वास्तुशांतिः - अध्याय ५

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


एवंशिख्यादिदेवानावाह्य ।

ॐ मनोजूतिर्जुषतामाज्यस्यबृहस्पतिर्य्यज्ञमिमंतनोत्वरिष्ठं य्यज्ञर्ठ समिमन्दधातु ॥

विश्वेदेवासऽइहमादयन्तामो ३ म्प्रतिष्ठ ॥१॥

एषवैप्रतिष्ठानाम० २ इतिप्रतिष्ठाप्यपीठे अक्षतान विकीर्य ॐ वास्तुपीठदेवताभ्यो नम इतिप्रणमेत ।

ततोमंडलादेशान्यामुत्तरे वा ताम्रकलशंमृन्मयकलशंवास्थापयेत ।

तद्यथा ।

महीद्यौरितिभूमिंस्पृष्ट्वा ।

ॐ महीद्यौःपृथिवीचनऽइमंयज्ञम्मिमिक्षिताम ॥

पिपृतान्नोभरीमभिः ॥१॥

औषधयःसमिति यवानक्षिप्त्वा ।

ॐ ओषधयःसमवदंतसोमेनसहराज्ञा ॥

यस्मैकृणोतिब्राह्मणस्तर्ठ राजन्पारयामसि ॥२॥

आजिघ्रमितिकलशंस्थापयेत ।

ॐ आजिघ्रकलशम्मह्यात्वाव्विशन्त्विन्दवः ।

पुनरुर्जानिवर्तस्वसानः सहस्त्रंधुक्ष्वोरुधारापयस्वतीपुनर्म्माव्विशताद्रयिः ॥३॥

वरुणस्योत्तंभनमितिजलंपूरयेत ।

ॐ व्वरुणस्योत्तम्भनमसि० ॥४॥

गंधद्वारामितिगंधंप्रक्षिपेत ।

ॐ गंधद्वारांदुराधर्षां० ॥५॥

याऽओषधीरितिसर्वौषधीः ।

ॐ याऽओषधीः पूर्वाजातादेवेभ्यस्त्रियुगम्पुरा ॥

मनैनुबभ्रूणाहर्ठशतंधामानिसप्तच ॥६॥

अश्वत्थेवेतिपंचपल्लवान ।

ॐ अश्वत्थेवोनिषदनंपर्णेवोव्वसतिष्कृता ॥

गोभाजऽइत्किंलासथयत्सनवथपूरुषम ॥७॥

स्योनापृथिवीतिसप्तमृदः ।

ॐ स्योनापृथिविनोभवानृक्षरानिवेशनी ॥

यच्छानः शर्म्मसप्प्रथाः ॥८॥

याःफलिनीरितिफलं० ।

ॐ याःफलिनीर्याऽअफलाऽअपुष्पायाश्च पुष्पिणीः ॥

बृहस्पतिप्रसूतास्तानोमुञ्चत्वर्ठ हसः ॥९॥

परिव्वाजपतिरितिपंचरत्नानि० ।

ॐ परिव्वाजपतिःकविरग्निर्हव्यान्न्यक्रमीत ॥

दधद्रत्नानिदाशुषे ॥१०॥

हिरण्यगर्भेतिहिरण्यं० ।

ॐ हिरण्यगर्भः सम० ॥११॥

युवासुवासाइतिरक्तवस्त्रेण वेष्टयेत ।

ॐ युवासुवासाः परिवीतऽआगात्सऽउश्रेयान्भवतिजायमानः ॥

तंधीरासःकवयऽउन्नयन्तिस्वाध्योमनसादेवयन्तः ॥१२॥

पूर्णादर्विपरापतसुपूर्णापुनरापत ॥

वस्नेवविक्रीणावहाऽइषमूर्जर्ठ शतक्रतो ॥१३॥

श्रीश्चतेलक्ष्मीश्चेतिश्रीफलं पूगीफलं वा संस्थाप्य। ॐ मनोजूतिर्जुषतेतिप्रतिष्ठांकृत्वातत्र ।

ॐ तत्वायामिब्रह्मणाव्वन्दमानस्तदाशास्तेयजमानोहविर्भिः ॥ अहेडमानोव्वरुणेहबोध्युरुशर्ठसमानऽआयुः प्रमोषीः ॥

ॐ वरुणं सांगं सपरिवारमावाहयामि ।

ॐ भूर्भुवः स्वर्भोवरुण इहागच्छ इहतिष्ठ इत्यावाह्य । ॐ अपांपतिवरुणायनमः इति षोडशोपचारैःसंपूजयेत।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP