तृप्तिदीपः - श्लोक ४१ ते ६०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


संसारि अहं विबुद्धः अहं निःशोकः तुष्टः इति अपि । जीवगाः उत्तरावस्थाः भान्ति न ब्रह्मगाः यदि ॥४१॥

तर्हि अज्ञः अहं ब्रह्मसत्त्वभाने मत् दृष्टितः न हि । इति पूर्वे अवस्थे च भासेते जीवगे खलु ॥४२॥

अज्ञानस्य आश्रयः ब्रह्म इति अधिष्ठानतया जगुः । जीवावस्थात्वम् अज्ञान अभिमानित्वात् अवादिषम् ॥४३॥

ज्ञानद्वयेन नष्टे अस्मिन् अज्ञाने तत् कृतावृतिः । न भाति न अस्ति च इति एषा द्विविधा अपि विनश्यति ॥४४॥

परोक्षज्ञानतः नश्येत् असत्त्वावृत्ति हेतुता । अपरोक्षज्ञान नाश्या हि अभान आवृत्तिहेतुता ॥४५॥

अभान आवरणे नष्टे जीवत्व आरोप संक्षयात् । कर्तृत्व आदि अखिलः शोकः संसार आख्यः निवर्तते ॥४६॥

निवृत्ते सर्वसंसारे नित्यमुक्तत्वभासनात् । निरङ्कुशा भवेत् तृप्तिः पुनः शोकासमुद्भवात् ॥४७॥

अपरोक्ष ज्ञान शोक निवृत्ति आख्ये उभे इमे । अवस्थे जीवगे ब्रूता आत्मानं चेत् इति श्रुतिः ॥४८॥

अयम् इति अपरोक्षत्वम् उक्तं तत् द्विविधं भवेत् । विषय स्वप्रकाशत्वात् धिय अपि एवं तत् ईक्षणात् ॥४९॥

परोक्षज्ञानकाले अपि विषय स्वप्रकाशता । समा ब्रह्म स्वप्रकाशम् अस्ति इति एवं विबोधनात् ॥५०॥

अहं ब्रह्म इति अनुल्लिख्य ब्रह्म अस्ति इति एवम् उल्लिखन् । परोक्षज्ञानम् एतं न भ्रान्तं बाध अनिरूपणात् ॥५१॥

ब्रह्म न अस्ति इति मानं चेत् स्यात् बाध्येत तदा ध्रुवम् । न च एवं प्रबलं मनं पश्यामः अतः न बाध्यते ॥५२॥

व्यक्ति अनुल्लेख मात्रेण भ्रमत्वे स्वर्गधीः अपि । भ्रान्तिः स्यात् व्यक्ति अनुल्लेखात् सामान्य उल्लेख दर्शनात् ॥५३॥

अपरोक्षत्व योग्यस्य न परोक्षमतिः भ्रमः । परोक्षम् इति अनुल्लेखात् अर्थात् परोक्ष्य सम्भवात् ॥५४॥

अंशाग्रहीतेः भ्रान्तिः चेत् घटज्ञां भ्रमः भवेत् । निरंशस्य अपि संसत्वं व्यावर्त्यांश विभेदतः ॥५५॥

असत्वांशः निवर्तेत परोक्षज्ञानतः तथा । अभानांश निवृत्तिः स्यात् अपरोक्षधिया कृता ॥५६॥

दशमः अस्ति इति अविभ्रान्तं परोक्ष ज्ञानम् ईक्ष्यते । ब्रह्म अस्ति इति अपि तद्वत् स्यात् अज्ञान आवरणं समम् ॥५७॥

आत्मा ब्रह्म इति वाक्यार्थे निःशेषेण विचारिते । व्यक्तिः उल्लिख्यते यद्वत् दशमः त्वम् असि इति अतः ॥५८॥

दशमः कः इति प्रश्ने त्वम् एव इति निराकृते । गणयित्वा स्वेन सह स्वम् एव दशमं स्मरेत् ॥५९॥

दशमः अस्मि इति वाक्योत्था न धीरस्य विहन्यते । आदि मध्य अवसानेषु न नवत्वस्य संशयः ॥६०॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP