श्री गणेश गीता - अथ तृतीयोऽध्यायः

श्रीमद्‍गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते.


यतस्तानि  पराण्यहुरितिश्लोकद्धयेन यो योगः संक्षपेणोक्तस्तत्र
श्रद्धामुत्पादयितुं तस्य वेदमूलत्वेनानादिपरम्पराप्राप्तत्वं विवृण्वञ्श्री गजानन उवाच-
पुरा सर्गदिसमये त्रैगुण्यं त्रितनूरुहम् ।
निर्माय चैतमवदं विष्णवे योगमुत्तमम् ॥१॥

अस्या विद्याया वंशमाह-
अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे ।
ततः परम्परायातं विदुरतं महर्षयः ॥२॥

कालेन बहुना चायं नष्टः स्याच्चरमे युगे ।
अश्रद्धेयो ह्याविश्र्वस्यो विगितव्यश्र्व भूमिप ॥३॥

एवं योगनाशे कारणत्रयमुक्त्वा तत्प्रवृतौ त्वहमेव कारणमित्याह-
एतं पुराभवं योगं श्रुतवानसि मन्मुखात्।
गुह्याद्‍गुह्यतंम वेदरहस्यं परमं  शुभम् ॥४॥

गणपतिविग्रहस्य सूर्यवद्दर्शनादर्शने एविदयास्तमयावित्यजानव्वरेण्य उवाच-
सांप्रतं चावतीर्णोऽसि गर्भतस्त्वं  गजानन ।
प्रोक्तवान्कथमेतं त्वं विष्णवे योगमुत्तमम् ॥५॥

स्वविग्रहस्यानाद्यनन्तत्वं दर्शयत्र्श्रीगजानन उवाच-
अनेकानि च ते जन्मान्यतीतानि ममापि च ।
संस्मरे तानि सर्वाणि च स्मृतिस्तव वर्तते ॥६॥

मत्त एव महाबाहो जाता विष्ण्वादयः सुराः ।
मय्येव च लयं यान्ति प्रलयेषु युगे युगे ॥७॥

विष्ण्वादीनां स्वप्रभवत्वात्स्वाभिन्नत्वमेवाऽऽह-
अहमेवापरो ब्रह्मा महारुद्रोऽहमेव च ।
अहमेव जगत्सर्वं स्थावरं जङमं च यत् ॥८॥

एवमात्मनः सामान्यतः सार्वात्म्यमुक्त्वा मत्स्यकूर्मादीन्स्वस्य विशेषावतारानप्याह-
अजोऽव्ययोऽहं भूतात्माऽनादिरीश्वर एव च ।
आस्थाय त्रिगुणां मायां भवामि बहुयोनिषु ॥९॥

कदाऽऽविर्भवसीत्यपेक्षायामाह-
अधर्मोपचयो धर्मापचयो हि यदा भवेत् ।
साधून्संरक्षितुं दुष्टास्तान्त्तुं संभवाम्यहम् ॥१०॥

एतदेव स्पष्टयति-
उच्छिद्याधर्मनिचयं धर्मं संस्थापयामि च ।
हन्मि दुष्टांश्र्व दैत्यांश्र्व नानालीलाकरो मुदा ॥११॥

अवतारप्रयोजनमर्धेनोपसंह्यत्य तज्ज्ञाम्नप्रयोजनं च सार्धेनाऽऽह-
वर्णाश्रमान्मुनीन्साधून्पालये बहुरुपधृत् ।
एवं यो वेत्ति संभूतीर्मम दिव्या युगे युगे ॥१२॥

तत्तत्कर्म च वीर्यं च मम रुपं समासतः ।
त्यक्त्वाऽहंममताबुद्धिं न पुनर्भूः स जायते ॥१३॥

न पुनर्भूः स जायत इत्यक्तं तत्र किंविधा न जायन्त इत्यत आह-
निरीहा निर्भयारोषा मत्परा मव्धपाश्रयाः ।
विज्ञानतपसा शुद्धा अनेके मामुपागताः ॥१४॥

ये त्वनष्टाज्ञानास्तेषामप्यहमेव गतोरित्याह--
येन येन हि भावेन संसेवन्ते नरोत्तमाः ।
तथा तथा फलं तेभ्यः प्रयच्छाम्यव्ययः स्फुटम् ॥१५॥

एवं संसारिणां त्रैगुण्यमुक्त्वा निस्त्रैगुण्यं पन्थानमाह-
जनाः स्युरितरे राजन्मम मार्गानुयायिनः ।
तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते ॥१६॥

पुनः कामिनां मतमनुवदति-
कुर्वान्ति देवताप्रीतिं वाञ्छन्तः कर्मणां फलम्।
प्राप्नुवन्तीह ते लोके शीघ्रं सिध्दिं हि कर्मजाम् ॥१७॥

तत्किं कर्म मुमुक्षुणा त्याज्यमेवेत्याशङक्याऽऽह-
चत्वारों हि मया वर्णा रजःसत्त्वतमोंशतः ।
कर्मांशतश्र्व संसृष्टा मृत्युलोके मया नृप ॥१८॥

एतध्दर्मद्धयं मम मायिकमेव न स्वाभाविकमित्याह-
कर्तारमिति मां तेषामकर्तारं विदुर्बुधाः ।
अनादिमीश्र्वरं नित्यमलिप्तं कर्मजैर्गुणैः ॥१९॥

एतज्ज्ञानफलमाह-
निरीहं योऽभिजानाति कर्म बघ्नाति नैव तम्।
चक्रुः  कर्माणि बुद्‍ध्वैवं पूर्वं मुमुक्षवः ॥२०॥

मुमुक्षवः कर्माणि कथं चक्रुरित्यपेक्षायां तध्दिभागं विवक्षुः प्ररोचनार्थं विभागफलमादावाह-
वासनासहितादाद्यात्संसारकारणाद्‍द्दढात् ।
अज्ञानबन्धनाज्जर्न्तुर्बुद्‍ध्वा यं मुच्यतेऽखिलात् ॥२१॥

तदकर्म च कर्मापि कथयाम्यधुना तव ।
यत्र मौनं गता मोहाद्दषयो बुद्धिशालिनः ॥२२॥

तत्त्वं मुमुक्षुणा ज्ञेयं कर्मकर्मविकर्मणाम् ।
त्रिविधानीह कर्माणि शृणु चैषां गतिः प्रिय ॥२३॥

तदेव तत्त्वं दर्शयति-
क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः ।
यस्य स्यात्स हि मर्त्योऽस्मिल्लाँके मुक्तोऽखिलार्थकृत् ॥२४॥

एवं कुर्वतः फलितमाह-
कामाङूकुरवियोगेन यः कर्माण्यारभेन्नरः ।
तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् ॥२५॥

कामाङकुरवियोगमेव स्तौति पञ्चभिः-
फलतृष्णां विहाय स्यात्सदा तृप्तो विसाधनः ।
उद्युक्तोऽपि क्रियां कर्तुं किंचिन्नैव करोति सः ॥२६॥

उत्तमं वैतृष्ण्यमुक्त्वा ततोऽप्यवंर तदाह-
निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः ।
केवलं वैग्रंह कर्माऽऽचरन्नाऽऽयाति पातकम् ॥२७॥

ततोऽप्यवरमाह-
अद्वंद्वोऽमत्सरो भूत्वा सिध्द्यसिध्द्योः समश्र्व यः ।
यथाप्राप्तीह संतुष्टः कुर्वन्कर्म न बध्यते ॥२८॥

एवं वितृष्णस्य योगिनो योगमनुतिष्ठतः कैर्मालेपमाह-
अखिलैर्विषयैर्मुक्तो ज्ञानविज्ञानवानपि ।
यज्ञार्थं तस्य सकलं कृतं कर्म विलियते ॥२९॥

यज्ञार्थं कर्माचरणप्रकारमाह-
अहमग्निर्हविर्होता हुतं यन्मयि चार्पितम् ।
ब्रह्माऽऽप्तव्यं च तेनाथ ब्रह्मयेव यतो रतः ॥३०॥

ये त्विमां भावनां द्वैतदर्शनग्राबल्यात्कर्तुमशक्तास्तेषां मतमाह-
योगिनः  केचिदपरे दिष्टं यज्ञं वदन्ति च ।
ब्रह्माऽऽग्निरेव यज्ञो वै इति केचन मेनिरे ॥३१॥

इतोऽपि विशिष्टानाह-
संयमाग्नौ परे भूप इन्दियाण्युपजुह्यति ।
खाग्निष्वन्ये तद्विषयाञ्शब्दादीनुपजुह्यति ॥३२॥

पूर्वत्र ध्यष्टीन्द्रियधारणोक्ता, इह त्वहंकारधारणोच्यते-
प्राणानामिन्द्रियाणां च परे कर्माणि कृत्स्त्रशः ।
निजात्मरतिरुपेऽग्नौ ज्ञानदीप्ते प्रजुह्रति ॥३३॥

तदेवं मुख्य आत्मप्रतिपत्त्युपाय उक्तः । अत्राशक्तानां प्रकारान्तराण्याह
द्रवेण तपसा वाऽपि स्वाध्यायेनापि केचन ।
तीव्रव्रतेन यतिनो ज्ञानेनापि यजन्ति माम् ॥३४॥

सर्वनोनिग्रहपूर्वकः प्राणादीनां निग्रह उत्तमाधिकारिणामुक्तः ।
इदानी प्राणनिग्रहपूर्वक मनोनिग्रहं वक्तुं प्राणानिग्रहं तावदाह-
प्राणेऽपानं तथा प्राणमपाने प्रक्षिपन्ति ये ।
रुद्‍ध्वा गतीश्र्वोभयोस्ते प्राणायामरता नराः ॥३५॥

त एवं प्राणायामरताः सन्तः किं कुर्वन्तीत्यपेक्षायामाह-
जित्वा प्राणान्प्राणगतीरुपजुह्यति तेषु च ।
एवं नानायज्ञरता यज्ञध्वंसितपातकाः ॥३६॥

परिशिष्टं द्रव्येण तपसा वेत्यत्रोक्तस्य द्रव्ययज्ञस्य फलमाह-
नित्यं ब्रह्म प्रयान्त्वेते यज्ञशेषामृताशिनः ।
अयज्ञकारिणो लोको नायमन्यः कुतो भवेत् ॥३७॥

अथाऽऽध्यात्मिकं यज्ञत्रयमपि मोक्षसाधनमित्याह-
कायिकादित्रिधाभूतान्यज्ञान्वेदे प्रतिष्टितान् ।
ज्ञात्वा तानखिलान्भूप मोक्ष्यसेऽखिलबन्धनात् ॥३८॥

सर्वज्ञशेषीभूतं ज्ञानयज्ञमाह-
सर्वेषां भूप यज्ञानां ज्ञानयज्ञः परो मतः ।
अखिलं लियते कर्म ज्ञाने मोक्षस्य साधने ॥३९॥

राचार्यगुरुपसदनपूर्वकमेव ज्ञानलाभो भवतीत्याह-
तज्ज्ञेयं पुरुषव्याघ्र प्रश्नेन नतितः सताम्।
शुश्रूषया वदिष्यन्ति सन्तस्तत्त्वविशारदाः ॥४०॥

गुरुपसदनमेव मही करोति श्लोकत्रयेण नानोति-
नानासङाञ्जनः कुर्वन् नैकं साधुसमागमम् ।
करोति तेन संसारे बन्धनं समुपैति सः ॥४१॥

सत्सङाकरणे दोषमुक्त्वा तत्करणे गुणमाह-
सत्सङाद्‍गुणंसंभूतिरापदां लय एव च ।
स्वहितं प्राप्यते सर्वैरिह लोके परत्र च ॥४२॥

उक्तेमेवार्थं संक्षिप्याऽऽह-
इतरत्सुलभं राजन्सत्सङ्गोऽतीव दुर्लभः ।
यज्ज्ञात्वा न पुनर्बन्धमेति ज्ञेयं च तत्त्वतः ॥४३॥

ज्ञानस्यापि फलमाह-
ततः सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।
अतिपापरतो जन्तुस्ततस्तस्मात्प्रमुच्यते ॥४४॥

एतदेव सदृष्टान्तमाह-
द्विबिधान्यपि कर्माणि ज्ञानग्निर्दहति क्षणात् ।
प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात्॥४५॥

न ज्ञानसमतामेति पवित्रमितरन्नृत ।
आत्मन्येवावगच्छन्ति योगात्कालेन योगिनः ॥४६॥

भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात्।
लब्ध्वा तत्परमं मोक्षं  स्वल्पकालेन यात्यसौ ॥४७॥

भव्त्याद्यभावे दोषमाह-
भक्तिहीनोऽश्रद्दधानः सर्वत्र संशयी तु यः ।
तस्य शं नापि विज्ञानमिह लोकोऽथ वा परः ॥४८॥

लब्धज्ञानस्य संशयादयो नस्यन्तीत्याह-
आत्मज्ञानरतं ज्ञाननाशिताखिलसंशयम्।
योगास्ताखिलकर्माणं बध्नन्ति नृप तानि न ॥४९॥

ज्ञानद्प्याधिक्यं योगस्य ब्रह्यर्पणयोगस्य दर्शयन्ब्रह्मार्पणयोगमुफ्संहरति-
ज्ञानखडगप्रहारेण संभूतमज्ञताबलात् ।
छित्त्वाऽन्तः संशयं तस्माद्योगयुक्तो भवेन्नरः ॥५०॥

ॐ तत्सदिति श्रीमध्दणेशगीतासूपनिषदर्थर्भासु योगामृतार्थ
शास्त्रे श्रीमदादिगणेशपुराणे श्रीगजाननवरेण्यसंवादे ब्रह्यार्पणयोगो नाम तृतीयोऽध्यायः ॥३॥

इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायां ब्रह्यार्पणयोगो नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : February 13, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP