संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वादशः पटलः| महासूक्ष्मफल-ज्ञापकचक्र द्वादशः पटलः भावप्रश्नार्थबोधकथनम् महासूक्ष्मफल-ज्ञापकचक्र प्रश्नफलबोधक चक्र आज्ञाचक्रकथनम् वाग्देवताध्यानम् द्वादशः पटलः - महासूक्ष्मफल-ज्ञापकचक्र पञ्चस्वरविधानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल महासूक्ष्मफल-ज्ञापकचक्र Translation - भाषांतर वामावर्तेन गणयेत् दशकोणस्थवर्णकान् ।अनुलोम विलोमेन पञ्चस्वरादिनामतः ॥८॥यस्मिन्गृहे स्वीयनाम् प्रोप्नोति वेदपारगः ।तद्गृहावधि प्रश्नार्थं गणयेद् ग्रहसिद्धये ॥९॥नवग्रहनवस्थानं वर्णं ज्ञात्वा सुबुद्धिमान् ।बाल्यभावादिकं ज्ञात्वा यत्र ग्रहस्थितिर्भवेत् ॥१०॥तन्नक्षत्रं समानीय द्वाराधिकारमानयेत् ।विना त्रिकोणयोगेन् षट्कोणं लिखेद् बुधः ॥११॥तन्मध्ये अष्टकोणञ्च भित्वा देवगृहान्तरम् ।तन्मध्ये चापि षट्कोणं तन्मध्ये च त्रिकोणकम् ॥१२॥क्रमेण विलिखेद् वर्णं दक्षिणावर्त्तयोगतः ।ऊद्र्ध्ववामदेशभागे अ आ इ च कवर्गकम् ॥१३॥तद्दक्षिणे ई इ युगं टवर्गञ्च लिखेद् बुधः ।दक्षपार्श्व अधोभागे ऋयुगं तु तवर्गकम् ॥१४॥तदधो लृ लृ ए ऐ रुपञ्च पवर्गञ्च लिखेद् बुधः ।तद्वामपार्श्वभागे च ओ औ यरलवान् लिखेत् ॥१५॥शेषगेहे लिखेदं अः शादिक्षान्तं हि शड्गृहे ।मध्यस्तमादिकोणे च एकाङ्क शार्वकं तनुम् ॥१६॥रुद्राग्निमूर्तिमनिलं अग्निकोणे लिखेद् बुधः ।यजमानः पशुपतिमूर्तिषष्ठञ्च दक्षिणे ॥१७॥महादेवं सोममूर्तिं सप्तमं नैऋते लिखेत् ।जलमूर्तिभवं युग्मं पश्च्मिमे विलिखेद् बुधः ॥१८॥उग्रवीरं वायुमूर्तिं वायुकोणे चतुर्थकम् ।भीमरुपाकाशमूर्तिं पञ्चमं चोत्तरे लिखेत् ॥१९॥ईशानं सूर्यमूर्तिञ्च ईशाने षड्दलं लिखेत् ।अधःषट्कोणमध्ये च षट्कोणं विलिखेत्ततः ॥२०॥ऊद्र्ध्वकोणे ग्रीष्मकालं शिशिरञ्चापि दक्षिणे ।वर्षाकालमधस्तस्य सर्वाधश्च वसन्तकम् ॥२१॥शरत्कालं पञ्चकोशे शीतकालञ्च षष्ठ्के ।त्रिकोणे चापि तन्मध्ये वहिनरुपं वकरकम् ॥२२॥लिखित्वा गणयेन्मन्त्री वर्णदेवाङ्कवहिनभिः ।एतच्चक्रं महासूक्ष्मं फलचक्रं विशारदम् ॥२३॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP