संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तदशः पटलः| अमहाचीनाचारः सप्तदशः पटलः अथर्ववेदचक्रस्थाकुण्डलिनीमहिमा वायवीसिध्दीः स्थिरचित्तसाधकस्य लक्षणम् बुद्धवसिष्ठवृत्तान्तः वसिष्ठस्य महाचीने गमनम् अमहाचीनाचारः सप्तदशः पटलः - अमहाचीनाचारः शक्त्याचारस्मन्वितम् अथर्ववेदलक्षणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल महाचीनाचारः Translation - भाषांतर श्रीबुद्ध उवाचवसिष्ठ श्रृणु वक्ष्यामि कुलमार्गनुत्तमम् ।येन विज्ञातमात्रेण रुद्ररुपी भवेत् क्षणात् ॥१३५॥साक्षेपेण सर्वसारं कुलसिद्ध्यर्थमागमम ।आदौ शुचिर्भवेद् विवेकाक्रान्तमानसः ॥१३६॥पशुभावस्थिरचेताः पशुसङुविवर्जितः ।एकाकी निर्जने स्थित्वा कामक्रोधादिवर्जितः ॥१३७॥दमयोगाभ्यासरतो योगशिक्षादृढव्रतः ।वेदमार्गाश्रयो नित्यं वेदार्थनिपुणो महान् ॥१३८॥एवं क्रमेण धर्मात्मा शीलो दाढ्योगुणान्वितः ।धारयेन्मारुतं नित्यं श्वासमार्गे मनोलयम् ॥१३९॥एवमभ्यासयोगेन वशी योगी दिने दिने ।शनैः क्रमाभ्यासाद् दहेद् स्वेदोद्गमोऽधमः ॥१४०॥मध्यमः कल्पसंयुक्तो भूमित्यागः परो मतः ।प्रानयामेन सिद्धिः स्यान्नरो योगेश्वरो भवेत् ॥१४१॥योगी भूत्वा कुम्भकज्ञो मौनी भक्तो दिवानिशम् ।शिवे कृष्णे ब्रह्मपदे एकान्तभक्तिसंयुतः ॥१४२॥ब्रह्मविष्णुशिवा एते वायवीगतिचञ्चला ।एवं विभाव्य मनसा कर्मणा वचसा शुचिः ॥१४३॥आदौ चित्तं समाधाय चिद्रुपायां स्थिराशयः ।ततो महावीरभावं कुलमार्गं महोदयम् ॥१४४॥शक्तिचक्रं सत्त्वचक्रं वैष्णवं नवविग्रहम् ।समाश्रित्य भजेन्मन्त्री कुलकात्यायनीं पराम् ॥१४५॥प्रत्यक्षदेवतां श्रीदां चण्डोद्वेगनिकृन्तिनीम् ।चिद्रुपां ज्ञाननिलयां चैतन्यानन्दविग्रहाम् ॥१४६॥कोटिसौदामिनीभासां सर्वतत्त्वस्वरुपिणीम् ।अष्टादशभुजा रौद्रीं शिवमांसाचलप्रियाम् ॥१४७॥आश्रित्य प्रजपेन्मन्त्रं कुलमार्गाश्रयो नरः ।कुलमार्गात् परं मार्गं को जानाति जगत्त्रये ॥१४८॥एतन्मार्गप्रसादेन ब्रह्मा स्त्रष्टा स्वयं महान् ।विष्णुश्च पालने शक्तो निर्मलः सत्त्वरुपधृक् ॥१४९॥सर्वसेव्यो महापूज्यो यजुर्वेदाधिपो महान् ।हरः संहारकर्त्ता च वीरेशोत्तममानसः ॥१५०॥सर्वेषामन्तकः क्रोधी क्रोधराजो महाबली ।वीरभावप्रसादेन दिक्पाला रुद्ररुपिणः ॥१५१॥वीराधीनमिदं विश्वं कुलाधीनञ्च वीरकम् ।अतः कुलं समाश्रित्य सर्वसिद्धीश्वरो जडः ॥१५२॥मासेनाकर्षणं सिद्धिर्द्धिमासे वाक्पतिर्भवेत् ।मासत्रयेण संयोगाज्ज्ञायते सुखवल्लभः ॥१५३॥एवं चतुष्टये मासि भवेद् दिक्पालगोचरः ।पञ्चमे पञ्चबाणः स्यात्षष्ठे रुद्रो भवेद् ध्रुवम् ॥१५४॥एतदाचारसारं हि सर्वेषामप्यगोचरम् ।एतन्मार्गं कौलमार्ग कौलमार्गं परं नहि ॥१५५॥योगिनां दृढचित्तानां भक्तानामेकमासतः ।कार्यसिद्धिर्भवेन्नारी कुलमार्गप्रसादतः ॥१५६॥पूर्णयोगी भवेद् विप्रः षण्मासाभ्यासयोगतः ।शक्ति बिना शिवोऽशक्तः किमन्ये जडबुद्धयः ॥१५७॥इत्युक्त्या बुद्धरुपी च कारयामास साधनम् ।कुरु विप्र महाशक्तिसेवनं मद्यसाधनाम् ॥१५८॥महाविद्यापदाम्भोजदर्शनं समवाप्यसि ।एतच्छुत्वा गुरोर्वाक्यं स्मृत्वा देवीं सरस्वतीम् ॥१५९॥मदिरासाधनं कर्त्तुं जगाम कुलमण्डले ।मद्यं मांसं तथा मांसं मुद्रा मैथुनमेव च ॥१६०॥पुनः पुनः साधियित्वा पूर्णयोगी बभूवः सः ।योगमार्गं कुलमार्गमेकाचारक्रमं प्रभो ॥१६१॥योगी भूत्वा कुलं ध्यात्वाअ सर्वसिद्धीश्वरो भवेत् ।सन्धिकालं कुलपथं योगेन जडितं सदा ॥१६२॥भगसंयोगमात्रेण सर्वसिद्धिश्वरो भवेत् ।एतद्योगं विजानीयाज्जीवात्मपरमात्मनोः ॥१६३॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावप्रश्नार्थनिर्णये सिद्धमन्त्रप्रकरणे चतुर्वेदोल्लासे भैरवभैरवीसंवादे सप्तदशः पटलः ॥१७॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP