संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तदशः पटलः| अथर्ववेदचक्रस्थाकुण्डलिनीमहिमा सप्तदशः पटलः अथर्ववेदचक्रस्थाकुण्डलिनीमहिमा वायवीसिध्दीः स्थिरचित्तसाधकस्य लक्षणम् बुद्धवसिष्ठवृत्तान्तः वसिष्ठस्य महाचीने गमनम् अमहाचीनाचारः सप्तदशः पटलः - अथर्ववेदचक्रस्थाकुण्डलिनीमहिमा शक्त्याचारस्मन्वितम् अथर्ववेदलक्षणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल अथर्ववेदचक्रस्थाकुण्डलिनीमहिमा Translation - भाषांतर आनन्दभैरवी उवाचअथ वक्ष्ये महादेव अथर्ववेदलक्षणम् ।सर्ववर्णस्य सारं हि शक्त्याचारसमन्वितम् ॥१॥अथर्वदादुत्पन्नं सामवेदं तमोगुणम् ।सामवेदाद्यजुर्वेदं महासत्त्वसमुद्भवम् ॥२॥रजोगुणमयं ब्रह्मा ऋग्वेदं यजुषः स्थितम् ।मृणालसूत्रसदृशी अथर्ववेदरुपिणी ॥३॥अथर्वे सर्ववेदाश्च जलखेचरभूचराः ।निवसन्ति महा विद्या कुलविद्या महर्षयः ॥४॥समाप्तिपत्रशेषार्थं समीपं लोकमण्डले ।शक्तिचक्रसमाक्रान्तं दिव्यभावात्मकं शुभम् ॥५॥तत्रैव वीरभावञ्च तत्रैव पशुभावकम् ।सर्वभावात् परं तत्त्वमथर्वं वेदपत्रकम् ॥६॥द्विबिन्दुनिलयस्थानं ब्रह्माविष्णुशिवात्मकम् ।चतुर्वेदान्वितं तत्त्वं शरीरं दृढानिर्मितम् ॥७॥चतुर्विंशतितत्त्वानि सन्ति गात्रे मनोहरे ।ब्रह्मा रजोगुणाक्रान्तः पूरकेनाभिरक्षति ॥८॥विष्णुः सत्त्वगुनाक्रान्तः कुम्भकैः स्थिरभावनैः ।हरस्तमोगुणाक्रान्तो रेचकेणापि विग्रहम् ॥९॥अथर्ववेदचक्रस्था कुण्डली परदेवता ।एतन्माया तु यो नैव ब्रह्मविष्णुशिवेन च ॥१०॥शरीरं देवनिलय्म भक्तं ज्ञात्वा प्रवक्ष्यति ।सर्ववेदमयी देवी सर्वमन्त्रस्वरुपिणी ॥११॥सर्वयन्त्रात्मिका विद्या वेदविद्याप्रकाशिनी ।चैतन्या सर्वधर्मज्ञा स्वधर्मस्थानवासिनी ॥१२॥अचैतन्या ज्ञानरुपा हेमचम्पकमालिनी ।अकलङ्का निराधारा शुद्धज्ञानमनोजवा ॥१३॥सर्वसङ्कटजन्त्री च सा शरीरं प्रपाति हि ।तस्याः कार्यमिदं विश्वं तस्याः पुण्यानि हन्ति हि ॥१४॥तस्याचैतन्यकरणे सदा व्याकुलचेतसः ।महात्मानः प्रसिद्धयन्ति यदि कुर्वन्ति चेतनाम् ॥१५॥तस्या अनुग्रहादेव किं न सिद्धयति भूतले ।षण्मासाभ्यासयोगेन चैतन्या कुण्डली भवेत् ॥१६॥सा देवी वायवी शक्तिः परमाकाशवाहिनी ।तारिणी वेदमाता च बहिर्याति दिने दिने ॥१७॥द्वादशाङ्गुलमानेन आयुः क्षरति नित्यशः ।द्वादशाङ्गुलवायुश्च क्षयं कुर्यादिदने दिने ॥१८॥यावद् यावद् बहिर्याति कुण्डली परदेवता ।तावत्तावत्खण्डलयं भवेद्धि पापमोक्षणम् ॥१९॥यदा यदा न क्षरति वायवी सूक्ष्मरुपिणी ।बाह्यचन्द्रे महादेव आग्नेयी सोमण्डले ॥२०॥मूलाधारे कामरुपे ज्वलन्ती चण्डिका शिखा ।यदा शिरोमण्डले च सहस्त्रदलपङ्कजे ॥२१॥तेजोमयीं सदा याति शिवं कामेश्वरं प्रभुम् ।अच्युताख्यं महादेवं तदा ज्ञानी स योगिरट् ॥२२॥यदि क्षरति सा देवी बाह्रचन्द्रे मनोलये ।तदा योगं समाकुर्यात् यावत् शीर्षण गच्छति ॥२३॥यदि शीर्षे समागम्यामृतपानं करोति सा ।वायवी सूक्ष्मदेहस्था सूक्ष्मालयप्रिया सती ॥२४॥तदेव परमा सिद्धिर्भक्तिमार्गो न संशयः ।चतुर्वेद ज्ञानसारं अथर्व परिकीर्तितम् ॥२५॥अथर्ववेदविद्या च देवता वायवी मता ।तस्याः सेवनमात्रेण रुद्ररुपो भवेन्नरः ॥२६॥केवलं कुम्भकस्था सा एका ब्रह्मप्रकाशिनी ।भैरव उवाचकेन वा वायवी शक्तिः कृपा भवति पार्वति ॥२७॥स्थिरचेता भवेत् केन विवेकी वा कथं भवेत् ।मन्त्रसिद्धिर्भवेत् केन कायसिद्धिः कथं भवेत् ॥२८॥विस्तार्य वद चामुण्डे आनन्दभैरवेश्वरी ।आनन्दभैरवी उवाचश्रृणुष्वैकमनाः शम्भो मम प्राणकुलेश्वर ॥२९॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP