ग्रहलाघवः - पञ्चतारास्पष्टीकरणाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


तहां प्रथम पञ्चतारा अर्थात् मङ्गल बुध गुरु शुक्र और शनिके शीघ्राङ्क कहते हैं --

खमष्टमरुतोऽद्रिभूभुव उदघ्यगोर्व्योष्टदृग्दृशो नवनगाश्र्विनोऽक्षदशनाः शराङ्गाग्नयः ।

गुणाङ्कदहनाः खखाब्धय इभाङ्गरामाः क्रमान्नवाम्बुधिदृशो नभः क्षितिभुवश्र्चलाङ्का इमे ॥१॥

खम् , अष्टमरुतः , अद्रिभूभुवः , उदघ्यगोर्त्यः , अदृग्दृशः , नवनगाश्र्विनः , अश्र्शदशनाः , शराङ्गाग्नयः , गुणाङ्कदहनाः , खखाब्धयः , इभाङ्गरामाः , नवाम्बुधिदृशः , नभः , इमे , क्रमात् , क्षितिभुवः , चलाङ्काः , (सन्ति ) ॥१॥

खं भूकृताः कुवसवोऽद्रिभवाः खतिथ्योऽष्टाद्रीन्दवो नवनवक्षितयोऽर्कपक्षाः ॥

अर्काश्र्विनः शरखगक्षितयोऽक्षतिथ्यो गोष्टौ खमाशुफलजाः स्युरिमे विदोऽङ्काः ॥२॥

खम् , भूकृताः , कुवसवः , अद्रिभवाः , खतिथ्यः , अष्टाद्रीन्दवः , नवनवक्षितयः , अर्कपक्षाः , अर्काश्र्विनः , शरखगक्षितयः , अक्षतिथ्यः , गोष्टौ , खम् , इमे , विदः , आशुफलजाः , अङ्काः स्युः ॥२॥

खं तत्त्वानि नगाब्धयोऽष्टषट्काः पञ्चेभा गजखेचरा रसाशाः ॥

नागाशा द्विदिशो नवाहयः षट्षष्टिः षट्कगुणा नभो गुरोः स्युः ॥३॥

खम् तत्त्वानि , नगाब्धयः , अष्टषट्काः , पञ्चेभाः , गजखेचराः , रसाशाः , नागाशाः द्विदिशः , नवाहयः , षट्षष्टिः , षटूकगुणाः , नभः , (इभे ) गुरौः , आशुफलजाः , (अङकाः ) स्युः ॥३॥

खमग्न्यङ्गैस्तुल्या रसयमभुवः षट्कधृतयोऽरिसिद्धाः पक्षाभ्राग्नय उदधिनाराचदहनाः ॥

द्विशून्योदन्वन्तः खजलधिकृता भूरसकृतास्त्रिवेदोदन्वन्तो रसयमगुणाः खं भृगुजनेः ॥४॥

खम् , अग्न्यङ्गैः , तुल्याः (अङ्का ) रसयमभुवः , षट्कधृतयः , अरिसिद्धाः , पक्षाभ्राग्नयः , उदधिनाराचदहनाः , द्विशून्योदन्वःतः , खजलधिकृताः , भूरसकृताः , त्रिवेदोदन्वन्तः , रसयमगुणाः ,खम् , (इमे ) भृगुजनेः (अङकाः , स्युः ) ॥४॥

खमिषुक्षितयो गजाश्र्विनो गोदहना नागकृताः पयोधिबाणाः ॥

द्विरगेषुमिता हुताशबाणाः शरवेदास्त्रिगुणा धृतिः खमार्केः ॥५॥

खम् , इषुक्षितयः , गजाश्र्विनः , गोदहनाः , नागकृताः , पयोधिबाणाः , द्विः , अगेषुमिताः , हुताशबाणाः , शरवेदाः , त्रिगुणाः , धृतिः , खम् , (इमे ), आर्केः (अङ्काः , स्युः ) ॥५॥

नाम

१

२

३

४

५

६

७

८

९

१०

११

१२

मंगळ

५८

११७

१७४

२२८

१७९

३२५

३६५

३९३

४००

३६८

२४९

०

बुध

४१

८९

११७

१५०

१७८

१९९

२१२

२१२

१९५

१५५

८९

०

गुरू

२५

४७

६८

८१

९८

१०६

१०८

१०२

८९

६६

३६

०

शुक्र

६०

१२६

१८६

१४६

३०२

३५४

४०२

४४०

४६१

४४३

३२६

०

शनि

१५

२८

३९

४८

५४

५७

५७

५३

४५

३३

१८

०

भौमार्कीज्यविहीनमध्यमरविः स्यात्स्वाशुकेन्द्रन्तुविद्भृग्वोरुक्तमिदं रसोर्घ्वमिनभाच्छुद्धं तदंशा दिनैः ॥

भक्ताः खादिफलं क्रमादिह गताङ्काऽसौ क्षयद्धर्‌य़ा हताच्छेषाद्बाणकुलब्धिहीनयुगयं दिग्त्दृल्लवाद्यं फलम् ॥६॥

भौमार्कीज्यविहीनमध्यरविः , स्वाशुकेन्द्रम् , स्यात् , विद्भृग्वोः , तु , उक्तम् , इदम् , रसोर्ध्वम् , (चेत् ) इनभात् , शुद्धम् , (कार्यम् ) तदंशाः , दिनैः , दिनैः भक्ताः (सन्तः ) इह , क्रमात् , खादिफलम् , राताङ्कः , (भवेत् ) असौ , क्षयद्धर्‌य़ा , हतात् , शेषात् , बाणकुलब्धिहीनयुक् , (कार्य्यः ) असौ , दिग्हृत् लवाद्यम् , फलम् , (भवति ) ॥६॥

खं गोऽश्र्विनोऽद्रिमरुतोऽक्षगजा नवाशाः सिद्धेन्दवः खदहनक्षितयोऽसृजोऽङ्काः ॥

मान्दा बुधस्य खमिनाः कुदृशोऽष्टपक्षा देवाः शरानलमिता रसवह्नयः स्युः ॥७॥

खेन्द्रर्क्षाणि नवाग्नयोऽहूयुदधयोऽक्षाक्षा नवाक्षा गुरोः शुक्रस्याभ्ररसेशविश्र्वमनवो द्विर्बाणचन्द्राः क्रमात् ॥

खं गोऽब्जाः खकृताः खषण्नगनगा गोष्टौ त्रिनन्दाः शनैः शुद्धोऽब्ध्यद्रिषडग्निनागगृहतः स्यान्मन्दकेन्द्रं कुजात् ॥८॥

खम् , गोश्विनः , अद्रिमरुतः , अक्षगजाः , नवाशाः , सिद्धन्देवः खदहनक्षितयः , एते , असृजः , मान्दाः , अंकाः स्युः । खम् , इनाः कुदृशः , अष्टपक्षाः , देवाः , शरानलमिताः , रसवह्नयः , (एते ) बुधस्य , (मान्दाः , अंकाः , स्युः ) । ख -इन्द्र , ऋक्षाणि , नवाग्नयः , अह्य़ुदधयः , अंक्षाक्षाः , नवाक्षाः , (एते ) गुरोः , (मान्दाः , अंकाः , स्युः ) । अभ्ररस -ईश -विश्र्व -मनवः , द्विः बाणचन्द्राः , (एते ) क्रमात् , गुरोः - (मान्दा अंकाः , स्युः ) । खम् , गोब्जाः , खकृताः , खषट् , नगनगाः , गोष्टौ , त्रिनन्दाः , (एते ) शनेः , (मान्दाः अङ्काः , स्युः ,) । अब्ध्यद्रि , षडग्निनागगृहतः , शुद्धः , कुजात् , मन्दकेन्द्रम् , स्यात् ॥७॥८॥

नाम

०

१

२

३

४

५

६

मंगलकेमेदांक

०

२९

५७

८५

१०९

१२४

१३०

बुधकेमेदांक

०

१२

२१

२८

३३

३५

३६

गुरूकेमेदांक

०

१४

२७

३९

४८

५५

५७

शुक्रकेमेदांक

०

६

११

१३

१४

१५

१५

शनिकेमेदांक

०

१९

४०

६०

७७

८९

९३

मृदुकेन्द्रभुजांशका दिनाप्ताः फलमङ्कः प्रगतस्तदूनितैष्यः ।

परिशेषहतो दिनाप्तियुक्तो दशभक्तः फलमंशकादि मान्दम् ॥९॥

मृदुकेन्द्रभुजांशकाः , दिनाप्ताः (कार्य्याः , तदा , यत् ,) फलम् (तन्मितः ), प्रगतः अङ्कः (स्यात् ), तदूनितैष्यः , परिशेषहतः (तस्मात् ), दिनाप्तियुक्तः , (ततः ), दशभक्तः , (कार्यः तदा ) अंशकादि , मान्दम् , फलम् , (भवति ) ॥९॥

प्राङ्मध्यमे चलफलस्य दलं विदध्यात्तस्माच्च मान्दमखिलं विदधीत मध्ये ।

द्राक्केन्द्रकेऽपि च विलोममतश्र्च शीघ्रं सर्वं च तत्र विदधीत भवेत्स्फुटोऽसौ ॥१०॥

प्राक् , चलफलस्य , दलम , मध्यमे , विदघ्यात् , तस्मात् , मान्दम् , (फलम् , साध्यम् ,) (तत् , अखिलम् , मध्ये , विधघीत । अपि च , (तत् ) द्राक्केन्द्रके विलोमम् , (विदघ्यात् ) । अतः शीघ्रम् , (साघ्यम् .) विदधीत , असौ ,

स्फुट , भवेत् ॥१०॥

मान्दाङ्कान्तरमार्क्यसृग्गुरूणां भक्त बाणनगैः शरैः खरामैः ॥

विद्भृग्वोर्द्विहतेषु भाजितं तद्दद्यात्प्राग्वदितौ मृदुस्फुटा सा ॥११॥

आर्क्यसृग्गुरूणाम् , मान्दाङ्कान्तरम् , (क्रमेण ), बाणनगैः , शरैः , खरामैः , भक्तम् , विद्भृग्वोः , (मान्दाङ्कान्तरम् ,) द्विहतेषु भाजितम् , (कलाद्यम् ) तत् , प्राग्वत् , इतौ , दद्यात् , (तदा ), सा , मृदुस्फुटा , (गताः , भवति ) ॥११॥

मंगळ

बुध

गुरू

शुक्र

शनि

५

५

२

३०

५

२

७५

यह मन्दांकान्तरोंके भाजकांक है

भौमाच्चलाङ्कविवरं शरत्दृत्स्वबाणांशाढ्यं त्रित्दृत्कृतत्दृतं द्विगुणाक्षभक्तम् ॥

तद्धीनयुक्क्षयचये तु मृदुस्फुटा स्यात्स्पष्टाऽथ चेद्बहु ऋणात्पतिता तु वक्रा ॥१२॥

भौमात् चलाङ्कविवरम् (क्रमेण ), शरहृत् , स्वबाणांशाढ्यम् , त्रिहृत् , कृतहृतम् , द्विगुणाक्षभक्तम् , (कार्यम् ) (लब्धिः गतेः , शीघ्रफलम् , स्यात् ) क्षयचये , तद्धीनयुक् , मृदुस्फुटा , स्पष्टा , स्यात् अथ , चेत् , (ऋणफलम् ), बहु , (तदा ), ऋणात् , पतिता (कार्य्या ), (शेषम् ) वक्रा (स्यात् ) ॥१२॥

मंगलका

बुधका

गुरूका

शुक्रका

शनिका

५

+५

०

३

४

५

२

यह शीघ्रकोंके अन्तरके भाजकांक है

शुक्रारयोश्र्चलभवोऽन्त्यगतो यदाङ्कः शेषांशकाश्र्च पतिताः पृथगक्षभूभ्यः ॥

येऽल्पा भृगोस्त्रित्दृता असृजोऽक्षभक्ता देयाः स्वशीघ्रफलवत्स्फुटयोः स्फुटौ तौ ॥१३॥

यदा , शुकारयोः , चलभवः , अंकः , अन्त्यगतः , (स्यात् तदा ) शेषांशकाः , पृथक , स्थाप्याः , (एकत्र ), अक्षभूभ्यः , पतितः , च , (कार्याः ), तयोः , ये अल्पाः , (ते ), भृगोः , त्रिविहृताः , असृजः , अक्षभक्ताः , स्वशीघ्रफलवत् , स्फुटयोः , देयाः , (तदा ), तौ , स्फुटौ (स्तः ) ॥१३॥

कुजबुधभृगुजानां चेच्चलाङ्कोऽन्तिमः स्याद् दशहतपरिशेषांशा नगाद्र्य़ग्निभक्ताः ॥

फलमिषुदहनैर्युक्सप्तगोभिस्त्रिबाणैर्भवति गतिफलं तत्स्यात्तदा नैव पूर्वम् ॥१४॥

चेत् , कुजबुधभृगुजानाम् , चलांकः , अन्तिमः , स्यात् , तदा , दशहतपरिशेषांशाः , (क्रमेण ) नगाद्र्य़ग्निभक्ताः , फलम् , (क्रमेण ) हषुदहनैः , सप्तगोभिः , त्रिबाणैः , युक् (कार्यम् ) तत् , गतिफलं , स्यात् , पूर्वम् नैव ॥१४॥

त्रिनृपैः शरजिष्णुभिः शरार्र्कैं र्नगभूपैस्त्रिभवैः क्रमात्कुजाद्याः ।

चलकेन्द्रलवैः प्रयान्ति वक्रं भगणात्तैः पतितैर्व्रजन्ति मार्गम् ॥१५॥

कुजाद्याः , क्रमात् , त्रिनृपैः , शरजिष्णुभिः , शरार्केः , नगभूपैः , त्रिमवैः , चलकेन्द्रलवः , वक्रम् प्रयान्ति , (तथा ), भगणात् , पतितैः , तैः , मार्गम् , व्रजन्ति ॥१५॥

क्षितिजोऽष्टयमैरुदेति पूर्वे गुरुरिन्द्र रविजस्तु सप्तचन्द्रैः ।

स्वस्वोदयभागसंविहीनैर्भगणांशैरपरत्र यांति चास्तम् ॥१६॥

क्षितिजः , अष्टयमैः , गुरुः , इन्दै , रविजः , तु , सप्तचन्द्रैः , पूर्वे , उदेति । च , स्वस्वोदयभागसंविहीनैः , भगणांशैः , अपरत्र , अस्तम् यांति ॥१६॥

खशरैश्र्च जिनैः परे ज्ञभृग्वोरुदयोऽस्तोऽक्षदिनैर्नगाद्रिभूभिः ॥

उदयोऽक्षनखस्त्र्यहीन्दुभिः प्रागस्तो दिग्दहनैश्र्च षट्सुरैः स्यात् ॥१७॥

खशरैः , जिनैः , परे , ज्ञभृग्वोः , उदयः , च , अक्षदिनैः , नगाद्रिभूमिः , (परे ,) अस्तः , स्यात् । (तथा ) अक्षनखैः , त्र्यहीन्दुमिः , प्राक् , उदयः , (च ), दिग्दहनैः , षट्सुरैः , (प्राक् ), अस्तः (स्यात् ) ॥१७॥

वक्रोदयदिगदितांशकतोऽधिकाल्पाः केन्द्रांशकाः क्षितिसुताद्द्विगुणास्त्रिभक्ताः ।

सांकांशका दशहतांगत्दृताः कुभक्ता वक्राद्यमाप्तदिवसैः क्रमशौ गतैष्यम् ॥१८॥

वक्रोदयादिगदितांशकतः , (यदि ) केंद्रांशकाः , अधिकाल्पाः , (स्युः , तदा ,) क्षितिसुतात् , द्विगुणाः , त्रिभक्ताः , सांकांशकाः , दश , हताङ्गत्दृताः , कुभक्ताः , (कार्य्याः ) आप्तदिवसैः , क्रमशः , वक्राद्यम् , गतैष्यम् , (स्यात् ) ॥१८॥

पूर्वास्तादुदयः परेऽनृजुगतिस्तोयास्तमैन्द्र्य़ुद्रमो मार्गोऽस्तोऽत्र च दन्तदन्तदहनाष्ट्याज्याशदन्तैर्दिनैः ॥

चान्द्रेस्तत्परतत्परं त्वथ भृगोस्तद्वद्द्विमाः स्यात्ततोऽष्टाभिर्व्यंघ्रिभुवांघ्रिणा विचरणैकेनाष्टमासैः क्रमात् ॥१९॥

दन्तदन्तदहनाष्ट्याज्याशदन्तैः , दिनैः , चांद्रेः , क्रमात् , पूर्वास्तात् , परे , उदयः , अनृजुगतिः , तोयास्तम् , ऐन्द्र्य़ुद्रमः मार्गः , अस्तः , स्यात् , तत्परम् , तत्परम् , अथ , (क्रमात् ) द्विमाः , ततः , अष्टाभिः , ब्यंघ्रिभुवा , अंघिणा , विचरणैकेन , च , अष्टमासैः , भृगोः , तद्वत् , (स्यात् ) ॥१९॥

भौमस्यास्तादुदयकुटिलर्जुत्वमौढ्यं क्रमात्स्यान्मासैर्वेदैरथ दशमितैर्लोचनाभ्यां च दिग्भिः ॥

जीवस्योर्व्या सचरणयुगैः सागरैः सांघ्रिवेदैः साङ्घ्रयेकेन त्रियुगदहनैरर्धयुक्तैस्तथाऽऽर्केः ॥२०॥

भौमस्य , अस्तात् , वेदैः , अथ , दशमितैः , लोचनाभ्याम् , दिग्मिः , च , मासैः , क्रमात् , उदयकुटिलर्जुत्वमौढ्यम् , स्यात् । जीवस्य , (अस्तात् ), ऊर्व्या , सचरणयुगैः , सांघ्रिवेदैः , (मासैः , क्रमात् , उदयकुटिलर्जुत्वमौढ्यम् , स्यात् ) । तथा , आर्केः (अस्तात् ), सांघ्रयेकेन , अर्द्धयुक्तैः , त्रियुगदहनैः , (मासैः , क्रमात् , उदयकुटिलर्जुत्वमौढ्यम् , स्यात् ) ॥२०॥

इति श्रीगणकवर्यपणिडतगणेशदैवज्ञकृतौ ग्रहलाघवकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्यगौडवंशावतंसश्रीयुतभोलानाथतनूजपण्डितरामस्वरूपशर्म्मणा विरचितया विस्तृतोदाहरणसनाथीकृतयाऽन्वयसमन्वितया भाषाव्याख्यया सहितः पंचतारास्पष्टीकरणाधिकारः समाप्तिमितः ॥३॥

N/A

References : N/A
Last Updated : October 23, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP