श्री गणेश गीता - अथ पञ्चमो‍ऽध्यायः

श्रीमद्‍गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते.


योगज्ञानयोः समानफलत्वं यद्यप्युक्तं तथाऽपि योगनिर्धूतदोषे चेतासि ज्ञानमुत्पद्यत
इति योगस्यैव प्राथम्यात्तदारोहमार्गं प्रष्टुमिच्छन्तं वरेण्यमुपलक्ष्य स्वयमेव पूर्वेक्तयोगसहितं योगं विवक्षुर्गजानन उवाच-

श्रौतस्मार्तानि कर्माणि फलं नेच्छन्समाचरेत्।
शस्तः स योगी राजेन्द्र अक्रियाद्योगमाश्रितात् ॥१॥

निष्कामकर्मावधिमाह-
योगप्राप्त्यै महाबाहो हेतुः कर्मैव मे मतम्।
सिध्दयोगस्य संसिद्‍ध्यै हेतू शमदमौ मतौ ॥२॥

अत्र शमदमयोरभावे दोषमाह-
इन्द्रियार्थांश्र्व संकल्प्य कुर्वन्स्वस्य रिपुर्भवेत ।
एतानानिच्छन्यः कुर्वान्सिद्धिं योगी स सिध्यति ॥३॥

एतदेव प्रपञ्चयति त्रिभिः-
सुह्रत्वे च रिपुत्वे च उध्दारे चैव बन्धने ।
आत्मनैवाऽऽमनो ह्यात्माऽनात्मा भवति कश्र्वन ॥४॥

मनोनाशोपायमाह-
मानेऽपमाने दुःखे च सुखे सुह्यदि साधुषु ।
मित्रेऽमित्रेऽप्युदासीने व्देष्ये लोष्टे च काञ्चने ॥५॥

समो जितात्मा विज्ञानी ज्ञानीन्द्रियजयावहः ।
अभसेत्सततं योगं सदा युक्ततमो हि सः ॥६॥

मनोनाशप्रतिकूलान्यवस्थाकालदेशादीन्याह-
तप्तः श्रान्तो व्याकुलो वा क्षुधितो व्यग्रचित्तकः ।
कालेऽतिशीतेऽत्युष्णे वाऽनिलाग्न्यम्बुसमाकूले ॥७॥

सध्वनावतिजीर्णे गोस्थाने साग्नौ जलान्तिके ।
कूपकूले श्मशाने च नद्यां भित्तौ च मर्मरे ॥८॥

चैत्ये सवल्मके देशे पिशाचादिसमावृते ।
नाभ्यसेद्योगविद्योगं योगध्यानपरायणः ॥९॥

दृष्टा विन्घास्तावत्प्रतिद्धा एव, अदृष्टविघ्नन्पिशाचादिकृतान्कण्ठत एवाऽऽह-
स्मृतिलोपश्र्व मूकत्वं बाधिर्यं मन्दता ज्वरः ।
जडता जायते सधो दोषाज्ञानाद्धि योगिनः ॥१०॥

विपक्षे बाधमाह-
एते दोषाः परित्याज्या योगाभ्यसनशालिना ।
अनादरे हि चैतेषां स्मृतिलोपादयो ध्रुवम् ॥११॥

योगिन आहारादिनियममाह-
नातिभुञ्जन्सदा योगी नाभुञ्जन्नातिनिद्रितः ।
नातिजाग्रत्सिद्धिमेति भूप योगं सदाऽभ्यसन् ॥१२॥

संकल्पजांस्त्यजेत्कामान्नियताहारजागरः ।
नियम्य खगणं बुद्‌ध्या विरमेत शनैः शनैः ॥१३॥

विरमेत शनैः शनैरित्येतदेव व्याचष्टे-
ततस्ततः कृषेदेतद्यत्र यत्रानुगच्छति ।
धृत्याऽऽत्मवशगं कुर्याच्चित्तं चञ्चलमाद्दतः ॥१४॥

एवनुष्ठितस्य योगस्य फलमाह-
एवं कुर्वन्सदा योगी परां निर्वृतिमृच्छति ।
विश्वस्मिन्निजमात्मानं विश्वं च स्वात्मनीक्षते ॥१५॥

एवं विधस्य योगस्याविनाशिफलत्वं दर्शयति-
योगेन यो मामुपैति तमुपैम्यहमादरात् ।
मोचयामि न मुञ्चामि तमंह मां स न त्यजेत् ॥१६॥

एवंभूतस्य योगिना लक्षणानि स्वपरसाक्षिकाण्याह-
सुखे दुःखेतरे व्देषे क्षुधि तोषे समस्तृषि ।
आत्मसाम्येन भूतानि सर्वगं मां च वेत्ति यः ॥१७॥

जीवन्मुक्तः स योगीन्द्रः केवलं मयि संस्थितः ।
ब्रह्मादीनां च देवानां स वन्धः स्याज्जगत्रये ॥१८॥

दुष्कराविति मत्वा वरेण्य उवाच-
व्दिविधोऽपि हि योगोऽयमसंभाव्यो हि मे मतः ।
यतोऽन्तःकरणं दुष्टं चञ्चलं दुर्ग्रहं विभो ॥१९॥

गुरुप्रसादादींश्र्वित्तजयोपायान्विवक्षुर्मनसो दौष्यमेव विस्तरेणानुवद श्रीगजानन उवाच-

योगी ग्रहं दुर्ग्रहस्य मनसः संप्रकल्पयेत् ।
घटीयन्त्रसमादस्मान्मुक्तः संसृतिचक्रकात् ॥२०॥

संकल्पनस्यातियत्नसाध्यत्वं वक्तुं तस्य दौष्ठ्यं प्रपञ्चयति-
विषयैः क्रकचैरेतत्संसृष्टं चक्रकं द्दढम्।
जनश्र्छेत्तुं  न शन्कोति कर्मकीलैः सुसंव्रुतम् ॥२१॥

एवमस्य संसारस्य चक्रद्दष्टास्तेन दुरुच्छेद्यत्वमुक्त्वा तदुच्छेदोपायानाह
अतिदुःखं च वैराग्यं भोगाव्दैतृष्ण्यमेव च ।
गुरुप्रसादः सत्संग उपायास्तज्जये अमी ॥२२॥

वैराग्यसत्सढुयोजयोपायत्वमुक्त्वाऽभ्यासस्यापि तदाह-
अभ्यासाद्वा वशी कुर्यान्मनो योगस्य सिद्धये ।
वरेण्य दुर्लभो योगो विनाऽस्य मनसो जयात् ॥२३॥

मनोनिग्रहस्यानेकजन्मसाध्यत्वात्त्यक्तभोगस्यासिद्धमनोजयस्य
भोगाद्योगाच्च भ्रष्टस्यान्तराले नाशो मा भूदिति संदिहानो वरेण्य उवाच-
योगभ्रष्टस्य को लोकः का गतिः किं फलं भवेत्।
विभो सर्वज्ञ मे छिन्धि संशयं बुध्दिचक्रभृत्॥२४॥

एवं प्रार्थितो  गजानन उवाच-
दिव्यदेहधरो योगाद्भष्टः स्वर्भोगमुत्तमम्।
भुक्त्वा योगिकुले जन्म लभेच्छुद्धिमतां कुले ॥२५॥

तृतीयस्य प्रश्नस्योत्तरमाह-
पुनर्योगी भवत्येष संस्कारात्पूर्वकर्मजात्।
न हि पुण्यकृतां कश्र्विन्नरकं प्रतिपद्यते ॥२६॥

अथ योगिन स्तुवंस्त्वंपदार्थशुद्धिमुपसंहरति-
ज्ञाननिष्ठात्तपोनिष्ठात्कर्मनिष्ठान्नराधिप ॥
श्रेष्ठो योगी श्रेष्ठतमो भक्तिमान्मयि तेषु यः ॥२७॥

ॐ तत्सदिति श्रीमद्धगणेशगीतासूपनिषदर्थर्भासु योगामृतार्थशास्त्रे
श्रीमदादिगणेशपुराणे श्रीगजानननवरेण्यसंवादे योगकथनं नाम षञ्चमो‍ऽध्यायः ॥५॥

श्रीचातुर्धरभणितौ गणेशगीता
टीकायां गणपतिभावदीपिकायाम्।
गम्मीरप्रततसदर्थदर्शिकाया-
मध्यायः स्फुटह्रदयोऽत्र पञ्चमोऽभूत् ॥
इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य
कृतौ गणेशगीताटीकायां गणपतिभावदीपिकायां पञ्चमो‍ऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : February 13, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP