तृप्तिदीपः - श्लोक ६१ ते ८०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


सत् एव इति आदिवाक्येन ब्रह्मसत्त्वं परोक्षतः । गृहीत्वा तत् त्वम् असि आदिवाक्यात् व्यक्तिं समुल्लिखेत् ॥६१॥

आदि मध्य अवसानेषु स्वस्य ब्रह्मत्वधीः इयम् । न एव व्यभिचरेत् तस्मात् आपरोक्ष्यं प्रतिष्ठितम् ॥६२॥

जन्म आदि कारणत्वाख्य लक्षणेन भृगुः पुरा । परोक्ष्येण गृहीत्वा अथ विचारात् व्यक्तिम् ऐक्षत ॥६३॥

यदि अपि त्वम् असि इति अत्र वाक्यं न उचे भृगोः पिता । तथा अपि अन्नं प्राणम् इति विचार्यस्थलम् उक्तवान् ॥६४॥

अन्न प्राण आदि कोशेषु सुविचार्य पुनः पुनः । आनन्द व्यक्तिम् ईक्षित्वा ब्रह्मलक्ष्म अपि अयूयुजत् ॥६५॥

सत्यं ज्ञानम् अनन्तं च इति एवं ब्रह्म स्वलक्षणम् । उक्त्वा गुहाहितत्वेन कोशेषु एतत् प्रदर्शितम् ॥६६॥

पारोक्ष्येण विबुध्य इन्द्रः यः आत्मा इति आदि लक्षणात् । अपरोक्षीकर्तुम् इच्छन् चतुर्वारं गुरुं ययौ ॥६७॥

आत्मा वा इअदम् इति आदौ परोक्षं ब्रह्म लक्षितम् । अध्यारोप अपवादाभ्यां प्रज्ञानं ब्रह्म दर्शितम् ॥६८॥

अवान्तरेण वाक्येन परोक्षा ब्रह्मधीः भवेत् । सर्वत्र एव महावाक्यविचारात् अपरोक्षधीः ॥६९॥

ब्रह्म अपरोक्ष सिद्ध्यर्थं महावाक्यम् इति ईरितम् । वाक्यवृत्तौ अतः ब्रह्म अपरोक्षे विमतिः न हि ॥७०॥

आलम्बनतया भाति यः अस्मात् प्रत्यय शब्दयोः । अन्तःकरण सम्भिन्न बोधः स त्वं पदाभिधः ॥७१॥

माया उपाधिः जगत् योनिः सर्वज्ञत्वा आदि लक्षणः । परोक्ष्य शबलः सत्य आदि आत्मकः तत् पदाभिधः ॥७२॥

प्रत्यक् परोक्षता एकस्य सद्वितीयत्व पूर्णता । विरुद्ध्येते यतः तस्मात् लक्षणा सम्प्रवर्तते ॥७३॥

तत् त्वम् असि आदि वाक्येषु लक्षणा भागलक्षणा । सः अयम् इति आदि वाक्यस्थपदयोः इव न अपरा ॥७४॥

संसर्गः वा विशिष्टः वा वाक्यार्थः न अत्र संमतः । अखण्ड एक रसत्वेन वाक्यार्थः विदुषां मतः ॥७५॥

प्रत्यक् बोधः यः आभाति सः अद्वय आनन्द लक्षणः । अद्वय आनन्द रूपः च प्रत्यक् बोध एक लक्षणः ॥७६॥

इत्थम् अन्यः अन्य तादात्म्य प्रतिपत्तिः यदा भवेत् । अब्रह्मत्वं त्वम् अर्थस्य व्यवर्त्येत तदा एव हि ॥७७॥

तदर्थस्य च पारोक्ष्यं यदि एवं किं ततः शृणु । पूर्णानन्द एकरूपेण प्रत्यक् बोधः अवतिष्ठते ॥७८॥

एवं सति महावाक्यात् परोक्षज्ञानम् ईर्यते । यैः तेषां शास्त्र सिद्धान्त विज्ञानं शोभतेतराम् ॥७९॥

आस्तां शास्त्रस्य सिद्धान्तः युक्त्या वाक्यात् परोक्षधीः । स्वर्ग आदि वाक्यवन् न एवं दशमे व्यभिचारतः ॥८०॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP