संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वादशः पटलः| प्रश्नफलबोधक चक्र द्वादशः पटलः भावप्रश्नार्थबोधकथनम् महासूक्ष्मफल-ज्ञापकचक्र प्रश्नफलबोधक चक्र आज्ञाचक्रकथनम् वाग्देवताध्यानम् द्वादशः पटलः - प्रश्नफलबोधक चक्र पञ्चस्वरविधानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल प्रश्नफलबोधक चक्र Translation - भाषांतर अधुना कुलनाथेश पृष्ठचक्रं पुनः श्रृणु ।विना ज्ञानेन यस्यैवं पृष्ठभावो न जायते ॥२४॥यदि पृष्ठचक्रभावं जानाति साधकोत्तमः ।तदा निजफलं ज्ञात्वा सिद्धिमाप्नोति निश्चितम् ॥२५॥आनन्दभैरव उवाचषट्कोणं कारयेनमन्त्री विना त्रिकोणसाधनैः ।तन्मध्ये च चतुष्कोणं तन्मध्ये शादिवर्णकान् ॥२६॥लिखित्वा विलिखेत्तत्र षडङ्कमध्यदेशतः ।षडङ्कं दापयेन्मन्त्री दीर्घदीर्घक्रमेण तु ॥२७॥तदग्रे षड्गृहं कुर्यात्तत्राङ्कार्णान् लिखेत्सुधीः ।ऊद्र्ध्वप्रथमगेहे च कवर्गं विलिखेद् बुधः ॥२८॥तद्दक्षिणे मन्दिरे च चवर्गं विलिखेद् बुधः ।टवर्गं दक्षिण चाधः सर्वाधस्तु तवर्गकम् ॥२९॥तद्वामे मन्दिरे नाथ पवर्ग वर्णमङुलम् ।तदूर्ध्वे यादिवान्तं च दक्षिणावर्त्तयोगतः ॥३०॥अकारादिस्वरान् तत्र मन्दिरे विलिखेद् बुधः ।यावत् स्वस्थितिर्याति तावत्कालं विचारयेत् ॥३१॥मेषादिराशिसद्भावं वर्गलेखनमानतः ।अनुलोमविलोमेन विलिखेत् षष्ठमन्दिरे ॥३२॥यद्यद्गृहे साध्यनाम चास्ति नाथ स्वरादिकम् ।एकत्रीकृत्य हरणात यदङ्क प्राप्यते वरम् ॥३३॥षडङ्केन ततो नाथ हरेदनलसंख्यया ।यदङ्क प्राप्यते तत्र स राशिस्तत् क्षणस्य च ॥३४॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP