संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तदशः पटलः| बुद्धवसिष्ठवृत्तान्तः सप्तदशः पटलः अथर्ववेदचक्रस्थाकुण्डलिनीमहिमा वायवीसिध्दीः स्थिरचित्तसाधकस्य लक्षणम् बुद्धवसिष्ठवृत्तान्तः वसिष्ठस्य महाचीने गमनम् अमहाचीनाचारः सप्तदशः पटलः - बुद्धवसिष्ठवृत्तान्तः शक्त्याचारस्मन्वितम् अथर्ववेदलक्षणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल बुद्धवसिष्ठवृत्तान्तः Translation - भाषांतर एतत्तत्त्वं विना नाथ न पश्यति कदाचन ।वसिष्ठो ब्रह्मपुत्रोऽपि चिरकालं सुसाधनम् ॥१०६॥चकार निर्जने देशे कृच्छ्रेण तपसा वशी ।शतसहस्त्र्म वत्सरं च व्याप्य योगादिसाधनम् ॥१०७॥तथापि साक्षिद्विज्ञानं न बभूव महितले ।ततो जगाम क्रुद्धोऽसौ तातस्य निकटे प्रभुः ॥१०८॥सर्वं तत् कथयामास स्वीयाचारक्रमं प्रभो ।अन्यमन्त्रं देहि नाथ एषा विद्या न सिद्धिदा ॥१०९॥अन्यथा सुदृढं शापं तवाग्रे प्रददामि हि ।ततस्वं वारयामास एवं न कुरु भो सुत ॥११०॥पुनस्तां भज भावेन योगमार्गेण पण्डित ।ततः सा वरदा भूत्वा आगमिष्यति तेऽग्रतः ॥१११॥सा देवी परमा शक्तिः सर्वसङ्कतारिणी ।कोटिसूर्यप्रभा नीला चन्द्रकोटिसुशीतला ॥११२॥स्थिरविद्युल्लताकोटिसदृशी कालकामिनी ।सा पाति जगतां लोकान् तस्याः कर्म चराचरम् ॥११३॥भज पुत्र स्थिरानन्द कथं शप्तुं समुद्यतः ।एकान्तचेतसा नित्यं भज पुत्र दयानिधि ॥११४॥तस्या दर्शनमेवं हि अवश्यं समवाप्स्यसि ।एतत् श्रुत्वा गुरोर्वाक्यं प्रणम्य च पुनः पुनः ॥११५॥जगाम जलधेस्तीरे वशी वेदान्तवित् शुचिः ।सहस्त्रवत्सरं सम्यक् जजाप परमं जपम् ॥११६॥आदेशोऽपि न बभूव ततः क्रोधपरो मुनिः ।व्याकुलात्मा महाविद्यां वसिष्ठः शप्तुमुद्यतः ॥११७॥द्विराचम्य महाशापः प्रदत्तश्च सुदारुणः ।तेनैव मुनिना नाथ मुनेरग्रे कुलेश्वरी ॥११८॥आजगाम महाविद्या योगिनामभयप्रदा ।अकारनमरे विप्र शापो दत्तः सुदारुणः ॥११९॥मम सेवाम न जानाति मत्कुलागम् चिन्तनम् ।कथं योगाभ्यासवशात् मत्पदम्भोजदर्शनम् ॥१२०॥प्राप्नोति मानुषो देवे मनध्यानमदुःखदम् ।यः कुलार्थी सिद्धमन्त्री मद्वेदाचार निर्मलः ॥१२१॥ममैव साधनं पुण्य़ं वेदानामप्यगोचरम् ।बौद्धदेशेऽर्ववेदे महाचीने तदा व्रज ॥१२२॥तत्र गत्वा महाभावं विलोक्य मत्पदाम्बुजम ।मत्कुलज्ञो महर्षे त्वं महासिद्धो भविष्यसि ॥१२३॥एतद्वाक्यं कथयित्वा सा वायव्याकाशवाहिनी ।निराकाराऽभवत् शीघ्रं ततः साकाशवाहिनी ॥१२४॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP