संस्कृत सूची|संस्कृत साहित्य|गीता|श्री गणेश गीता| अथ एकादशोऽध्यायः श्री गणेश गीता अथ प्रथमोऽध्यायः अथ द्वितीयोध्यायः अथ तृतीयोऽध्यायः अथ चतुर्थोऽध्यायः अथ पञ्चमोऽध्यायः अथ षष्ठोऽध्यायः अथ सप्तमोऽध्यायः अथ अष्टमोऽध्यायः अथ नवमोऽध्यायः अथ दशमोऽध्यायः अथ एकादशोऽध्यायः श्री गणेश गीता - अथ एकादशोऽध्यायः श्रीमद्गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते. Tags : ganeshagitaगणेशगीता अथ एकादशोऽध्यायः Translation - भाषांतर यथा भक्तेः सात्त्विकराजसतामसभेदेन त्रैविध्य्मुक्तमेवं तपाआदीनामपि त्रैविध्यमाह सात्त्विकानामुपादेयत्वं राजसतामसानां हेयत्वं च दर्शयन्गजानन उवाच-तपोऽपि त्रिविधं राजन्कायिकादिप्रभेदतः ।ऋतुजार्जवशौचा(नि)श्व ब्रह्मचर्यमहिंसनम् ॥१॥गुरुविज्ञाद्विजातीनां पूजनं चासुरद्विषाम् ।स्वधर्मपालनं नित्यं कायिकं तप ईद्दशम् ॥२॥वाचिकं सात्त्विकं तप आह-मर्मास्पृक्च प्रियं वाक्यमनुद्वेगि हितमृतम् ।अधीतिर्वेदशास्त्राणां वाचिकं तप ईद्दसम् ॥३॥मानसिंक सात्त्विकं तप आह-अन्तःप्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः ।निर्मलाशयता नित्यं मानसं तप ईद्दशम् ॥४॥त्रिभिस्त्रिभिः पादैर्द्वाभ्यां च सात्विकराज सतामसानि तपांसि स्वरुपतः फलतश्व विभजते-अकामतः श्रद्धया च यत्तपः सात्त्विंक तु तत् ।ऋद्ध्यै सत्कारपूजाभ्यां सदम्भ्यं राजसं तपः ॥५॥तदस्थिरं जन्ममृती प्रयच्छति न संशयः ।परात्मपीडकं यच्च तपस्तामसमुच्यते ॥६॥गुणमेदेन दानत्रैविघ्यमाह-विधिवाक्यप्रमाणार्थ सत्पात्रे देशकालतः ।श्रद्धया दीयमानं यद्दांन तत्सात्त्विकं मतम् ॥७॥राजसं दानमाह-उपकारं फलं वाऽपि काङ्क्षद्धिर्दीयते नरैः ।क्लेशतो दीयमानं वाऽभक्त्या राजसमुच्यते ॥८॥तामसं दानमाह-अकालदेशतोऽपात्रेऽवज्ञया दीयते तु यत् ।असत्काराच्च यद्दत्तं तद्दानं तामसं स्मृतम् ॥९॥ज्ञानकर्मकर्तृणां प्रत्येक त्रैविध्यं वक्तुं प्रतिजानीते-ज्ञानं च त्रिविधं राजञ्शृणुष्वं स्थिरचेतसा ।त्रिधा कर्म च कर्तारं ब्रवीमि ते प्रसङतः ॥१०॥सात्त्विकज्ञानमाह-नानाविधेषु भूतेषु मामेकं वीक्षते तु यः ।नाशवत्सु च नित्यं मां तज्ज्ञानं सात्त्विकं नृप ॥११॥राजसं ज्ञानमाह-तेषु वेत्ति पृर्थग्भूतं विविधं भावमाश्रितः ।मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितम् ॥१२॥तामसं ज्ञानमाह-हेतुहीनमसत्यं च देहात्मविषयं च यत् ।असदर्थाल्पविषयं तामसं ज्ञानमुच्यते ॥१३॥कर्मत्रैविध्यं प्रतिज्ञाय सात्त्विकमाह सार्धेन-भेदतास्त्रिविधं कर्म विद्धि राजन्मयेरितम् ।कृतं विना फलेच्छा यत्कर्म सात्त्विकमुच्यते ॥१४॥राजसं कर्माऽऽह-यद्धहुअक्लेशतः कर्म कृतं यच्च फलेच्छया।क्रियमाणं नृभिर्दम्भात्कर्म राजसमुच्यते ॥१५॥तामसमाह-अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत् ।अज्ञानात्क्रियमाणं यत्कर्म तामसमीरितम् ॥१६॥कर्तारं त्रिविधं विद्धि कथ्यमानं मया नृप ।धैर्योत्साही समोऽसिद्धौ चाविक्रियस्तु यः ॥अहंकारविमुक्तो यः स कर्ता सात्त्विको नृप ॥१८॥राजसं कर्तारमाह-कुर्वन्हर्षं च शोकं च हिंसां फलस्पृहां च यः ।अशुचिर्लुब्धको यस्तु राजसोऽसौ निगद्यते ॥१९॥तामसं कर्तारमाह-प्रमादाज्ज्ञानसहितः परोच्छेदपरः शठः ।अलसस्तर्कवान्यस्तु कर्ताऽसौ तामसो मतः ॥२०॥तन्त्रेणैव सात्त्विकराजसतामसानां सुखानां दुःखानां च विभागं वक्तुं प्रतिजानीते-सुखं च त्रिविधं राजन्दुःखं च क्रमतः शृणु ।सात्त्विकं राजसं चैव तामसं च मयोच्यते ॥२१॥स्पष्टार्थः श्लोकः-सात्त्विके सुखदुःखे विभजते सार्धेन-विषवद्धासते पूर्वं दुःखस्यान्तकरं च यत ।इच्छय (ष्य) मानं(णं) तथा वृत्त्या यदन्तेऽमृतवद्धवेत् ॥२२॥राजसं सुखं विभजते-विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा ।हालाहलमिवान्ते यद्राजसं सुखमीद्दशम् ॥२४॥तामसं सुखं विभजते-तन्द्रीप्रमादसंभूतमालस्यप्रभवं च यत् ।सर्वदा मोहकं स्वस्य सुखं तामसमीद्दशम् ॥२५॥न तदस्ति यदेतैर्यन्मुक्तं स्यात्रिविधैर्गुणैः ॥२६॥कथं तर्हि गुणेभ्यो मुच्यत इत्यपेक्षायां स्वधर्माचरणादेव मुच्यत इति विवक्षुः स्वधर्माचरणानिबन्धकं चिदुपासनप्रकारं तावद्धिधत्ते-राजन्ब्रह्यापि त्रिविधमोंतत्सदितिभेदतः ।त्रिलोकेषु त्रिधा भूतमखिलं भूप वर्तते ॥२७॥एवं विदुषां सात्त्विकानां मोक्षोपायभूतानि कर्मश्रितानि कानिचिद्धिशेषणान्युक्त्वा चतुर्णां वर्णानामावश्यककर्मविभागं वक्तुं प्रतिजानीते-ब्रह्मक्षत्रियविट्शूद्राः स्वभावाद्धिन्नकर्मिणः ।तानि तेषां तु कर्माणि संक्षेपात्तेऽधुना वदे ॥२८॥अथ ब्राह्मणानां स्वाभाविकनि कर्माण्याह-श्लोकद्धयेन-अन्तर्बाह्येन्द्रियाणां च वश्यत्वमृजुता क्षमा ।नानातपांसि शौचं च द्बिविधं ज्ञाजमात्मनः ॥२९॥वेदशास्त्रपुराणानां स्मृतीनां ज्ञानमेव च ।अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाह्रतम् ॥३०॥अथ क्षत्रजातेरुचितं स्वभावजं कर्माऽऽह-दार्ध्य शौर्यं च दाक्ष्यं च युद्धे पृष्ठाप्रदर्शनम् ।शरण्यपालनं दानं धृतिस्तेजः स्वभावजम् ॥३१॥प्रभुता मनऔन्नत्यं सुनीतिर्लोकपालनम् ।पञ्चकर्माधिकारित्वं क्षात्रं कर्म समीरितम् ॥३२॥वैश्यकर्म विभजते-नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् ।त्रिधा कर्माधिकारित्वं वैश्यानां कर्म ईद्दशम् ॥३३॥शूद्रकर्माणि विभजते-दानं व्दिजानां शुश्रुषा सर्वदा शिवसेवनम् ।एताद्दशं नरव्याघ्र कर्म शौद्रमुदीरितम् ॥३३॥चातुर्वर्ण्यकर्मविभागफलमुपसंहरति-स्वस्वकर्मरता एते मय्यर्प्याखिलकारिणः ।मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप ॥३४॥उपपादितं शास्त्रमुपसंहरति-इति ते कथितो राजन्प्रसादाद्योग उत्तमः ।साङोपाङः सविस्तारोऽनादिसिद्धो मया प्रिय ॥३५॥एतस्य गोपने परा सिद्धिरस्तीत्याह-इत्थं योगं मयाऽऽख्यातं नाऽऽख्यातं कस्य चिन्नृप ।गोपायैनं ततः सिद्धिं परां यास्यस्यनुत्तमाम् ॥३६॥तमिमं गजाननवरेण्यसंवादमुपसंहरन्व्यास उवाच-इति तस्य वचः श्रुत्वा प्रसन्नस्य महात्मनः ।गणेशस्य वरेण्यः स चकार च यथोदितम् ॥३७॥एतदेव स्पष्टयति-त्यक्त्वा राज्यं कुटुम्बं च कान्तारं प्रययौ रयात् ।उपादिष्टं यथायोगमास्थाय मुक्तिमाप्नुयात् ॥३८॥एतच्छास्त्रश्रवणफलमाह-इमं गोप्यतमं योगं श्रृणोति श्रद्ध्या तु यः ।सोऽपि कैवल्यमाप्नोति यथा योगी तथैव सः ॥३९॥अस्य ग्रन्थस्य श्रावयितुर्व्याख्यातुश्व फलमाह-य इमं श्रावयेद्योगं कृत्वाऽस्यार्थं सुबुद्धिमान् । न्यथा योगी तथा सोऽपि परं निर्वाणमृच्छति ॥४०॥द्विविधस्यापि पाठिनः समं फलं विवक्षुराह-यो गीतां सम्यगभस्य ज्ञात्वा चार्थं गुरोर्मुखात् ।कृत्वा पूजां गणेशस्य प्रत्यहं पठते तु यः ॥४१॥अनयोर्ध्दयोरपि फलं स्तौति प्रवृत्त्यतिशयार्थं पञ्चभिः-एककालं द्बिकालं वा त्रिकालं वाऽपि यः पठेत् ।ब्रह्मीभूतस्य तस्यापि दर्शनान्मुच्यते नरः ॥४२॥न यज्ञैर्न व्रतैर्दानैनीग्नित्रैर्महाधनैः ।न वेदैः सम्यगभ्यस्तैः सम्यग्ज्ञातैः सहाङकैः ॥४३॥पुराणश्रवणैर्नव न शास्त्रैः साधुचिन्तितैः ।प्राप्यते ब्रह्म परममनया प्राप्यते नरैः ॥४४॥ब्रह्मघ्नो मद्यपः स्तेनो गुरुल्पगमोऽपि यः । चतुर्णां यस्तु संसर्गी महापातककारिणाम् ॥४५॥स्त्रीहिंसागोवधादीनां कर्तारो ये च पापिनः ।ते सर्वे प्रतिमुच्यन्ते गीतामेतां पठन्ति चेत् ॥४६॥नित्यपाठफलं चतुर्थीपाठफलं चाऽऽह-यः पठेत्प्रयतो नित्यं स गणेशो न संशयः ।चतुर्थ्या यः पठेद्धक्त्या सोऽपि मोक्षाय कल्पते ॥४७॥पक्षद्धयेऽप्यशक्तस्य पक्षान्तरमाह-ततः क्षेत्रं समासाद्य स्त्रात्वाऽभ्यर्च्य गजानन ।सकृद्गीतां पठन्भक्त्या ब्रह्मभूयाय जायते ॥४८॥क्षेत्रस्याप्यलाभ उपायान्तरमाह चतुर्भिः-भाद्रे मासि सिते पक्षे चतुर्थ्यां भक्तिमान्नरः ।कृत्वा महीमयीं मूर्तीं गणेशस्य चतुर्भुजाम् ॥४९॥सवाहनां सायुधं च समभर्च्य यथाविधि ।यः पठेत्सप्तकृत्वस्तु गीतामेतां प्रयत्नतः ॥५०॥ददाति तस्य तुष्टोऽसौ गणेशो भोगमुत्तमम् । पुत्रान्पौत्रान्धनं धान्यं पशुरत्नदिसंपदः ॥५१॥विद्यार्थिनो भवेद्वेद्या सुखार्थी सुखमाप्नुयात् । कामनन्यल्लँभेत्कामी मुक्तिमन्ते प्रयान्ति ते ॥५२॥ॐ तत्सदिति श्रीमध्दणेशगीतासूपनिषदर्थर्भासु योगामृतार्थशास्त्रे श्रीमदादिगणेशपुराणे श्रीगजाननवरेण्येसंवादे गुणत्रयविकृतियोगो नामेकादशोऽध्यायः ॥११॥श्रीचातुधर्रभणितौ गणेशगीताटीकायां गणपतिभावदीपिकायाम् । गम्भीरप्रतसदर्थदर्शिकायामध्यायो दशमपरोऽन्तिमः स्फुटोऽभूत ॥११॥गगनशरगिरिन्दौ १७५० विक्रमार्कस्य शाके पुरहरपुरि काश्यां भाद्रशुल्के चतुर्थ्याम् ॥ सुरगुरुदिवसेऽभूत्पूर्ण एष प्रबन्धो गणपतिपदपद्मे चार्पितोऽतीव भक्त्या ॥१॥इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायां गणपतिभावदीपिकायां गुणत्रयविकृतियोगो नामैकादशोऽध्यायः ॥११॥समाप्तेयं सटीका गणेशगीता ॥ N/A References : N/A Last Updated : February 13, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP