अष्टादशः पटलः - कामचक्रफलोद्‍भवम्

कामचक्रसारसंकेते चतुर्वेदोल्लासः


आनन्दभैरवी उवाच
श्रृणु नाथ प्रवक्ष्यामि असाध्यसाधनं परम् ।
कामचक्रस्य वर्णानां वर्णनं प्रश्ननिर्ण्यम् ॥१॥

आज्ञाचक्रमध्यभागे नाडीकोटिरसालिनी ।
तन्मध्ये भावेयेन्मन्त्री कामचक्रं मनोरमम् ॥२॥

कामचक्रे च पूर्वोक्तवर्णमालोक्य साधकः ।
न्यासमन्त्रे पुटीकृत्य जपित्वा योगिराड्‌ भवेत् ॥३॥

एको मन्दिरमध्यस्थो मन्त्रमाश्रित्य यत्नतः ।
निजनामाक्षरं तत्र तत्कोष्ठनुमाश्रयेत् ॥४॥

आनन्दभैरव उवाच
एतेषां कोष्ठसंस्थानां वर्णानां हि फलाफलम् ।
वद कान्ते रहस्यं मे कामचक्रफलोद्‌भवम् ॥५॥

आनन्दभैरवी उवाच
कामचक्रं कालरुपं ततो वाराणसीपुरम् ।
तत्र सर्वपीठचक्रं चक्राणामुत्तमोत्तमम् ॥६॥

एतच्चक्रप्रसादेन ते पादाम्बुजदर्शनम् ।
प्राप्नोति साधकान् सत्यं सर्वं जानति साधकः ॥७॥

कामनासिद्धयर्थं मन्त्रार्थादिविचारनाम् ।
वृद्धमस्तमिंत त्यक्त्या गृहणीयान्मन्त्रमुत्तमम् ॥८॥

(आनन्दभैरवी उवाच)
बाल्यदिषु स्थितात् वर्गान् आश्रयेत् साधकोत्तमः ।
वर्जयेद्‍ वृद्धभावञ्च तथास्तमितमेव च ॥१०॥

आश्रयेद्‍ राशिभावेन बाल्यकैशोरयौवनाम् ।
अथ बाल्यं वर्गभेदं विचारे वामयोगतः ॥११॥

मन्त्राणाञ्चापि गणयेत् प्रश्नकर्माणि दक्षिणात् ।
मध्यकोणावधिं नाथ गणनीयं विचक्षणैः ॥१२॥

ऊद्‌र्ध्वदक्षिणयोगेन गणयेत् प्रश्नकर्मणि ।
वामयोगेन गणयेद्‍ मन्त्रादीनां विचारणे ॥१३॥

श्रृणु तद्‌वर्गवर्गाणाम फलमत्यन्तसुन्दरम् ।
वदामि परमान्दरससिन्धुमधुव्रतः(त) ॥१४॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP