चित्रदीपः - श्लोक ६१ ते ८०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


श्रौतीकर्तुं स्वपक्षं ते कोशम् अन्नमयं तथा । विरोचनस्य सिद्धान्तं प्रमाणं प्रतिजज्ञिरे ॥६१॥

जीवात्म निर्गमे देह मरणस्य अत्र दर्शनात् । देह अतिरिक्त एव आत्मा इति आहुः लोकायताः परे ॥६२॥

प्रत्यक्षत्वेन अभिमता अहं धीः देह अतिरेकिणम् । गमयेत् इन्द्रिय आत्मानं वच्मि इति आदि प्रयोगतः ॥६३॥

वाक् आदिनाम् इन्द्रियाणां कलहः श्रुतिषु श्रुतः । तेन चैतन्यम् एतेषाम् आत्मत्वं ततः एव हि ॥६४॥

हैरण्यगर्भाः प्राणात्मवादिनः तु एवम् ऊचिरे । चक्षुरादि अक्ष लोपे अपि प्राणसत्त्वे तु जीवति ॥६५॥

प्राणः जागर्ति सुप्ते अपि प्राण श्रैष्ठ्य आदिकं श्रुतम् । कोशः प्राणमयः सम्यक् विस्तरेण प्रपञ्चितः ॥६६॥

मनः आत्मा इति मन्यन्तः उपासन परा जनाः । प्राणस्य अभोक्तृता स्पष्टा भोक्तृत्वं मनसः ततः ॥६७॥

मनः एव मनुष्याणां कारणं बन्ध मोक्षयोः । श्रुतः मनोमयः कोशः आत्मा इति ईरितं मनः ॥६८॥

विज्ञानम् आत्मा इति परह् आहुः क्षणिक वादिनः । यतः विज्ञान मूलत्वं मनसः गम्यते स्फुटम् ॥६९॥

अहं वृत्तिः इअदं वृत्तिः इति अन्तःकरणं द्विधा । विज्ञानं स्यात् अहं वृत्तिः इदं वृत्तिः मनः भवेत् ॥७०॥

अहं प्रत्यय बीजत्वम् इदं वृत्तेः इति स्फुटम् । अविदित्वा स्वम् आत्मानं बाह्यं वेत्ति न तु क्वचित् ॥७१॥

क्षणे क्षणे जन्म नाशौ अहं वृत्तेः मितौ यतः । विज्ञानं क्षणिकं तेन स्वप्रकाशं स्वतः मितेः ॥७२॥

विज्ञानमयकोशः अयं जीवः इति आगमाः जगुः । सर्व संसारः एतस्य जन्म नाश सुख आदिकः ॥७३॥

विज्ञानं क्षणिकं न आत्मा विद्युत् अभ्र निमेषवत् । अन्यस्य अनुपलब्धत्वात् शून्यं माध्यमिकाः जगुः ॥७४॥

असत् एव इदम् इति आदौ इदम् एव श्रुतं ततः । ज्ञान ज्ञेयात्मकं सर्वं जगत् भ्रान्ति प्रकल्पितम् ॥७५॥

निरधिष्ठान विभ्रान्तेः अभावात् आत्मनः अस्तिता । शून्यस्य अपि ससाक्षित्वात् अन्यथा न उक्तिः अस्य ते ॥७६॥

अन्यः विज्ञानमयतः आनन्दमयः आन्तरः । अस्ति इति एव उपलब्धव्यः इति वैदिक दर्शनम् ॥७७॥

अणुः महान् मध्यमः वा इति एवं तत्र अपि वादिनः । बहुधा विवदन्ते हि श्रुति युक्ति समाश्रयात् ॥७८॥

अणुं वदन्ति आन्तरालाः सूक्ष्म नाडी प्रचारतः । रोम्णः सहस्रभागेन तुल्यासु प्रचरति अयम् ॥७९॥

अणोः अणीयान् एषः अणुः सूक्ष्मात् सूक्ष्मतरं तु इति ॥ अणुत्वम् आहुः श्रुतयः शतशः अथ सहस्रशः ॥८०॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP