संस्कृत सूची|संस्कृत साहित्य|गीता|श्री गणेश गीता| अथ अष्टमोऽध्यायः श्री गणेश गीता अथ प्रथमोऽध्यायः अथ द्वितीयोध्यायः अथ तृतीयोऽध्यायः अथ चतुर्थोऽध्यायः अथ पञ्चमोऽध्यायः अथ षष्ठोऽध्यायः अथ सप्तमोऽध्यायः अथ अष्टमोऽध्यायः अथ नवमोऽध्यायः अथ दशमोऽध्यायः अथ एकादशोऽध्यायः श्री गणेश गीता - अथ अष्टमोऽध्यायः श्रीमद्गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते. Tags : ganeshagitaगणेशगीता अथ अष्टमोऽध्यायः Translation - भाषांतर पूर्वस्मिन्नध्याये भावनाव्यदेशेन यज्ञोऽहमित्यादिना काश्र्विद्विभूतयस्त्वया मुखत एवोक्ता यद्यच्छ्रेष्ठतममित्यन्ते विभूतीनां लक्षणं चोक्तम् । नारदमुखाच्च काश्र्विद्विभूतयः श्रुताः । अन्तस्तु तासां नास्त्येवातो विश्र्वरुपमेव त्वदीयं द्रष्टुअमिच्छामि यस्मिन्द्दष्टे कार्त्स्न्येन ताः सम्यग्विदिता भवन्तीत्यभिप्रायवान्वरेण्य उवाच-भगवन्नरदो मह्मं तव नानाविभूतयः ।उक्तवांस्ता अहं वेद न सर्वाः सोऽपि वेत्ति ताः ॥१॥एवं तर्हि मयाऽपि वक्तुमशक्या इत्यत आह-त्वमेव तत्त्वतः सर्वा वेत्सि ता द्बिरदानन ।निजं रुपमिदानीं मे व्यापकं चारु दर्शय ॥२॥तमिष्टार्थसमर्पणेनानुगृह्रन्गजानन उवाच-एकस्मिन्मयि पश्य त्वं विश्र्वमेतच्चराचरम् ।नानाश्र्वर्याणि दिव्यानि पुरा द्दष्टानि केनचित् ॥३॥बाह्येन चक्षुषा यद्दृष्टं तदल्पमेव रुपं न तु कृत्सुमतस्ते तुभ्यं ज्ञानचक्षुः सृजामि ददामीत्याह-ज्ञानचक्षुरहं तेऽद्य सृजामि स्वप्रभावतः ।चर्मचक्षुः कथं पश्येन्मां विभुसजमव्यम ॥४॥तमिमं वरेण्यगणेशसंवादं सूताग्रे कथयन्व्यास उवाच-ततो राजा वरेण्यः स दिव्यचक्षुरवैक्षत ।ईशितुः परमं रुपं गजास्यस्य महाद्धुतम् ॥५॥अद्धुतत्वमेव वर्णयति सार्धाभ्याम्-असंख्यवक्त्रललितमसंख्याङघ्रिकरं महत् ।अनुलिप्तं सुगन्धेन दिव्यभूषाम्बरस्त्रजम् ॥६॥असंख्यनयनं कोटिसूर्यरश्मि धृतायुधम् ।तद्वर्ष्मणि त्रयो लोका द्दष्टास्तेन पृथग्विधाः ॥७॥द्दष्टैश्वरं परं रुपं प्रणम्य स नृपोऽब्रवीत् ॥ललितं मनोहरं, ये हि सर्वेषां जन्तूनामवयवास्त एव सर्वात्मनो गणेशस्यावयवाः । अतस्तस्यासंख्यवक्त्रत्वादिकमुपन्नं मनोहरत्वमनुलिप्रमित्यादिना दर्शितं, कोट्यः सूर्या रश्मिरेकोंऽशो यस्य तत्कोटिसूर्यरस्मि । असंखैर्हस्तैर्धृतानि, आयुधानि धनुर्बाणादीनि येन तत् । तद्वर्ष्मणि तस्य शरीरे, एवमब्रवीदित्यन्तः स्पष्टार्थः ॥व्यास एव वरेण्यवाक्यमवतारयति वरेण्यउवाच-वीक्षेऽहं तव देहेऽस्मिन्देवानृषिगणान्पितृन् ॥८॥पातालानां समद्राणां द्बीपानां चैव भृभृताम् ।महर्षीणां सप्तकं च नानार्थैः संकुलं विभो ॥९॥भुवाऽन्तरिक्षं स्वर्गांश्र्व मनुष्योरगराक्षसान् ।ब्रह्माविष्णुमहेशेन्द्रान्देवाञ्जन्तूननेकधा ॥१०॥अनाद्यनन्तं लोकादिमनन्तभुशीर्षकम् ।प्रदीप्तानलसंकाशमप्रमेयं पुरातनम् ॥११॥किरीटकुण्डलधरं दुर्निरीक्ष्यं मुदावहम् ।एताद्दशं निरिक्षे त्वां विशालवक्षसं प्रभुम् ॥१२॥सुरविद्याधरैर्यक्षेः किन्नरैर्मुनिमानुषैः ।नृत्यद्धिरप्सरोभिश्व गन्धर्वैर्मुर्गानतत्परैः ॥१३॥वसुरुद्रादित्यगणैः सिद्धैः साध्यैर्मुअदायुतैः ।सेव्यमानं महाभव्त्या वीक्ष्यमाणं सुविस्मितैः ॥१४॥वेत्तारमक्षरं वेद्यं धर्मगोप्तारमीश्वरम् ।पातालानि दिशः स्वर्गान्भुवं व्याप्याखिलं स्थितम् ॥१५॥भीता लोकास्तथा चाहमेवं त्वां वीक्ष्य रुपिणम् ।नानादंष्ट्राकरालं च नानाविद्याविशारदम् ॥१६॥प्रलयानदीप्तास्यं जटिलं च नभःस्पृशम् ।द्दष्टा गणेश ते रुपमंह वान्त इवाभवम् ॥१७॥ननु परमानन्दरुपिणो मम कथं भयहेतुत्वमित्याशङ्रक्य द्वितीयाद्वै भयं भवति (बृ० १।४।२) इति श्रुतेः सदर्पभयहेतु द्वैतं सर्वं त्वदुदरे एव तिष्ठति । तेषु नागाद्याः खलाः परपीडकाः स्वकर्मजं दुःखं त्वत्त एव लभन्ते त्वय्येव लयं यान्तीत्याह-देवा मनुष्याना गाद्याः खलास्त्वदुदरेशयाः ।नानायोनिभुजश्वान्ते त्वय्येव प्रविशन्ति च ॥१८॥त्वय्येव प्रविशन्ति चेत्यत्र द्दष्टान्तमाह-अब्धेरुत्पद्यमानास्ते यथा जीमूतबिन्दवः ॥१९॥न केवलं भूमत्वं त्वत्त उद्धूतामिदं त्वय्येव लयं यात्यापि तु स्वि (स्थि) तिकोलेऽपि त्वमेवेदं सर्वमित्याह-त्वमिन्द्रोऽग्निर्यमश्वैव निऋतिर्वरुणो मरुत् ।गह्यकेशस्तथेशानः सोमः सूर्योऽखिलं जगत् ॥२०॥यद्येवं जानासि तर्हि कृतकृत्योऽसीत्यत आह-नमामि त्वामतः स्वामिन्प्रसादं कुरु मेऽधुना ।दर्शयस्व निजं रुपं सौम्यं यस्पूर्वमीक्षितम् ॥२१॥दुरन्तं त एव माहात्म्यमित्याशयेननाऽऽह-को वेद लिलास्ते भूमन्क्रिमाणा निजेच्छया ।अनुग्रहान्मया द्दषमैश्वरं रुपमीद्दशम् ॥२२॥एवं प्रार्थितो वरेण्यमनुगुह्यन्गजानन उवाच-नेदं रुपं महाबाहो मम पश्यन्ति योगिनः ।सनकाद्या नारदाद्याः पश्यन्ति मदनुग्रहात् ॥२३॥ईद्दशं मद्रुपदर्शनमत्यन्तदुर्लभमित्याह-चतुर्वेदार्थतत्त्वज्ञाश्वतुः शास्त्रविशारदाः ।यज्ञदानतपोनिष्ठा न मे रुपं विदन्ति ते ॥२४॥भक्तिमतां सद्धाववतां चाहं वीक्षितुं प्रष्टु शक्यो वीक्षितश्व ज्ञातुं शक्यो ज्ञातश्व प्रवेष्टुं शक्यो यस्मादेवं तस्मात्त्व यद्ध्येयं रुपं तदेव पश्येत्याह-शक्योऽहं वीक्षितुं ज्ञातुं प्रवेष्टुं भक्तिभावतः ।त्यज भीति च मोहं च पश्य मां सौम्यरुपपिणम् ॥२५॥अध्यायार्थमुपसंहरति-मद्धक्तो मत्परः सर्वसङहीनो मदर्थकृत् ।निष्क्रोधः सर्वभूतेषु समो मामेति भूभुज ॥२६॥ॐ तत्सेदिति श्रीमद्धणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादिगणेशपुराणे श्रीगजाननवरेण्यसंवादे विश्वरुपवीक्षणयोगो नामाष्टमोऽध्यायः ॥८॥श्रीचातुर्धरभणितौ गणेशगीताताटीकायां गणपतिभावदीपिकायाम् । मध्यायः स्फुटह्रदयोऽष्टमो बभूव ।इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुअर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायां गणपतिभावदीपिकायां विश्वरुपवीक्षणयोगो नामाष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : February 13, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP