संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वादशः पटलः| आज्ञाचक्रकथनम् द्वादशः पटलः भावप्रश्नार्थबोधकथनम् महासूक्ष्मफल-ज्ञापकचक्र प्रश्नफलबोधक चक्र आज्ञाचक्रकथनम् वाग्देवताध्यानम् द्वादशः पटलः - आज्ञाचक्रकथनम् पञ्चस्वरविधानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल आज्ञाचक्रकथनम् Translation - भाषांतर आज्ञाचक्रं फलं सिद्धं विद्यानाथ वदामि तत् ।येन विज्ञातमात्रेण सर्वज्ञो भवति ध्रुवम् ॥३५॥अकस्मात् शक्तिमाप्नोति विद्यारत्नं ददामि तत् ।रव्यादिसप्तवारञ्च कृते भद्रविवर्धनम् ॥३६॥शन्यादिसत्पवारं च त्रेतायां सौख्यवर्द्धनम् ।गुर्वादिसप्तवारञ्च द्वापरे धर्मसाधनम् ॥३७॥शुक्रादिवारसप्तञ्च कलौ युगफलप्रदम् ।अतः शुक्रादिपर्यन्तं गणयीयं विचक्षणैः ॥३८॥गणयेत् सप्तवारञ्च मध्ये चतुद्र्दले सुधीः ।पूर्वादिक्रमतो वारान् गणयेद् तन्त्रवित्तमः ॥३९॥ न्निजवारो यत्र पत्रे समाप्तिस्तूद्भवञ्च तत् ।तद्भराशिं समानीय वर्णभेदं समानयेत् ॥४०॥सामान्यफलमूलञ्च वदार्णादिपत्रभेदतः ।आज्ञाचक्रं शुभं मन्त्री आज्ञाचक्रं विचारयेत् ॥४१॥तत्फलाफलमाहात्म्य श्रृणु सङ्केपण्डित ॥४२॥आनन्दभैरव उवाचदले पूर्वभागे आकारार्थ इन्दुस्फुटे राज्यलाभं हकारान्तशब्दम् ।सामानार्थभावं विशिष्टार्थयोगं क्रतुक्षेमयुक्तं तथा पुत्रलाभम् ॥४३॥दयायुक्त भूषाश्र्यत्वं जयत्वं समाप्नोति मर्त्यो विवाहं सुवाहम् ।सुखं नाथ लोकानुरागं सुभोगं विभाधावकानां समाप्ते क्षणादिम् ॥४४॥पद्मे दक्षिणपत्रके प्रियपदा मोददह भास्वरंनानालक्षणदुःखदं शुचिपदा आन्दोलितस्तैरहम् ।माहेन्द्रामृत योगरगहननं साक्षाद्यमारोपणं चित्तानां परिचञ्चलं खलगुणाहलादेन सामोदितम् ॥४५॥पात्रार्थलाभं यदि वाध एव प्रगच्छति क्रूरखलप्रतापः ।तथापि हन्तुं न च वर्णमध्ये क्षमः स्वसिद्धं भजते क्षमादि ॥४६॥रसार्थप्रश्नं कुरुते यदि स्याद् वारो चारो गृहमध्यभागे ।स्वकीय इन्दुप्रियवद् धुवम् मनोगतं सौख्यविवर्धनञ्च ॥४७॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP