संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गौतमीयधर्मशास्त्रेः|द्वितीयप्रश्ने| त्रयोदशोऽध्यायः द्वितीयप्रश्ने दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः द्वितीयप्रश्ने - त्रयोदशोऽध्यायः ‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत. Tags : dharmagautamगौतमधर्मसंस्कृत त्रयोदशोऽध्यायः Translation - भाषांतर विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था ॥१॥ बहवः स्युरनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञां निष्प्रीत्यनभितापाश्चान्यतरस्मिन् ॥२॥ अपि शूद्राः ॥३॥ ब्राह्मणस्त्वब्राह्मणवचनादनवरोध्योऽनिबद्धश्चेत् ॥४॥ नासमवेतापृष्टाः प्रबूयुः ॥५॥ अवचनेऽन्यथावचने च दोषिणः स्युः ॥६॥ स्वर्गः सत्यवचने विपर्यये नरकः ॥७॥ अनिबद्धैरपि वक्तव्यम् ॥८॥ न पीडाकृते निबन्धः ॥९॥ प्रमत्तोक्ते च ॥१०॥ साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम् ॥११॥ शपथेनैके सत्यकर्म ॥१२॥ तद्देवराजब्राह्मणसंसदि स्यादब्राह्मणानाम् ॥१३॥ क्षुद्रपश्वनृते साक्षी दश हन्ति ॥१४॥ गोश्वपुरुषभूमिषु दशगुणोत्तरान् ॥१५॥ सर्वं वा भूमौ ॥१६॥ हरणे नरकः ॥१७॥ भूमिवदप्सु ॥१८॥ मैथुनसंयोगे च ॥१९॥ पशुवन्मधुसर्पिषोः ॥२०॥ गोवद्वस्त्रहिरण्यधान्यब्रह्मसु ॥२१॥ यानेष्वश्ववत् ॥२२॥ मिथ्यावचने याप्यो दण्डयश्च साक्षी ॥२३॥ नानृतवचने दोषो जीवनं चेत्तदधीनम् ॥२४॥ न तु पापीयसो जीवनम् ॥२५॥ राजा प्राङ्विवाको ब्राह्मणो वा शास्त्रवित् ॥२६॥ प्राड्विवाकमध्याभवेत् ॥२७॥ संवत्सरं प्रतीक्षेताप्रतिभायाम् ॥२८॥ धेन्वनुडुत्त्रीप्रजननसंयुक्ते च शीघ्रम् ॥२९॥ आत्ययिके च ॥३०॥ इति श्रीहरदत्तविरचितायां गौतमसूत्रविवृतौ मिताक्षरायां त्रयोदशोऽध्यायः ॥१३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP