ऋतुसंहारः - अथ वसन्तः

कालिदास अपनी अलंकार युक्त सुंदर सरल और मधुर भाषा के लिये विशेष रूप से जाने जाते हैं। ’ऋतुसंहार’मे ऋतु वर्णन अद्वितीय हैं और उनकी उपमाएं बेमिसाल है।


प्रफुल्लचूताङ्कुरतीक्ष्णसायको

द्विरेफमालां विदधद् धनुर्गुणम्द्विरेफमालाविलसद्धनुर्गुणः ।

मनांसि भेत्तुं सुरतप्रसङ्गिनां

वसन्तयोद्धा समुपागतः प्रिये ॥१॥

द्रुमाः सपुष्पाः सलिलं सपद्मं

स्त्रियः सकामाः पवनः सुगन्धिः ।

सुखाः प्रदोषा दिवसाश्च रम्याः

सर्वं प्रिये चारुतरं वसन्ते ॥२॥

वापीजलानां मणिमेखलानां

शशाङ्कभासां प्रमदाजनानाम् ।

चूतद्रुमाणां कुसुमानतानां

तनोतिददाति सौभाग्यमयं वसन्तः ॥३॥

स्तनेषु हाराः सितचन्दनार्द्राः

मुखेषु ताम्बूलसुगन्धिवाताःभुजेषु सङ्गं वलयाङ्गदानि ।

प्रयान्ति निःशङ्कमनङ्गसौख्यंप्रयान्त्यनङ्गातुरमानसानां

विलासिनीनां जघनेषु काञ्च्यः ॥४॥

कुसुम्भरागारुणितैर्दुकूलैर्

नितम्बबिम्बानि विलासिनीनाम् ।

तन्वंशुकैः कुङ्कुमरागगौरैर्

अलङ्क्रियन्ते स्तनमन्डलानि ॥५॥

कर्णेषु योग्यं नवकर्णिकारं

चलेषु नीलेष्वलकेष्वशोकम् ।

शिखासु फुल्ला नवमल्लिकाश्च

प्रयान्ति सङ्गं प्रमदाजनस्य ॥६॥

सपत्त्रलेखेषु विलासिनीनां

वक्त्रेषु हेमाम्बुरुहोपमेषु

रत्यन्तरे मौक्तिकतुल्यरूपःरत्नान्तरे मौक्तिकसङ्गरम्यः

स्वेदोद्गमो विस्तरतामुपैति ॥७॥

उल्लासयन्त्यः श्लथबन्धनानि

गात्राणि कन्दर्पसमाकुलानि ।

समीपवर्तिष्वपि कामुकेषुसमीपवर्तिष्वधुना प्रियेषु

समुत्सुका एव भवन्ति नार्यः ॥८॥

तनूनि पाण्डूनि सुकम्पितानि

मुहुर्मुहुर्जृम्भणतत्पराणि ।

अङ्गान्यनङ्गः प्रमदाजनस्य

करोत्यसौ प्रोषितभर्तृकस्यकरोति लावण्यससंभ्रमाणि ॥९॥

नेत्रेषु लोलो मदिरालसेषु

गण्डेषु पाण्डुः कठिनः स्तनेषु ।

मध्येषु नम्रोनिम्नो जघनेषु पीनः

स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥१०॥

अङ्गानि निद्रालसितानि नित्यं

वाक्यानि किंचिन्मदिरालसानि ।

भ्रूक्षेपजिह्मानि विलोचनानिच वीक्षितानि

करोति कामः प्रमदाजनानाम् ॥११॥

प्रियङ्गुकालीयककुङ्कुमानि गुकालीयककुङ्कुमाक्तं

स्तनेषु गौरेषु विचर्चितानिविलासिनीभिः ।

आरोप्यतेआलिप्यते चन्दनमङ्गनाभिर्

मदालसाभिर्मृगनाभियुक्तम् ॥१२॥

गुरूणि वासांसि विहाय तूर्णं

तनूनि लाक्षारसरञ्जितानि ।

सुगन्धिकालागरुधूपितानि

धत्ते जनः कामशरानुविद्धःकाममदालसाङ्गः ॥१३॥

पुंस्कोकिलश्चूतरसेन मत्तः

प्रियामुखं चुम्बति सादरोऽयम्मत्तः प्रियां चुम्बति रागहृष्टः ।

गुञ्जद्द्विरेफोऽप्ययमम्बुजस्थः

प्रियं प्रियायाः प्रकरोति चाटु ॥१४॥

प्रवालताम्रास्तबकावनम्राश्

चूतद्रुमाः पुष्पितचारुशाखाः ।

कुर्वन्ति कान्तंकामं पवनावधुताः

समुत्सुकत्वं मनसोऽङ्गनानाम्पर्युत्सुकं मानसमङ्गनानां ॥१५॥

आ मुलतो विद्रुमरागताम्रं

सपल्लवं पुष्पचयं दधानाः ।

कुर्वन्त्यशोका हृदयं सशोकं

निरीक्ष्यमाणा नवयौवनानाम् ॥१६॥

मत्तद्विरेफपरिचुम्बितचारुपुष्पा

मन्दानिलाकुलितचारुमृदुप्रवालाःमन्दानिलाकुलितनम्रमृदुप्रवालाः ।

कुर्वन्ति कामिमनसां सहसोत्सुकत्वं

बालातिमुक्तकलिकाःबालातिमुक्तलतिकाः समवेक्ष्यमाणाः ॥१७॥

कान्तामुखद्युतिजुषामचिरोद्गतानां

शोभां परां कुरबकद्रुममन्जरीणाम् ।

हृष्टा प्रिये प्रियतमारहितस्य पुंसःसहृदयस्य भवेन्न कस्य

कन्दर्पबाणनिकरैर्व्यथितं हि चेतःकन्दर्पबाणपतनव्यथितं हि चेतः ॥१८॥

आदीप्तवह्निसदृशैरपि पारिजातैः इशैरपयातपत्रैः

सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।

सद्यो वसन्तसमये समुपागते चवसन्तसमयेन समागतेयं

रक्तांशुका नववधूरिव भाति भूमिः ॥१९॥

किं किंशुकैः शुकमुखच्छविभिर्न दग्धं

किं कर्णिकारकुसुमैर्न कृतं मनोज्ञम्हृतं मनोज्ञैः ।

यत् कोकिलः पुनरमीपुनरयं मधुरैर्वचोभिर्

यूनो मनः सुवदने नियतं हरन्तिसुवदनानिहितं निहन्ति ॥२०॥

पुंस्कोकिलैः कलवचोभिरुपात्थर्षैः

गुञ्जद्भिरुन्मदकलानि वचांसि पुंसाम्भृङ्गैः ।

लज्जान्वितं सविनयं हृदयं क्षणेन

पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ॥२१॥

आकम्पयन् कुसुमितां सहकारशाखांसहकारशाखाः

विस्तारयन् परभृतस्य वचांसि दिक्षु ।

वायुर्विवाति हृदयानि हरन् नराणां

नीहारपातविगमात् सुभगो वसन्ते ॥२२॥

कुन्दैः सविभ्रमवधूहसितावदातैः

संशोभितान्युपवनानिउद्योतितान्युपवनानि मनोहराणि ।

चित्तं मुनेरपि हरन्ति निरस्तरागंनिवृत्तरागम्

प्रागेव रागमलिनानि मनांसि पुंसाम्यूनाम् ॥२३॥

आलम्बिहेमरशनाः स्तनसक्तहाराः

कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः ।

मासे मधौ मधुरकोकिलभृङ्गनादैर्

नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥२४॥

नानामनोज्ञकुसुमद्रुमपुष्पिताग्रान्

हृष्टान्यपुष्टकुलशोभितसानुदेशान्हृष्टान्यपुष्टनिनदाकुलसानुदेशान् ।

शैलेयजालपरिणद्धशिलातलान्तान्

दृष्ट्वा जनः क्षितिभृतो मदमेति सर्वः ॥२५॥

नेत्रे निमीलयति रोदिति याति मोहं

घ्राणं करेण विरुणद्धि विरौति चोच्चैः ।

कान्तावियोगपरिखेदितचित्तवृत्तिर्

दृष्ट्वा जनःदृष्ट्वाध्वगः कुसुमितान् सहकारवृक्षान् ॥२६॥

समदमधुकराणां कोकिलानां च नादैः

कुसूमितसहकारैः कर्णिकारैश्च रम्यैः ।

इषुभिरिव सुतीक्ष्णैर्मानसं कामिनीनांमानिनीनां

तुदति कुसुमचापोकुसुममासो मन्मथोद्दीपनाय ॥२७॥

रुचिरकनककान्तं मुञ्चतः पुष्पवृन्दं

मृदुपवनविधूतान् पुष्पितांश्चूतवृक्षान् ।

अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मार्गे

मदनशरसुविद्धो मोहमेति प्रवासी ॥२८॥प्रक्षिप्तः

परभृतकलगीतैर्ह्लादिभिः सद्वचांसि

स्मितदशनमयूखं कुन्दपुष्पप्रभाभिः ।

सरकिसलयकान्तिं पल्लवैर्विद्रुमाभैर्

अभिभवति वसन्तः कामिनीनामिदानीम् ॥२९॥प्रक्षिप्तः

कनककमलकान्तैर्चन्दनैः पाण्डुगण्डैर्

उपनिहितसुहारैश्चन्दनार्द्रैः स्तनाग्रैः ।

मदनजनितलासैः सालसैर्दृष्टिपातैर्

मुनिवरमपि नार्यः कामयन्ते वसन्ते ॥३०॥प्रक्षिप्तः

मधुसुरभिमुखाब्जं लोचने लोलतारे

नवकुरबकपूर्णः केशपाशो मनोज्ञः ।

अतिगुरुकुचयुग्मं श्रोणिबिम्बं तथैव

न भवति किमिदानीं योषितां ब्रूहि चारु ॥३१॥प्रक्षिप्तः

आकम्पितानि हृदयानि मनस्विनीनां

वातैः प्रफुल्लसहकारकृताधिवासैः ।

उत्कूजितैः परभृतस्य मदाकुलस्य

श्रोत्रप्रियैर्मधुकरस्य च गीतशब्दैः ॥३२॥प्रक्षिप्तः

रम्यप्रदोषसमयः स्फुटचन्द्रभासः

पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।

मत्तालियूथविरुतं निशि सीधुपानं

सर्वं हि साधनमिदं कुसुमायुधस्य ॥३३॥प्रक्षिप्तः

आम्राशोकविकल्पिताधरमधुर्मत्तद्विरेफस्वनः

कुन्दापीडविशुद्धदन्तनिकरः प्रोत्फुल्लपद्माननः ।

चूतामोदसुगन्धिमन्दपवनः शृङ्गारदीक्षागुरुः

कल्पान्तं मदनप्रियो दिशतु वः पुष्पागमो मङ्गलम् ॥३४॥प्रक्षिप्तः

आम्री मङ्गलमञ्जरी वरशरः सत्किंशुकं यद्धनुर्

ज्या यस्यालिकुलम् कलङ्करहितं छ्त्रं सितांशुः सितम् ।

मत्तेभो मलयानिलः परभृता यद्वन्दिनो लोकजित्

सोऽयं वो वितरीतरीतु विनतुर्भद्रं वसन्तान्वितः ॥३५॥

॥ इति वसन्तः ॥

N/A

References : N/A
Last Updated : March 31, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP