संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वादशः पटलः| वाग्देवताध्यानम् द्वादशः पटलः भावप्रश्नार्थबोधकथनम् महासूक्ष्मफल-ज्ञापकचक्र प्रश्नफलबोधक चक्र आज्ञाचक्रकथनम् वाग्देवताध्यानम् द्वादशः पटलः - वाग्देवताध्यानम् पञ्चस्वरविधानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल वाग्देवताध्यानम् Translation - भाषांतर शत्रूणां हननं तदा कुलगतं सञ्चारवातं मुदारोगानां परिमर्दन प्रभुपदे भक्त्यर्थिनां ज्ञापनम् ।आहलादं ह्रदयाम्बुजेऽमृतधनं तीर्थागमं शोकहंसूक्ष्मार्थं गणयेत्ततः प्रचपला वाग्देवतादर्शनम् ॥४८॥आथर्वे पत्रमध्ये निवसति कमला कोमला वाद्यदात्रीआगन्तव्यादिवार्ता कथयति सहसा सर्वदा मङुलानि ।नित्यावश्यं प्रतापं प्रियगनहितां प्रेमभावाश्रयत्त्वंनित्यं कान्तामुखाम्भोरुहविमलमधुप्रेमपानाभिलाषम् ॥४९॥मेषे तृप्तिमुपैति सिंह इषुभिः कुम्भेन तेषाम फलंलाभं कुञ्चरघातकेषु रजतं चौर्यण यद्यद्गतम् ।एवं कास्यविहारणं शतपले सूर्योदयात्तिष्ठतिप्रातः कालफलाफलं कथयति श्रीकेशरीमध्यगः ॥५०॥पश्यादेकशतं पलेन्दुधनुषा व्याप्तं यदा भूतलेवित्तानां हरणं तदा जलगते मित्रस्य राज्यदिकम् ।दूरस्थादिकथागतादिसमयं शत्रोर्महापीडनं वाञ्छावर्गकुलोदय समुदयात् सूर्यस्य चागण्यते ॥५१॥शेषे चैकशते फले समुदिते कुम्भो महदुर्बली दारिद्रयस्त कथा कदा सुविषयं विद्यार्थभूषञ्च यम् ।लाभं देशविदेशकार्यगमनं शीघ्रं धनाद्यागमंदेवानां खलु दर्शनार्थकथनं व्यामोहसन्नाशनम् ॥५२॥वारे शुक्रे शनिगतदिन लवटाहौ च सूर्येनित्यं ज्ञानोदयनिजपथ आयुषां निर्णयं तत् ।अष्टौ वर्गानुदयति मुदा प्राप्य वीरो महत्त्वंलोको दोषं प्रथमखचरे चायुषां पृष्टमात्रम् ॥५३॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावप्रश्ननार्थबोधनिर्णये पाशवकल्पे आज्ञाचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे द्वादशः पटलः ॥१२॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP