चित्रदीपः - श्लोक २६१ ते २९०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.

 


अहङ्कार चिदात्मानौ एकीकृत्य अविवेकतः । इदं मे स्यात् इदं मे स्यात् इति इच्छाः कामशब्दिताः ॥२६१॥

अप्रवेश्य चिदात्मानं पृथक् पश्यन् अहङ्कृतिम् । इच्छं तु कोटिवस्तूनि न बाधः ग्रन्थिभेदतः ॥२६२॥

ग्रन्थिभेदे अपि सम्भाव्याः इच्छाः प्रारब्धदोषतः । बुध्वा अपि पापबाहुल्यात् असन्तोषः यथा तव ॥२६३॥

अहङ्कारगत इच्छा आद्यैः देहव्याधि आदिभिः तथा । वृक्ष आदि जन्म नाशैः वा चिद्रूपात्मनि किं भवेत् ॥२६४॥

ग्रन्थिभेदात् पुर अपि एवम् इति चेत् तत् न विस्मर । अयम् एव ग्रन्थिभेदः तव तेन कृती भवान् ॥२६५॥

न एवं जानन्ति मूढाः चेत् सः अयं ग्रन्थिः न च अपरः । ग्रन्थि तत् भेद मात्रेण वैशम्यं मूढबुद्धयोः ॥२६६॥

प्रवृत्तौ वा निवृत्तौ वा देहेन्द्रिय मनः धियाम् । न किंचित् अपि वैशम्यम् अस्ति अज्ञानि विबुद्धयोः ॥२६७॥

व्रात्य श्रोत्रिययोः वेद पाठ अपाठ कृता भिदा । न आहार आदौ अस्ति भेदः सः अयं न्यायः अत्र योज्यताम् ॥२६८॥

न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति । उदासीनवत् आसीनः इति ग्रन्थिभिद उच्यते ॥२६९॥

औदासीन्यं विधेयं चेत् वत् शब्द व्यर्थता तदा । न शक्ताः अस्य देह आद्याः इति चेत् रोगः एव सः ॥२७०॥

तत्त्वबोधं क्षयं व्याधिं मन्यन्ते ये महाधियः । तेषं प्रज्ञातिविशदा किं तेषां दुःशकं वद ॥२७१॥

भरतादेः अप्रवृत्तिः पुराणोक्त इति चेत् तदा । जक्षन् क्रीडन् रतिं विन्दन् इति अश्रौषिः न किं श्रुतिम् ॥२७२॥

न हि आहारादि सन्त्यज्य भरत आद्याः स्थिताः क्वचित् । काष्ठ पाषाणवत् किन्तु सङ्ग भीता उदासते ॥२७३॥

सङ्गी हि बाध्यते लोके निःसङ्गः सुखम् अश्नुते । तेन सङ्गः परित्याज्यः सर्वदा सुखम् इच्छता ॥२७४॥

अज्ञात्वा शास्त्र हृदयं मूढः वक्ति अन्यथा अन्यथा । मूर्खाणां निर्णयः तु आस्ताम् अस्मत् सिद्धान्तः उच्यते ॥२७५॥

वैराग्य बोध उपरमाः सहायाः ते परस्परम् । प्रायेण सह वर्तन्ते वियुज्यन्ते क्वचित् क्वचित् ॥२७६॥

हेतु स्वरूप कार्याणि भिन्नानि एषाम् असंकरः । यथावत् अवगन्तव्यः शास्त्रार्थं प्रविविच्यता ॥२७७॥

दोष दृष्टिः जिहासा च पुनः भोगेषु अदीनता । असाधारण हेतु आद्याः वैराग्यस्य त्रयोपि अमी ॥२७८॥

श्रवणादि त्रयं तद्वत् तत्त्व मिथ्या विवेचनम् । पुनः ग्रन्थेः अनुदयः बोधस्य एते त्रयः मताः ॥२७९॥

यमादिः धी निरोधः च व्यवहारस्य संक्षयः । स्युः हेतु आद्याः उपरतेः इति असंकर ईरितः ॥२८०॥

तत्त्वबोधः प्रधानं स्यात् साक्षात् मोक्ष प्रदत्वतः । बोध उपकारिणौ एतौ वैराग्य उपरमौ उभौ ॥२८१॥

त्रयः अपि अत्यन्त पक्वाः चेत् महतः तपसः फलम् । दुरितेन क्वचित् किंचित् कदाचित् प्रतिबध्यते ॥२८२॥

वैराग्य उपरती पूर्णे बोधः तु प्रतिबध्यते । यस्य तस्य न मोक्षः अस्ति पुण्य लोकः तपोबलात् ॥२८३॥

पूर्णे बोधे तत् अन्यौ द्वौ प्रतिबद्धौ यदा तदा । मोक्षः विनिश्चितः किन्तु दृष्टदुःखं न नश्यति ॥२८४॥

ब्रह्मलोकतृणीकारः वैराग्यस्य अवधिः मतः । देहात्मवत् परात्मत्व दार्ढ्ये बोधः समाप्यते ॥२८५॥

सुप्तिवत् विस्मृतिः सीमा भवेत् उपरमस्य हि । दिशा अनया विनिश्चेयं तारतम्यम् अवान्तरम् ॥२८६॥

आरब्ध कर्म नानात्वात् बुद्धानाम् अन्यथा अन्यथा । वर्तनं तेन शास्त्रार्थे भ्रमितव्यं न पण्डितैः ॥२८७॥

स्वस्वकर्मानुसारेण वर्ततां ते यथा तथा । अविशिष्टः सर्वबोधः समा मुक्तिः इति स्थितिः ॥२८८॥

जगत् चित्रं स्वचैतन्ये पटे चित्रम् इव अर्पितम् । मायया तत् उपेक्ष एव चैतन्ये परिशेष्यताम् ॥२८९॥

चित्रदीपम् इमं नित्यं ये अनुसन्दधते बुधाः । पश्यन्तः अपि जगत् चित्रं ते मुह्यन्ति न पूर्ववत् ॥२९०॥

इति षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP