राधामृता पाति तंस्वाहारुपमनोरमा सुरमणी रामा रकारक्षरी ॥६२॥लक्ष्मीर्लाङलिलक्षणा सुललना लोलामला निर्भयाबालामूलमिवासतां लवनाकुला सिन्धूल्लासलीलाकुला ।लोलाकोलकुलान्न जानलमुखी लग्नालघूराकुलाकौलार्काकुल लोचना लयकरी लीलालयं पाति माम् ॥६३॥विषासवस्थानरणस्थवासनावश्यावहन्ती ललनावशार्थम् ।सा पाति वीरं यदि तां भजेद् वशीविषाशनं ते निवसन्ति वारुणीम् ॥६४॥शीतां शशीशोक विशेषनाशिनींभजेत् सुशीलां स भवेदिदवाकरः ।शिवां शचीं शौचशुभां शवप्रियांशवस्थितां शीतलदेशशेशोभिताम् ॥६५॥षट्चक्रे षट्चक्रे षट्पदाषाढी षड्ङुस्था षडानना ।षट्चक्रे सिद्धिदा पाति साधकं षोडशी मुदा ॥६६॥सा मा सूक्ष्म वहति सुजलं सप्तनाकस्थलाढ्यासारा साक्षात् सुखसमरसोज्ज्वालसाहलादसाम्या ।साकारा साम्बुजमधुगिरा पूरयन्ती महार्थं वेदा सौरा सुरमतिनिवहा सामवेदान्तरस्था ॥६७॥हठात्कारेण सहारा हरति प्राणहं जनम् ।निहारिणं न सा हन्ति हिरण्याहारमालिनी ॥६८॥आलोका लक्षजपदा लाक्षरंल्लक्षणा समा ।आलग्दानाल सालापा? पाति तं यो भजेल्लघु ॥६९॥क्षयं क्षितौ याति सुसूक्ष्मभावनंविहाय मन्त्री क्षयरोगहारिणीसूक्ष्मातिसूक्ष्मान्यतमं विचिन्तयेत् क्षोभादिकं पक्षकलाक्षयन्ती ॥७०॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP