ग्रहलाघवः - चन्द्रग्रहणाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


गतगम्यदिनाहतद्युभुक्तेः खरसाप्तांशवियुग्युतो ग्रहः स्यात् ॥

तत्कालभवस्तथा घटीघ्न्याः खरसैर्लब्धकलोनसंयुतः स्यात् ॥१॥

गतगभ्यदिनाहतद्युभुक्तेः , खरसाप्तांशवियुक् , युतः , ग्रहः , (कार्यः , सः ) तत्कालभवः , ग्रहः , स्यात् । तथा , घटीघ्न्याः , खरसैः , लब्धकलोनसंयुत , (ग्रहः , कार्य्यः , सः तत्कालभवः , ग्रहः ,) स्यात् ॥१॥

एवं पर्वान्ते विराह्वर्कबाह्वोरिन्द्राल्पांशाः सम्भवश्र्चेद्ग्रहस्य ॥

तेंशा निघ्नाः शङ्करैः शैलभक्ता व्यग्वर्काशः स्यात्पृषत्कोऽङ्गुलादिः ॥२॥

एवम् , पर्वान्ते , विराह्वर्कबाव्होः , चेत् , इन्द्राल्पांशाः , (तदा ) ग्रहस्य , सम्भवः । ते , अशाः , शङ्करैः , निघ्नाः , शैलभक्ताः , (कार्य्याः , तदा ) अंगुलादिः , पृषत्कः , व्यग्वर्काशः , स्यात् ॥२॥

गतिर्द्विघ्नीशाप्ताऽङ्गुलमुखतनुः स्यात्खररुचो विधोर्भुक्तिर्वेदाद्रिभिरपत्दृता बिम्बमुदितम् ॥

नृपोश्र्वोना चान्द्री गतिरपत्दृता लोचनकरैरदाढ्या भूभा स्याद्दिनगतिनगांशेन रहिता ॥३॥

खररुचः , गतिः , द्विघ्नी , ईशाप्ता , अंगुलमुखतनुः , स्यात् । विधौः , भुक्तिः , वेदाद्रिभिः , अपहृता , बिभ्बम् , उदितम् । चान्द्री , गतिः , नृपाश्र्वोना , लोचनकरैः , अपहृता , रदाढ्या , दिनगतिनगांशेन रहिता , भूभा , स्यात् ॥३॥

छायदयत्यर्कमिन्दुर्विधुं भूमिभा छादकच्छाद्यमानैक्यखण्डं कुरु ॥

तच्छरोनं भवेच्छन्नमेतद्यदा ग्राह्यहीनावशिष्टं तु खच्छन्नकम् ॥४॥

इन्दुः , अर्कभ , छादयति , भूमिभा , विधुम् (छादयति ) (हे गणक !) छादकच्छाद्यमानैक्यखण्डम् , कुरु । तत् , शरोनम् , छन्नम् , भवेत् । यदा , तु , एतत् , ग्राह्यहीनावशिष्टम् , (तदा ) खच्छन्नम् , (भवेत् ) ॥४॥

मानैक्यखण्डमिषुणा सहितं दशघ्नं छन्नाहतं पदमतः स्वरसांशहीनम् ॥

ग्लौबिम्बत्दृत्सिथतिरियं घटिकादिका स्यान्मर्द्दं तथा तनुदलान्तरखग्रहाभ्याम् ॥५॥

इषुणा , सहितम् , मानैक्यखण्डम् , दशघ्नम् , छन्नहतम् , (कार्य्यम् ), अतः , पदम् , स्वरसांशहीनम् , ग्लौबिम्बहृत् , (कार्य्यम् ,) इयम् , धटिकादिका , स्थितिः स्यात् । तथा , तनुदलान्तरखग्रहाभ्याम् , भर्दम् , (स्यात् ) ॥५॥

युग्माहतैर्घ्यगुभुजांशसमैः पलैः सा द्विष्ठा स्थितिर्विरहिता सहितार्कषड्भात् ॥

ऊने व्यगावितरथाभ्यधिके स्थिती स्तः स्पर्शान्तिमे क्रमगते च तथैव मर्दे ॥६॥

सा , द्विष्ठा , स्थितिः , व्यगौ , अर्कषड्भात् , ऊने , (सति ), युग्माहतैः , व्यगुभुजांशसमैः , पलैः , विरहिता , (च ) सहिता , (कार्य्या ) अभ्याधिके , (सति ), इतरथा , विरहिता , सहिता , (कार्य्या ) । (तदा ), क्रमगते , स्पर्शान्तिमे , स्थिती , स्तः । तथा , एव , मर्दे , च , (साघ्ये ) ॥६॥

तिथिविरतिरयं ग्रहस्य मध्यः स च रहितःसहितो निजस्थितिभ्याम् ॥

ग्रहणमुखविरामयोस्तु कालाविति पिहितापिहिते स्वमर्दकाभ्याम् ॥७॥

तिथिविरतिः , अयम् , ग्रहस्य , मध्यः , (भवति ) स च , निजस्थितिभ्याम् , (एकत्र ), रहितः , (अन्यत्र ) सहितः , ग्रहमुखविरामयोः , कालौ , (स्तः ) इति स्वमर्दकाभ्याम् , पिहितापिहिते (स्तः ) ॥७॥

पिहितहतेष्टं स्थितिवित्दृतं तत् ॥

सचरणभूयुग्ग्रसनमभीष्टम् ॥८॥

पिहितहतेष्टम् , स्थितिविहृतम् , तत् , अभीष्टम् , सचरणभूयुक् , ग्रसनम् , (भवति )

त्रिभयुतोनरविः स्वविधुग्रहेऽयनलवाढ्य इतश्र्चरवद्दलैः ॥

नगशरेन्दुमितैर्वलनं भवेत्स्वरविदिक् -

स्वविधुग्रहे , त्रिभयुतोनरविः , अयनलवाढ्यः , (कार्य ) इतः , नगशरेन्दुभितैः , दलैः , चरवत् , स्वरविदिक् , वलनम् , भवेत्

( स्पर्शादिकं यदि विधोर्दिवसस्य शेषे यातेऽथवा द्युदलतद्विवरं रवेस्तु ॥

रात्रेस्तदूनितनिशाशकलं क्रमात्स्यात्प्राक्पश्र्चिमं नतमिदं वलनस्य सिद्ध्य़ै ॥१॥ )

अथवा , यदि , विधोः , स्पर्शादि दिवसस्य , शेषे , याते , (तदा ), द्युदलतद्विवर म् , (मध्यनतम् , स्यात् ), रवेः , तु , (यदि ), रात्रेः , (शेषे , याते , तदा ,) तदूनितनिशाशकलम् , (कार्य्यम् ), इदम् , वलनस्य , सिद्ध्य़ै , क्रमात् , प्राक् , पश्र्चिमम् , नतम् , स्यात् ॥१॥

- त्वथ मध्यनताच्च यत् ॥९॥

विषयलब्धगृहादित उक्तवद्वलनमक्षत्दृतं पलभाहतमत् ॥

उदगपागिह पूर्वपरे क्रमाद्रसत्दृतोभयसंस्कृतिरङ्घ्रयः ॥१

अथ , तु , यत् , मध्यनतात् , (ततः ), विषयलब्धगृहादितः , उक्तवत् , वलनम् , (साध्यम् , ततः ,) पलभाहतम् , (ततः ) अक्षहृतम् , (अक्षवलनम् , स्यात् ), इह , पूर्वपरे , क्रमात् , उदक् , अपाक् (स्यात् ), उभयसंस्कृतिः , रसहृता , (सती ), अंघ्रयः , स्युः ॥९॥१

मानैक्यार्द्धत्दृतात्खषड्घ्नपिहितान्मूलं तदाशांघ्रयः

खच्छन्नं सदलैकयुक्तु गदिताः खच्छन्नजाशांघ्रयः ॥ऽऽ॥

मानैक्यार्द्धहृतात् , खषडघ्नपिहितात् , मूलम् , (ग्राह्यम् ), (तत् ) तदाशांघ्रयः , (स्युः ) सदलैकयुक् , खच्छन्नम् , च , खच्छन्नजाशांघ्रयः , गदिताः ऽऽ

सव्यासव्यमपागुदग्वलनजाशांघ्रीन्प्रदद्याच्छराशायाः

स्याद्ग्रहमध्यमन्यदिशि खग्रासोऽथवा शेषकम् ॥११॥

शराशायाः , अपागुदग्वलनजाशांघ्रीन् , सव्यासव्यम् , प्रदद्यात् । (तत् ), ग्रहमध्यम् , स्यात् । अम्यदिशि , खग्रासः , अथवा , शेषकम् (स्यात् ) ॥११॥

मध्याच्छन्नाशाङ्घ्रिभिः प्राक्च पश्र्चादिन्दोर्व्यस्तं तूष्णगोः स्पर्शमोक्षौ ॥

खग्रास्तात्खच्छन्नपादैः परे प्राग्दत्तैरिन्दोर्मीलनोन्मीलने स्तः ॥१२॥

मध्यात् , प्राक् , पश्र्चात् , च , (दत्तैः ), छन्नाशांघ्रिभिः , इन्दोः , स्पर्शमोक्षौ , स्तः । उष्णगोः , तु , व्यस्तम् । खग्रास्तात् , परे , प्राक् , दत्तैः , खच्छन्नपादैः , इन्दोः , भीलनोन्मीलने , त्तः , (रवेः , तु , व्यस्तम् ज्ञेयम् ) ॥१२॥

इति श्रीगणकवर्यपण्डितगणेशदैवज्ञकृतौ ग्रहलाघवकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्य -काशीस्थराजकीयसंस्कृत विद्यालयप्रधानाध्यपकपणिडतस्वामिराममिश्रशास्त्रि -सान्निध्याधिगतविद्य -भारद्वाज -गोत्रोत्पन्नगौडवंशावतंस -श्रियुतभोलानाथनूज -पण्डितरामस्वरूपशर्म्मणा कृतया सान्वयभाषाव्याख्यया सहितश्र्चन्द्रग्रहणाधिकारः समाप्तिमितः ॥५॥

N/A

References : N/A
Last Updated : October 23, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP