संस्कृत सूची|संस्कृत साहित्य|गीता|श्री गणेश गीता| अथ चतुर्थोऽध्यायः श्री गणेश गीता अथ प्रथमोऽध्यायः अथ द्वितीयोध्यायः अथ तृतीयोऽध्यायः अथ चतुर्थोऽध्यायः अथ पञ्चमोऽध्यायः अथ षष्ठोऽध्यायः अथ सप्तमोऽध्यायः अथ अष्टमोऽध्यायः अथ नवमोऽध्यायः अथ दशमोऽध्यायः अथ एकादशोऽध्यायः श्री गणेश गीता - अथ चतुर्थोऽध्यायः श्रीमद्गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते. Tags : ganeshagitaगणेशगीता अथ चतुर्थोऽध्यायः Translation - भाषांतर संन्यस्तिश्र्वैव योगश्र्व कर्मणां वर्ण्यते त्वया ।उभयोर्निश्वितं त्वेकं श्रेयो यद्वद मे प्रभो ॥१॥अस्योत्तरं गजानन उवाचक्रियायोगो वियोगश्र्व उभौ मोक्षस्य साधने ।तयोर्मध्ये क्रियायोगस्त्यागात्तस्य विशिष्यते ॥२॥कीद्दशः कर्मयोगस्त्यागाद्धिशिष्ट इत्यत आह-द्वंद्वदुःखसहो द्वेष्टा यो न काङक्षति किंचन ।मुच्यते बन्धनात्सधो नित्यं संन्यासवान्सुखम् ॥३॥वदन्ति भिन्नफलकौ कर्मणस्त्यागसंग्रहौ ।मूढाल्पज्ञास्तयोरेकं संयुञ्जीत विचक्षणः ॥४॥कर्मयोगयोरन्यतरत्सम्यगनुष्ठेमित्यभिसंधाय कर्मणि योगान्तर्भाव उक्तः । इदानी योगे कर्मान्तर्भावं विक्क्षुस्तयोः फलतो भेदो नास्तीत्याह-यदेव प्राप्यते त्यागात्तदेव योगतः फलम्।संग्रहं कर्मणोर्योगं यो विन्दति स विन्दति ॥५॥वैरागरहित केवलं कर्मणी न्यासं विनिन्दतिकेवलं कर्मणां न्यासं संन्यासं न विदुर्बुधाः ।कुर्वन्ननिच्छया कर्म योगी ब्रह्मैव जायते ॥६॥अत एव क्रममाह-निर्मलो यतचित्तात्मा जितखो योगतत्परः ।आत्मानं सर्वभूतस्थं पश्यन्कुर्वन्न लिप्यते ॥७॥न केवलमपरोक्षीकृतात्मयार्थाम्य एव कर्मभिर्न निबध्यत इति । अपि तु परिक्षज्ञानवानपि सङफलत्यागात्कर्मफलैर्न लिप्यत इति प्रागुक्तमेव स्मारयति-तत्त्वविद्योगयुक्तात्मा करोमीति न मन्यते ।एकादशानीन्द्रियाणि कुर्वन्ति कर्मसंख्यया ॥८॥एवदेव स्पष्टयति-तत्सर्वमर्ययेद्धह्नण्यपि कर्म करोति यः ।न लिप्यते पुण्यपापैर्भानोर्भानुर्यथाऽर्थगः ॥९॥फलितमाह-कायिकं वाचिक्तं बौद्धमैन्द्रियं मानसं तथा ।त्यक्त्वाऽशां कर्म कुर्वन्ति योगज्ञाश्र्वित्तशुद्धये ॥१०॥विपक्ष बाधककामयोगहीनो नरः कर्म फलेहया करोत्यलम्।बध्यते कर्मबीजैः स ततो दुःखं समश्रुते ॥११॥कर्थ तर्हि तदुच्छेदोऽत आह-मनसा सकलं कर्म त्यक्त्वा योगी सुखं वसेत।न कुर्वन्कारयन्वाऽपि नन्दञ्श्र्वभ्रे सुपत्तने ॥१२॥ननुं यद्यात्मा निर्विकल्पस्तर्हि प्रमातृत्वादिर्विकल्पः कुत उत्तिष्ठती त्याशङ्रक्याऽऽह-न क्रिया न च कर्तृत्वं कस्यचित्सृज्यते मया ।न क्रियाबीजसंपर्कः शक्त्या तत्क्रियतेऽखिलम् ॥१३॥अतोऽकर्तृत्वादिसंघाताद्धिविकः सर्वप्राणिनां प्रत्यगात्माऽहं संघातकृतानि पुण्यपापानि न स्पृशामीत्याह-कस्य्चित्पुण्यपापानि न स्पृशामि विभुर्नृप ।ज्ञानमूढा विमुह्यान्ति मोहेनाऽऽवृतबुद्धयः ॥१४॥ज्ञानेनाज्ञाननाशे तु न मुह्यन्तीत्याह-विवेकेनाऽऽत्मनोऽज्ञानं येषां नाशितमात्मना ।तेषां विकाशमायाति ज्ञानमादित्यवत्परम् ॥१५॥अस्यैव विज्ञानस्य फलमाह-मन्निष्ठा मद्धियोऽत्यन्तं मच्चिता मयि तत्पराः ।अपुनर्भवमायान्ति विज्ञानान्नाशितेनसः ॥१६॥विज्ञानस्यापि फलं सर्वेषु भूतेषु समत्वदर्शनमित्याह-ज्ञानविज्ञानसंपन्ने द्विजे गवि गजादिषु ।समेक्षणा महात्मानः पण्डिताः श्र्वपचे शुनि ॥१७॥ईद्दशं समदर्शनं दाम्भिकस्यापि संभवतीति तद्मावृत्त्यर्थं ज्ञानस्य द्दष्टं फलमाह-वश्यः स्वर्गो जगत्तेषां जीवन्मुक्ताः समेक्षणाः ।यतोऽदोषं ब्रह्म समं तस्मातैर्विषयीकृतम् ॥१८॥स्वसंवेद्यमपि ज्ञानफलमाह-प्रियप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न ।ब्रह्माश्रिता असंमूढा ब्रह्मज्ञाः समबुद्धयः ॥१९॥ज्ञानस्यापि फलं सर्वज्ञत्वादधिकमुक्तम् ।एवं योगस्यापि तदेव फलमुक्तं तदनयोर्मार्गयोः कतरः श्रेयानित्याशयवान्वरेण्य उवाचकिं सुखं त्रिषु लोकेषु देवगन्धर्वयोनिषु ।भगवन्कृपया तन्मे वद विद्याविशारद ॥२०॥उक्तविधे मार्गे समनस्कानामिन्द्रियाणामैकाग्र्यमत्यन्तं दुष्करमिति वरेण्यनृपस्यानधिकारं मत्वा योगमार्गमेवोपदिदिक्षुर्गजानन उवाच-आनन्दमश्र्नुतेऽसक्तः स्वात्मारामो निजात्मनि ।अविनाश्यं सुखं तद्धि न सुखं विषयादिषु ॥२१॥न सुख विषयदिष्वेतदेव विवृणोति-विषयोत्थानि सौख्याने दुःखानां तानि हेतवः ।उत्पत्तिनाशयुक्तानि तत्राऽऽसक्तो न तत्त्ववित् ॥२२॥एवमभ्यासे रत्युत्पादनार्था ज्ञानप्रशंसा, तीव्रवैराग्योत्पादनार्था विषयभोगनिन्दा च कृता, इदानीं कामक्रोधयोरेव जयोऽवश्यं कार्य इत्याह-कारणे सति कामस्य क्रोधस्य सहते च यः ।तौ जेतुं वर्ष्मविरहात्स सुखं चिरमश्नुते ॥२३॥जितकानक्रोधः किमान्पुयादित्यत आह-अन्तर्निष्ठोऽन्तःप्रकाशोऽन्तःसुखोऽन्तारतिर्लभेत्॥असंदिग्धोऽक्षयं ब्रह्म सर्वभूतहितार्थकृत् ॥२४॥न केवलेन संन्यासेनेतद्धवतीत्याह-जेतारः षडरीणां ये शामिनो दमिनस्तथा ।तेषां समन्ततो ब्रह्म स्वात्मज्ञानां विभात्यहो ॥२५॥अथ चित्तनिग्रहासमर्थस्य हठयोगमाहाऽऽसनेष्वित्यादिनाऽध्यायशेषेण-आसनेषु समासीनस्त्यक्त्वेमान्विषयान्बहिः ।संस्तभ्य भृकुटीमास्ते प्राणायामपरायणः ॥२६॥प्राणायामलक्षणमाह-प्राणायामं तु संरोधं प्राणापानसमुद्धवम् ।वदन्ति मुनयस्तं च त्रिधाभूतं विपश्र्वितः ॥२७॥तदेवाऽऽह द्धाभ्याम्-प्रमाणभेदतो विद्धि लघुं मध्यममुत्तमम् ।दर्शमिर्घधिकैर्वर्णैः प्राणायामो लघुः स्मृतः ॥२८॥चतुर्विंशत्यक्षरो यो मध्यमः समुदाह्रतः ॥षट्त्रिंशल्लघुवर्णो य उत्तमः सोऽभिधीयते ॥२९॥अनेन क्रमेण प्राणामानौ वशे कर्तव्याविति सद्दष्टान्तमाह-सिंह शार्दूलकं वाऽपि मत्तेभं मृदुतां यथा ।नयन्ति प्राणिनस्तव्दत्प्राणापानौ सुसाधयेत् ॥३०॥प्राणजये गुणानाह-पीडयन्ति मृगांस्ते न लोकान्वश्यंगतान्नृप ।दहत्येनस्तथा वायुः संस्तब्धा न च तत्तनुम् ॥३१॥एवं प्राणायामस्यावान्तरफमुक्त्वा सद्दष्टान्तं तद्वृद्धि विधत्ते-यथा यथा नरः कश्र्वित्सोपानावलिमाक्रमेत्।तथा तथा वशी कुर्यात्प्राणापानौ हि योगवित् ॥३२॥अस्यैव विशेषं तत्फलं चाऽऽह-पूरकं कुम्भकं चैव रेचकं च ततोऽभ्यसेत्।अतीतानागज्ञानी ततः स्याज्जगतीतले ॥३३॥अस्यैव वृद्धिक्रममाह-प्राणायामैद्वदिशभिरुत्तमैर्धारणा मता ।योगस्तु धारणे द्बे स्याद्योगीशस्तं सदाऽभ्यसेत् ॥३४॥एतत्फलमाह-एवं यः कुरुते राजंस्त्रिकालज्ञः स जायते ।अनायासेन तस्य स्याद्बश्यं लोकत्रंय नृप ॥३५॥वश्यं लोकत्रयं नृपेत्यन्तेन योगफलमुत्त्वा संन्यासशब्दितस्य तत्फलस्य ज्ञानस्य फलमाहार्धेन-ब्रह्मरुपं जगत्सर्वं पश्यन्ति स्वान्तरात्मनि ।संन्यासिनस्तु स्वस्यान्तरात्मनि ह्रत्पुण्डरीकान्तर्गते हार्दाकाशाख्ये ब्रह्माणि ब्रह्मरुपं प्रत्यगनन्यस्वरुपं सर्वं जगत्पश्यन्ति ।तदिदं ज्ञानफलमुक्तम्। एवमुक्तयोर्ज्ञानफलयोरभेदात्तयोरप्यभिन्नत्वमित्याह-एवं योगश्व संन्यासः समानफलदायिनौ ॥३६॥योगज्ञानयोरन्यतरेण मार्गेण मां ज्ञात्वा मुक्तो भवतीत्याह-जन्तूनां हितकर्तारं कर्मणां फलदायिनम् ।मां ज्ञात्वा मुक्तिमाप्नोति त्रैलोक्यस्येश्वरं विभुम् ॥३७॥ॐतत्सदीति श्रीमद्नणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ- शास्त्रे श्रीमददिगणेशपुराणे श्रीगजाननवरेण्यसंवादे द्वैसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥४॥श्रीचातुर्धरभणितौ गणेशगीता-टीकायां गणपतिभावदीपिकायाम् ।गम्भीरप्रततसदर्थदर्शिकाया-मध्यायः स्फुटह्रदयोऽभवच्चतुर्थः ॥४॥इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधर्चतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायां गणपतिभावदीपिकायां द्धैधसंन्यासयोगी नाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : February 13, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP