ग्रहलाघवः - नक्षत्रच्छायाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


दास्त्रादष्ट च मूर्च्छना गजगुणा नन्दाब्धयो दृग्रसाः षट्तर्का युगखेचरा रसदिशोऽद्र्य़ाशा नवार्काः क्रमात् ॥

भाग्यादष्टयुगेन्दवोऽक्षतिथयः खात्ययोंऽशा ध्रुवास्त्र्यष्टाब्जा गजागोभुवो रविदृशः सिद्धाश्र्विनः खत्रिदृक् ॥१॥

मूलात्स्युर्द्विजिनाः शराशुगदृशः क्वङ्गाश्र्विनोऽष्टेषुदृग्बाणर्क्षाणि रसाष्टदृङ्नखगुणास्तत्त्वाग्नयोऽश्र्वामराः ॥

खं दत्तायनदृक्क्रियाः स्युरिह च क्षेपोऽक्षभाघ्नोऽकत्दृत्स्वर्णं प्राक्परतोऽन्यथोत्तरशरे ते स्युः स्वदेशे ध्रुवाः ॥२॥

दास्रात् , अष्ट , मूर्छनाः , गजगुणाः , नन्दाब्धयः , दृग्रसाः , षट्तर्काः , युगखेचराः , रसदिशः , अद्र्य़ाशाः , नवार्काः , भाग्यात् , अष्टयुगेन्दवः , अक्षतिथयः , खात्यष्टयः , त्र्यष्टाब्जाः , गजगोभुवः , रविदृशः , सिद्धाश्र्विनः , खत्रिदृक् , मूलात् , द्विजिनाः , तत्त्वाग्नयः , अश्र्वामराः , खम् , (एते ), क्रमात् , अंशाः , ध्रुवाः , (इमे ), दत्तायनदृक्क्रियाः , स्युः , इह , क्षेप , अक्षभाघ्नः , (ततः ), अर्कहृत् , प्राक्परतः , स्वर्णम् , (कार्य्यम् ), उत्तरशरे , अन्यथा , (कार्य्यम् ), ते , स्वदेशे , ध्रुवाः , स्युः ॥१॥२॥

दिक्सूर्य्येष्विषुदिक्छिवाङ्गखनगाभ्रार्काश्र्च विश्र्वे भवास्त्वाष्ट्राद्दौ नगवह्नयः कुयमलाग्नीभाक्षबाणा द्विषट् ॥

कर्णात्रिंशदारित्रयः खजिनभाभ्रं त्वाष्ट्रहस्ताहिभे द्वीशात्षट्सुकभात्रयं शरलवा याम्या उदक्छेषभे ॥३॥

दिक्सूर्य्येंष्विषुदिक्छिवाङ्गखनगाभ्रार्काः , विश्र्वे , भवाः , त्वाष्ट्रात् , च , द्वौ , नगवह्णयः , कुयमलाग्नीभाक्षबाणाः , द्विषट् , कर्णात् , त्रिंशत् , अरित्रयः , खजिनभाभ्रम् , (एते ) शरलवाः , (सन्ति ) त्वाष्ट्रहस्ताहिभे , द्वीशात् , षटूसुकभात् , त्रयम् , याम्याः , शेषभे उदक् ॥३॥

प्रजापतिब्रह्मत्दृदग्न्यस्त्याऽपांवत्सलुब्धध्रुवकांशकाः स्युः ॥

कुषट् षडक्षास्त्रिशरा नभोऽष्टौ त्र्यष्टेन्दवो भूफणिनः क्रमेण ॥४॥

कुषट् , षडक्षाः , त्रिशराः , नभोऽष्टौ , त्र्यष्टेन्दवः , भूफणिनः , क्रमेण , प्रजापतिब्रह्महृदग्न्यगस्त्याऽपांवत्सलुब्धध्रुवकांशकाः , स्युः ॥४॥

नक्षत्रोंके नाम

ध्रुव

शरभाग

अश्विनी

राशि

८अंश

१० उत्तर

भरणी

०

२१

१२ उत्तर

कृत्तिका

१

८

५ उत्तर

रोहिणी

१

१९

५ दक्षिण

मृगशिर

२

२

१०दक्षिण

आर्द्रा

२

४

११ दक्षिण

पुनर्वसु

३

६

६ उत्तर

पुष्य

३

१६

० उत्तर

आश्लेषा

३

१७

७ दक्षिण

मघा

४

९

० उत्तर

पूर्वा फाल्गुनी

४

२८

१२ उत्तर

उ . फाल्गुनी

५

५

१३ उत्तर

हस्त

५

२०

११ दक्षिण

चित्रा

६

३

२ दक्षिण

स्वाती

६

१८

३७ उत्तर

विशाखा

७

२

१ दक्षिण

अनुराधा

७

१४

२ दक्षिण

ज्येष्ठा

७

२०

३ दक्षिण

मूल

८

२

८ दक्षिण

पूर्वाषाढा

८

१५

५ दक्षिण

उत्तराषाढा

८

२१

५ दक्षिण

अभिजित ‍

८

१८

६२ उत्तर

श्रवण

९

५

३० उत्तर

घनिष्ठा

९

१६

३६ उत्तर

शततारका

१०

२०

० उत्तर

पूर्वाभाद्रपदा

१०

२५

२४ उत्तर

उ .भाद्रपदा

११

७

२७ उत्तर

रेवती

०

०

० उत्तर

 

उदयध्रुव

अस्तध्रुव

०रा

३अं

१२क

३०वि

०रा

१२अं

४७क

३०वि

०

१५

१५

०

०

२६

४५

०

१

५

३६

१५

१

१०

२३

४५

१

२१

२३

४५

१

१६

३६

१५

२

६

४७

३०

१

२७

१२

३२

२

११

१६

१५

२

०

४३

४५

३

१

७

३०

३

६

५२

३०

३

१६

०

०

३

१६

०

०

३

२०

२१

१५

३

१३

३८

४५

४

९

०

०

४

९

०

०

४

२२

१५

०

५

३

४५

०

४

२८

४६

१५

५

११

१३

४५

५

२५

१६

१५

५

१४

४३

४५

६

३

५७

३०

६

२

२

३०

६

०

१६

१५

७

५

४३

४५

७

२

२८

४५

७

१

३१

१५

७

१४

५७

३०

७

१३

२

३०

७

२१

२६

१५

७

१८

३३

४५

८

५

५०

०

७

२८

१०

०

८

१७

२३

४५

८

१२

३६

१५

८

२३

२३

४५

८

१८

३६

१५

७

१८

१७

३०

९

१७

४२

३०

८

२०

३७

३०

९

२९

२२

३०

८

२९

१३

४५

१०

२

४६

१५

१०

३०

०

०

१०

२०

०

०

१०

१३

३०

०

११

६

३०

१०

१०

२४

३

४५

११

१९

५६

१५

०

०

०

०

०

०

०

०

तेषां क्रमाद्रोशिखिनः खरामा अष्टौ रसाश्र्वाः शिखिनः खवेदाः ॥

शरांशकाः स्युर्मुनिलुब्ध्ब्धयोस्तु याम्यास्तु सौम्याः परिशेषकाणाम् ॥५॥

गोशिखिनः , खरामाः , अष्टौ , रसाश्र्वाः , शिखिनः , खवेदाः , (इमे ) क्रमात् , तेषाम् , शरांशकाः , स्युः । मुनिलुब्धयोः , तु , याम्याः , परिशेषकाणाम् , तु , सौम्याः ॥५॥

नाम

ध्रुव

शरभाग

प्रजापति

२

१ .

३९ उत्तर .

ब्रह्महृदय

३

२६

३० उत्तर

अग्नि

१

२३ .

८ उत्तर

अगस्त्य

२

२०

७६ दक्षि .

अपांवत्स

६

३

३ उत्तर

लु धक

२

२१ .

४० दक्षि .

उदयध्रुव

अस्तध्रुव

१ रा

१२अं

१८क .

४५वि .

२रा

१९अं .

४१क .

१५वि

१

११

८

४५

२

१०

५१

१५

१

१९

१०

०

१

२६

५०

०

३

२६

५

०

१

१३

३५

०

६

१

३३

४५

६

४

२६

१५

३

१०

१०

०

२

१

५०

०

निजदेशभवाद् ध्रुवाच्च बाणाच्छाया यंत्रलवादि खेटवत्स्यात् ॥

छायादेरपि चेह रात्रियातं नक्षत्रग्रहयोग उक्तवच्च ॥६॥

निजदेशभवात् , ध्रुवात् , बाणात् , च , छाया , यन्त्रलवादि , खेटवत् , स्यात् । अपि ,——च , इह , छायादेः , रात्रियातम् , (तद्वेदेव स्यात् ) नक्षत्रग्रहयोगः , च , उक्तवत् , (ज्ञेयः ) ॥६॥

अब ग्रहोंका रोहिणीशकटभेद और उसका फल कहते हैं -

गवि नगकुलवे खगोऽस्य चेद्यमादिगिषुः खशरांगुलाधिकः ॥

कभशकटमसौ भिनत्त्यसृक्छनिरुडुपो यदि चेज्जनक्षयः ॥७॥

( यः ), खगः , गवि , नगकुलवे , ( वर्तमानः ) चेत् , अस्य , इषुः , ( च ), यमदिक् , खशरांगुलाधिकः , ( चेत् , तदा ), असौ . कभशकटम् , भिनत्ति , यदि , असृक् शनिः , उडुपः , ( भेदयति ,) चेत् , ( तदा ), जनक्षयः , ( भवति ) ॥७॥

स्वर्भानावदितिभतोऽष्टऋक्षसंस्थे शीतांशुः कभशकटं सदा भिनत्ति ॥

भौमार्क्योः शकटभिदा युगान्तरे स्यात्सेदानीं नहि भवतिदृशि स्वपाते ॥८॥

स्वर्भानौ , अदितिभतः , अष्टऋृक्षसंस्थे , (सति ,) सदा , शीतांशुः , कभशटम् भिनत्ति , भौमार्क्योः , शकटभिदा , युगान्तरे , स्यात् , सा , हि , इदानीम् , ईदृशि , स्वपाते , न , भवति ॥८॥

खमध्यगर्क्षधु्रवतोऽस्फुटं चरं ततो दिनार्द्धान्निजभोदयैस्तनुः ॥

भवेत्तदा लग्नमथो तदङ्गभान्वितार्कमध्ये घटिका निशागताः ॥९॥

खमघ्यगर्क्षध्रुवतः , अस्फुटम् , चरम् , (साध्यम् ), ततः , (साधितात् ), दिनार्द्धात् निजभोदयैः , (साधितः ), तनुः , तदा , लग्नम् , भवेत् , अथो , तदङ्गभान्वितार्कमध्ये , निशागताः , घटिकाः , (स्युः ) ॥९॥

 

दिनाद्ध

लग्न

नाम

घ .

प .

रा .

अं .

क .

वि .

अश्विनी

१५

४९

३

१३

४४

४६

भरणी

१६

११

३

४

५३

३६

कृत्तिका

१६

३७

४

९

३४

२०

रोहिणी

१६

४७

४

१९

४८

१२

मृगशिर

१६

५५

५

२

२०

२६

आर्द्रा

१६

५८

५

६

११

१९

पुनर्वसु

१६

४७

६

३

८

४८

पुष्य

१६

३६

६

१४

१६

१८

आश्लेषा

१६

३६

६

१५

१८

४१

मघा

१६

७

७

४

२१

१८

पूर्वाफा .

१५

७

७

१९

५४

१३

उ .फा .

१५

७

७

२५

३ ‘

३

हस्त

१४

८

८

७

५३

९

चित्रा

१४

८

८

१९

१४

४

स्वाती

१३

९

९

५

१९

१२

विशाखा

१३

९

९

१८

१४

११

अनुराधा७१४२ दक्षिण

१३

०

०

२

३५

३

 

 

दिनाद्ध

लग्न

नाम

घ .

प .

रा .

अं .

क .

वि .

ज्येष्ठा

१३

१२

१०

१०

१७

३०

मूळ

१३

५

१०

२७

३४

४७

पूर्वाषाढा

१३

१

११

६

४३

१२

उ . षाढा

१३

४

११

२९

१६

२०

अभि .

१३

२

११

२०

५५

४१

श्रवण

१३

३

५

१५

१

१९

घनिष्ठा

१३

२४

०

२९

१

३७

शतता .

१३

१९

२

४

२

१४

पू .भाद्र .

१४

२९

२

८

३४

३६

उ .भाद्र .

१४

५१

२

१८

४०

३१

रेवती

१५

३४

३

७

१६

१७

प्रजापति

१६

५५

५

१

२६

४३

ब्रह्महृदय

१६

५१

४

२६

३१

११

अग्नि

१६

५०

४

२३

४४

३७

अगस्त्य

१६

५६

५

२९

४२

५०

अपा .त्स

१४

२९

८

१९

१४

४

लुब्धक

१६

५६

५

१९

४१

५६

उद्यद्भध्रुवकः स्वदेशजोऽस्तं वा प्राप्नुवतः सषडूग्रहः ।

स्यात्तत्कालविलग्नकं ततः प्राग्वत्स्युघ्रटिका निशागताः ॥१०॥

स्वदेशजः , उद्यद्भध्रुवकः , वा , अस्तम् , प्राप्नुवतः , सषड्ग्रहः , (ध्रुवकः ,) तत्कालविलग्नकम् , स्यात् , ततः , प्राग्वत् , निशागताः , घटिकाः , स्युः ॥१०॥

इति नैजदेशपलभावशतो ह्युदयं खमध्यमथवाऽस्तमयम् ॥

व्रजदश्र्विभादिषु सुखार्थमिह स्थिरलग्नकानि विदधीत सुधीः ॥११॥

इति , नैजदेशपलभावशतः , हि , व्रजदश्र्विभादिषु , उदयम् , अथवा , खमघ्यम् , अस्तम् , (गच्छतः , नक्षत्रस्य ) सुधीः , सुखार्थम् , स्थिरलग्नकानि , विदघीत ॥११॥

इति श्रीगणकवर्यपण्डितगणेशदैवज्ञकृतौ ग्रहलाघवाख्यकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्य -काशीस्थराजकीयविद्यालयप्रधानाध्यापकपण्डितस्वामिराममिश्रशास्त्रिसांनिध्याधिगतविद्येन भारद्वाजगोत्रोत्पन्नगौडवंशावतंसश्रीयुत भोलानाथात्मजेन पण्डितरामस्वरूपशर्म्मणा कृतया सान्घयभाषाटीकया सहितो नक्षत्रच्छायाधिकारः समाप्तिमितः ॥११॥

N/A

References : N/A
Last Updated : October 24, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP