तृप्तिदीपः - श्लोक २६१ ते २८०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


विपर्यस्तः निदिध्यासेत् किं ध्यानम् अविपर्ययात् । देहात्मत्व विपर्यासं न कदाचित् भजामि अहम् ॥२६१॥

अहं मनुष्यः इति आदि व्यवहारः विना अपि अमुम् । विपर्यासं चिराभ्यस्त वासनातः अवकल्पते ॥२६२॥

प्रारब्धकर्माणि क्षीणे व्यवहारः निवर्तते । कर्माक्षये तु असौ न एव शाम्येत् ध्यानसहस्रतः ॥२६३॥

विरलत्वं व्यवहृतेः इष्टं चेत् ध्यानम् अस्तु ते । अबाधिकां व्यवहृतिं पश्यन् ध्यायामि अहं कुतः ॥२६४॥

विक्षेपः न अस्ति यस्मात् मे न समाधिः ततः मम । विक्षेपः वा समाधिः वा मनसः स्यात् विकारिणः ॥२६५॥

नित्य अनुभव रूपस्य कः मे वा अनुभवः पृथक् । कृतं कृत्यं प्रापणीयं प्राप्तम् इति एव निश्चयः ॥२६६॥

व्यवहारः लौकिकः वा शास्त्रीयः वा अन्यथा अपि वा । मम अकर्तुः अलेपस्य यथा आरब्धं प्रवर्तताम् ॥२६७॥

अथवा कृतकृत्यः अपि लोकानुग्रहकाम्यया । शास्त्रीयेण एव मार्गेण वर्ते अहं का मम क्षतिः ॥२६८॥

देव अर्चन स्नान शौच भिक्षा आदौ वर्ततां वपुः । तारं जपतु वाक् तद्वत् पठतु आम्नाय मस्तकम् ॥२६९॥

विष्णुं ध्यायतु धीः यत् वा ब्रह्मानन्दे विलीयताम् । साक्षि अहं किंचित् अपि अत्र न कुर्वे न अपि कारये ॥२७०॥

एवं च कलहः कुत्र सम्भवेत् कर्मिणः मम । विभिन्न विषयत्वेन पूर्वापर समुद्रवत् ॥२७१॥

वपुः वाक् धीषु निर्बन्धः कर्मिणः न तु साक्षिणि । ज्ञानिनः साक्षि अलेपत्वे निर्बन्धः न इतरत्र हि ॥२७२॥

एवं च अन्यः अन्यवृत्तान्तान् अभिज्ञौ बधिरौ इव । विवदेतां बुद्धिमन्तः हसन्ति एव विलोक्य तौ ॥२७३॥

यं कर्मी न विजानाति साक्षिणं तस्य तत्त्ववित् । ब्रह्मत्वं बुद्ध्यतां तत्र कर्मिणः किं विहीयते ॥२७४॥

देह वाक् बुद्धयः त्यक्ता ज्ञानिना अनृतबुद्धितः । कर्मी प्रवर्तयौ आभिः ज्ञानिनः हीयते अत्र किम् ॥२७५॥

प्रवृत्तिः न उपयुक्ता चेत् निवृत्तिः क्व उपयुज्यते । बोधहेतुः निवृत्तिः चेत् बुभुत्सायां तथा इतरा ॥२७६॥

बुद्धः चेत् न बुभुत्सेत न अपि असौ बुद्ध्यते पुनः । अबाधात् अनुवर्तेत बोधः न तु अन्यसाधनात् ॥२७७॥

न अविद्या न अपि तत् कार्यं बोधं बाधितुम् अर्हति । पुरैव तत्त्वबोधेन बाधिते ते उभे यतः ॥२७८॥

बाधितं दृश्यताम् अक्षैः तेन बाधः न दृश्यते । जीवन् आखुः न मार्जारं हन्ति हन्यात् कथं मृतः ॥२७९॥

अपि पाशुपत अस्त्रेण विद्धः चेत् न ममार यः । निष्फलेषु विनुन्नाङ्गः नंक्ष्यति इति अत्र का प्रमा ॥२८०॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP