ऋतुसंहारः - अथ शिशिरः

कालिदास अपनी अलंकार युक्त सुंदर सरल और मधुर भाषा के लिये विशेष रूप से जाने जाते हैं। ’ऋतुसंहार’मे ऋतु वर्णन अद्वितीय हैं और उनकी उपमाएं बेमिसाल है।


प्ररूढशालिप्रचयावृतक्षितिं इतक्षितिं

निद्रोत्थितक्रौञ्चनिनादशोभितम्क्वचित्स्थितक्रौञ्चनिनादशोभितम् ।

प्रकामकामं प्रमदाजनप्रियं

वरोरु कालं शिशिराह्वयं शृणु ॥१॥

निरुद्धवातायनमन्दिरोदरं

हुताशनो भानुमतो गभस्तयः ।

गुरूणि वासांस्यबलाः सयौवनाः।

प्रयान्ति कालेऽद्यकालेऽत्र जनस्य सेव्यताम् ॥२॥

न चन्दनं चन्द्रमरीचिशीतलं

न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।

न वायवः सान्द्रतुषारशीतला

जनस्य चित्तं रमयन्ति सांप्रतम् ॥३॥

तुषारसंघातनिपातशीतलाः

शशाङ्कभाभिः शिशिरीकृताः पुनः ।

विपाण्डुतारागणचारुभूषणा

जनस्य सेव्या न भवन्ति रात्रयः ॥४॥

गृहीतताम्बूलविलेपनस्रजः

पुष्पासवामोदितवक्त्रपङ्कजाः ।

प्रकामकालागरुधूपवासितं

विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥५॥

कृतापराधान् बहुशोऽभितर्जितान्

सवेपथून् साध्वसमन्दचेतसःसाध्वसलुप्तचेतसः ।

निरीक्ष्य भर्तृन् सुरताभिलाषिणः

स्त्रियोऽपराधान् समदा विसस्मरुः ॥६॥

प्रकामकामैः सुरतैश्च निर्दयं सुनिर्दयं

निशासु दीर्घास्वतिपीडिताश्चिरम्दीर्घास्वभिरामिताश्चिरम् ।

भ्रमन्ति मन्दं श्रमखेदितोरवः

क्षपावसाने नवयौवनाः स्त्रियः ॥७॥

मनोज्ञकूर्पासकपीडितस्तनाः

सरागकौशेयविभूषितोरवःसरागकौशेयकभूषितोरवः ।

निवेशितान्तःकुसुमैः शिरोरुहैर्

विभूषयन्तीव हिमागमं स्त्रियः ॥८॥

पयोधरैः कुङ्कुमरागपिञ्जरैः

सुखोपसेव्यैर्नवयौवनोन्नतैःसुखोपसेव्यैर्नवयौवनोष्मभिः ।

विलासिनीनांविलासिनीभिः परिपीडितोरसः

क्षपन्तिस्वपन्ति शीतं परिभूय कामिनः ॥९॥

सुगन्धिनिःश्वासविकम्पितोत्पलं

मनोहरं कामरतिप्रबोधनम् ।

निशासु हृष्टाः सह कामिभिः स्त्रियः

पिबन्ति मद्यं मदनीयमुत्तमम् ॥१०॥

अपगतमदरागा योषिदेका प्रभाते

कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन ।

प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं

व्रजति शयनगेहाद् वस्त्रमाकर्षयन्तीशयनवासाद्वासमन्यं हसन्ती ॥११॥

अगुरुसुरभिधूपामोदितं केशपाशं

गलितकुसुममालं धुन्वती कुञ्चिताग्रम्कुञ्चिताग्रम् वहन्ती ।

त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या

ऽप्युषसि शयनवासः कामिनी कामशोभाहुषसि शयनमन्या कामिनी चारुशोभा ॥१२॥

कनककमलकान्तैश्चारुताम्राधरोष्ठैः

श्रवणतटनियुक्तैःश्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः ।

उषसि वदनबिम्बैरंससंसक्तकेशैः

श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य ॥१३॥

पृथुजघनभरार्ताः किंचिदानम्रमध्याः

स्तनभरपरिखेदान् मन्दमन्दं व्रजन्त्यः ।

सुरतसमयवेषं नैशमन्त्यं विहायनैषमाशु प्रहाय

दधति दिवसयोग्यं वेषमेतास्तरुण्यःवेषमन्यास्तरुण्यः ॥१४॥

नखपदरचिताग्रान् वीक्ष्यमाणाः स्तनान्तान्

अधरकिसलयाग्रान् दन्तभिन्नान्अधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः ।

अभिमततरमोदं वर्णयन्त्यस्तरुण्यःअभिमतरतवेषं नन्दयन्त्यस्तरुण्यः

सवितुरुदयकाले भूषयन्त्याननानि ॥१५॥

प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः

प्रबलसुरतकेलिर्जातकन्दर्पदर्पः ।

प्रियतमरहितानांप्रियजनरहितानां चित्तसंतापहेतुः

शिशिरसमय एषः श्रेयसे वोऽस्तु नित्यम् ॥१६॥

॥ इति शिशिरः ॥

N/A

References : N/A
Last Updated : March 31, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP