चित्रदीपः - श्लोक ८१ ते १००

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


वालाग्र शत भागस्य शतधा कल्पितस्य च । भागः जीवः सः विज्ञेयः इति च आह अपरा श्रुतिः ॥८१॥

दिक् अम्बराः मध्यमत्वम् आहुः आपादमस्तकम् । चैतन्य व्याप्ति संदृष्टेः आनखाग्र श्रुतेः अपि ॥८२॥

सूक्ष्म नाडी प्रचारः तु सूक्ष्मैः अवयवैः भवेत् । स्थूल देहस्य हस्ताभ्यां कञ्चुकप्रतिमोकवत् ॥८३॥

न्यून अधिक शरीरेषु प्रवेशो अपि गम आगमैः । आत्मांसानां भवेत् तेन मध्यमत्वं विनिश्चितम् ॥८४॥

संशयस्य घटवन् नाशः भवति एव तथा सति । कृत नाश अकृत अभ्यागमयोः कः वारकः भवेत् ॥८५॥

तस्मात् आत्मा महान् एव न एव अणुः न अपि मध्यमः । आकाशवत् सर्वगतः निरंशः श्रुति संमतः ॥८६॥

इति उक्त्वा तत् विशेषे तु बहुधा कलहं ययुः । अचित् रूपः अथ चित् रूपः चित् अचित् रूप इति अपि ॥८७॥

प्रभाकराः तार्किकाः च प्राहुः अस्य अचित् आत्मताम् । आकाशवत् द्रव्यम् आत्मा शब्दवत् तत् गुणः चितिः ॥८८॥

इच्छा द्वेष प्रयत्नाः च धर्म अधर्मौ सुख असुखे । तत् संस्काराः च तस्य एते गुणाः चितिवत् ईरिताः ॥८९॥

आत्मनः मनसा योगे स्व अदृष्ट वसतः गुणाः । जायन्ते अथ प्रलीयन्ते सुषुप्ते अदृष्ट संक्षयात् ॥९०॥

चिति मत्त्वात् चेतनः अयम् इच्छा द्वेष प्रयत्नवान् । स्यात् धर्म अधर्मयोः कर्ता भोक्ता दुःख आदिमत्त्वतः ॥९१॥

यथा अत्र कर्मवशतः कादाचित् कं सुख आदिकम् । तथा लोकान्तरे देहे कर्मणा इच्छा आदि जन्यते ॥९२॥

एवं च सर्वगस्य अपि सम्भवेतां गम आगमौ । कर्मकाण्डः समग्रः अत्र प्रमाणम् इति ते अवदन् ॥९३॥

आनन्दमय कोशः यः सुषुप्तौ परिशिष्यते । अस्पष्ट चित् सः आत्मैषां पूर्वकोशः अस्य ते गुणाः ॥९४॥

गूढं चैतन्यम् उत्प्रेक्ष्य जड बोध स्वरूपताम् । आत्मनः ब्रूवते भाट्टाः चित् उत्प्रेक्ष्य उत्थित स्मृतेः ॥९५॥

जडः भूत्वा तदा अस्वाप्सम् इति जाड्य स्मृतिः तदा । विना जाड्य अनुभूतिं न कथंचित् उपपद्यते ॥९६॥

द्रष्टुः दृष्टेः अलोपः च श्रुतः सुप्तौ ततः तु अयम् । अप्रकाश प्रकाशाभ्याम् आत्मा खद्योतवत् युतः ॥९७॥

निरंशस्य उभय आत्मत्वं न कथंचित् घटिष्यते । तेन चिद्रूपः एव आत्मा इति आहुः सांख्याः विवेकिनः ॥९८॥

जाड्य अंशः प्रकृतेः रूपं विकारी त्रिगुणं च तत् । चितः भोग अपवर्गार्थं प्रकृतिः सा प्रवर्तते ॥९९॥

असङ्गायाः चितेः बन्ध मोक्षौ भेदाग्रहान् मतौ । बन्ध मुक्ति व्यवस्थार्थं पूर्वेषाम् इव चित् भिदा ॥१००॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP